Ṛgveda · Maṇḍala 10 · Sūkta 11
Ṛk 10.11.8
Saṃhitā
यद॑ग्न ए॒षा समि॑ति॒र्भवा॑ति दे॒वी दे॒वेषु॑ यज॒ता य॑जत्र ।
रत्ना॑ च॒ यद्वि॒भजा॑सि स्वधावो भा॒गं नो॒ अत्र॒ वसु॑मंतं वीतात् ॥
यद् अग्न एषा समितिर् भवाति देवी देवेषु यजता यजत्र |
रत्ना च यद् विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ||
yádagna eṣā́ sámitirbhávāti devī́ devéṣu yajatā́ yajatra ǀ
rátnā ca yádvibhájāsi svadhāvo bhāgám no átra vásumantam vītāt ǁ
yad agna eṣā samitir bhavāti devī deveṣu yajatā yajatra |
ratnā ca yad vibhajāsi svadhāvo bhāgaṃ no atra vasumantaṃ vītāt ||
Padapāṭha
यत् । अ॒ग्ने॒ । ए॒षा । सम्ऽइ॑तिः । भवा॑ति । दे॒वी । दे॒वेषु॑ । य॒ज॒ता । य॒ज॒त्र॒ ।
रत्ना॑ । च॒ । यत् । वि॒ऽभजा॑सि । स्व॒धा॒ऽवः॒ । भा॒गम् । नः॒ । अत्र॑ । वसु॑ऽमन्तम् । वी॒ता॒त् ॥
यत् । अग्ने । एषा । सम्ऽइतिः । भवाति । देवी । देवेषु । यजता । यजत्र ।
रत्ना । च । यत् । विऽभजासि । स्वधाऽवः । भागम् । नः । अत्र । वसुऽमन्तम् । वीतात् ॥
yát ǀ agne ǀ eṣā́ ǀ sám-itiḥ ǀ bhávāti ǀ devī́ ǀ devéṣu ǀ yajatā́ ǀ yajatra ǀ
rátnā ǀ ca ǀ yát ǀ vi-bhájāsi ǀ svadhā-vaḥ ǀ bhāgám ǀ naḥ ǀ átra ǀ vásu-mantam ǀ vītāt ǁ
yat ǀ agne ǀ eṣā ǀ sam-itiḥ ǀ bhavāti ǀ devī ǀ deveṣu ǀ yajatā ǀ yajatra ǀ
ratnā ǀ ca ǀ yat ǀ vi-bhajāsi ǀ svadhā-vaḥ ǀ bhāgam ǀ naḥ ǀ atra ǀ vasu-mantam ǀ vītāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.011.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.6.10.03
- Maṇḍala · Anuvāka · Ṛk
- 10.01.089
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Havirdhāna Āṅgi
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.