Ṛgveda · Maṇḍala 10 · Sūkta 82

Ṛk 10.82.7

Viśvakarman · Viśvakarman Bhauvana

The whole sūkta Link

Saṃhitā

न तं वि॑दाथ॒ य इ॒मा ज॒जाना॒न्यद्यु॒ष्माक॒मंत॑रं बभूव ।
नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरंति ॥

न तं विदाथ य इमा जजानान्यद् युष्माकम् अन्तरम् बभूव |
नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश् चरन्ति ||

ná tám vidātha yá imā́ jajā́nānyádyuṣmā́kamántaram babhūva ǀ
nīhāréṇa prā́vṛtā jálpyā cāsutṛ́pa ukthaśā́saścaranti ǁ

na taṃ vidātha ya imā jajānānyad yuṣmākam antaram babhūva |
nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaś caranti ||

Padapāṭha

न । तम् । वि॒दा॒थ॒ । यः । इ॒मा । ज॒जान॑ । अ॒न्यत् । यु॒ष्माक॑म् । अन्त॑रम् । ब॒भू॒व॒ ।
नी॒हा॒रेण॑ । प्रावृ॑ताः । जल्प्या॑ । च॒ । अ॒सु॒ऽतृपः॑ । उ॒क्थ॒ऽशसः॑ । च॒र॒न्ति॒ ॥

न । तम् । विदाथ । यः । इमा । जजान । अन्यत् । युष्माकम् । अन्तरम् । बभूव ।
नीहारेण । प्रावृताः । जल्प्या । च । असुऽतृपः । उक्थऽशसः । चरन्ति ॥

ná ǀ tám ǀ vidātha ǀ yáḥ ǀ imā́ ǀ jajā́na ǀ anyát ǀ yuṣmā́kam ǀ ántaram ǀ babhūva ǀ
nīhāréṇa ǀ prā́vṛtāḥ ǀ jálpyā ǀ ca ǀ asu-tṛ́paḥ ǀ uktha-śásaḥ ǀ caranti ǁ

na ǀ tam ǀ vidātha ǀ yaḥ ǀ imā ǀ jajāna ǀ anyat ǀ yuṣmākam ǀ antaram ǀ babhūva ǀ
nīhāreṇa ǀ prāvṛtāḥ ǀ jalpyā ǀ ca ǀ asu-tṛpaḥ ǀ uktha-śasaḥ ǀ caranti ǁ

References

Maṇḍala · Sūkta · Ṛk
10.082.07
Aṣṭaka · Adhyāya · Varga · Ṛk
8.3.17.07
Maṇḍala · Anuvāka · Ṛk
10.06.121
Devatā देवता
Viśvakarman
Ṛṣi ऋषि
Viśvakarman Bhauvana
Chandas छन्दस्
Triṣṭubh, Jagatī
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.82.7

Interpretations

Sāyaṇa

हे नराः तं विश्वकर्माणं न विदाथ न जानीथ य इमेमानि भुतानि जजान उत्पादितवान्। देवदत्तोऽहं यज्ञदत्तोऽमिति वयमात्मानं विश्वकर्माणं जानीम इति यदुच्येत तदसत् न ह्यहंप्रत्ययगम्यं जीवरूपं विश्वकर्मणः परमेश्वरस्य तत्त्वं किन्तु युश्माकमहंप्रत्ययगम्यानां जीवानामन्तरमन्यदहं प्रत्ययगम्यादतिरिक्तं सर्ववेदान्तवेद्यमीश्वरतत्त्वं बभूव। भवति। विद्यते। जीवरूपवत्तदपि कुतो न विद्म इति चेत् श्रूयतां। नीहारेण प्रावृता यूयम् नीहारसदृशेनाज्ञानेनाच्छन्नाः। अतो न जानीथ। यथा नीहारो नात्यन्तमसद्दृष्टेरावरकत्वात् नात्यन्तं सत्काष्ठपाषानादिवत्सम्बोद्धुमयोग्यत्वात् एवमज्ञानमपि नात्यन्तमसदीश्वततत्त्वावरकत्वात् नापि सद्बोधमात्रनिवर्त्यत्वात्। ईदृशेनाज्ञानेन सर्वे जीवाः प्रावृताः। न केवलं प्रावृतत्वं किन्तु जल्प्या च देवोऽहं मनुष्योऽहमित्याद्यनृतजल्पनेन प्रावृताः। किञ्चासुतृपः केनाप्युपायेनासून्प्राणांस्तृप्यन्तः। उदरम्भरा इत्यर्थः। न तु पारमेश्वरं तत्त्वं विचारितवन्तः। न केवलमिहलोकेभोगमात्रतृप्ता उक्थतासो नानाविधेषु यज्ञेषूक्थ्यं प्रौगनिष्केवल्यादिकं शंसं तश्चरन्ति। पृथिव्यां वर्तन्ते। केवल मैहिकामुष्मिकभोगपरा वर्तध्वेऽतो विश्वकर्माणं देवं न जानीथेत्यर्थः॥७॥