Ṛgveda · Maṇḍala 10 · Sūkta 38
Ṛk 10.38.4
Saṃhitā
यो द॒भ्रेभि॒र्हव्यो॒ यश्च॒ भूरि॑भि॒र्यो अ॒भीके॑ वरिवो॒विन्नृ॒षाह्ये॑ ।
तं वि॑खा॒दे सस्नि॑म॒द्य श्रु॒तं नर॑म॒र्वांच॒मिंद्र॒मव॑से करामहे ॥
यो दभ्रेभिर् हव्यो यश् च भूरिभिर् यो अभीके वरिवोविन् नृषाह्ये |
तं विखादे सस्निम् अद्य श्रुतं नरम् अर्वाञ्चम् इन्द्रम् अवसे करामहे ||
yó dabhrébhirhávyo yáśca bhū́ribhiryó abhī́ke varivovínnṛṣā́hye ǀ
tám vikhādé sásnimadyá śrutám náramarvā́ñcamíndramávase karāmahe ǁ
yo dabhrebhir havyo yaś ca bhūribhir yo abhīke varivovin nṛṣāhye |
taṃ vikhāde sasnim adya śrutaṃ naram arvāñcam indram avase karāmahe ||
Padapāṭha
यः । द॒भ्रेभिः॑ । हव्यः॑ । यः । च॒ । भूरि॑ऽभिः । यः । अ॒भीके॑ । व॒रि॒वः॒ऽवित् । नृ॒ऽसह्ये॑ ।
तम् । वि॒ऽखा॒दे । सस्नि॑म् । अ॒द्य । श्रु॒तम् । नर॑म् । अ॒र्वाञ्च॑म् । इन्द्र॑म् । अव॑से । क॒रा॒म॒हे॒ ॥
यः । दभ्रेभिः । हव्यः । यः । च । भूरिऽभिः । यः । अभीके । वरिवःऽवित् । नृऽसह्ये ।
तम् । विऽखादे । सस्निम् । अद्य । श्रुतम् । नरम् । अर्वाञ्चम् । इन्द्रम् । अवसे । करामहे ॥
yáḥ ǀ dabhrébhiḥ ǀ hávyaḥ ǀ yáḥ ǀ ca ǀ bhū́ri-bhiḥ ǀ yáḥ ǀ abhī́ke ǀ varivaḥ-vít ǀ nṛ-sáhye ǀ
tám ǀ vi-khādé ǀ sásnim ǀ adyá ǀ śrutám ǀ náram ǀ arvā́ñcam ǀ índram ǀ ávase ǀ karāmahe ǁ
yaḥ ǀ dabhrebhiḥ ǀ havyaḥ ǀ yaḥ ǀ ca ǀ bhūri-bhiḥ ǀ yaḥ ǀ abhīke ǀ varivaḥ-vit ǀ nṛ-sahye ǀ
tam ǀ vi-khāde ǀ sasnim ǀ adya ǀ śrutam ǀ naram ǀ arvāñcam ǀ indram ǀ avase ǀ karāmahe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.038.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.8.14.04
- Maṇḍala · Anuvāka · Ṛk
- 10.03.102
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Indra Muṣkavat
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.