Ṛgveda · Maṇḍala 10 · Sūkta 11
Ṛk 10.11.3
Saṃhitā
सो चि॒न्नु भ॒द्रा क्षु॒मती॒ यश॑स्वत्यु॒षा उ॑वास॒ मन॑वे॒ स्व॑र्वती ।
यदी॑मु॒शंत॑मुश॒तामनु॒ क्रतु॑म॒ग्निं होता॑रं वि॒दथा॑य॒ जीज॑नन् ॥
सो चिन् नु भद्रा क्षुमती यशस्वत्य् उषा उवास मनवे स्वर्वती |
यद् ईम् उशन्तम् उशताम् अनु क्रतुम् अग्निं होतारं विदथाय जीजनन् ||
só cinnú bhadrā́ kṣumátī yáśasvatyuṣā́ uvāsa mánave svárvatī ǀ
yádīmuśántamuśatā́mánu krátumagním hótāram vidáthāya jī́janan ǁ
so cin nu bhadrā kṣumatī yaśasvaty uṣā uvāsa manave svarvatī |
yad īm uśantam uśatām anu kratum agniṃ hotāraṃ vidathāya jījanan ||
Padapāṭha
सो इति॑ । चि॒त् । नु । भ॒द्रा । क्षु॒ऽमती॑ । यश॑स्वती । उ॒षाः । उ॒वा॒स॒ । मन॑वे । स्वः॑ऽवती ।
यत् । ई॒म् । उ॒शन्त॑म् । उ॒श॒ताम् । अनु॑ । क्रतु॑म् । अ॒ग्निम् । होता॑रम् । वि॒दथा॑य । जीज॑नन् ॥
सो इति । चित् । नु । भद्रा । क्षुऽमती । यशस्वती । उषाः । उवास । मनवे । स्वःऽवती ।
यत् । ईम् । उशन्तम् । उशताम् । अनु । क्रतुम् । अग्निम् । होतारम् । विदथाय । जीजनन् ॥
só íti ǀ cit ǀ nú ǀ bhadrā́ ǀ kṣu-mátī ǀ yáśasvatī ǀ uṣā́ḥ ǀ uvāsa ǀ mánave ǀ sváḥ-vatī ǀ
yát ǀ īm ǀ uśántam ǀ uśatā́m ǀ ánu ǀ krátum ǀ agním ǀ hótāram ǀ vidáthāya ǀ jī́janan ǁ
so iti ǀ cit ǀ nu ǀ bhadrā ǀ kṣu-matī ǀ yaśasvatī ǀ uṣāḥ ǀ uvāsa ǀ manave ǀ svaḥ-vatī ǀ
yat ǀ īm ǀ uśantam ǀ uśatām ǀ anu ǀ kratum ǀ agnim ǀ hotāram ǀ vidathāya ǀ jījanan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.011.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.6.09.03
- Maṇḍala · Anuvāka · Ṛk
- 10.01.084
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Havirdhāna Āṅgi
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.