Sūkta 114
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Kaśyapa Mārīca
- Chandas छन्दस्
- Paṅkti
Metres by ṛk
1st set of styles virāṭpaṅkti (1, 2); paṅktiḥ (3, 4)
2nd set of styles paṅkti
-
Ṛk 1
य इंदोः॒ पव॑मान॒स्यानु॒ धामा॒न्यक्र॑मीत् ।
तमा॑हुः सुप्र॒जा इति॒ यस्ते॑ सो॒मावि॑ध॒न्मन॒ इंद्रा॑येंदो॒ परि॑ स्रव ॥य इन्दोः पवमानस्यानु धामान्य् अक्रमीत् |
तम् आहुः सुप्रजा इति यस् ते सोमाविधन् मन इन्द्रायेन्दो परि स्रव ||yá índoḥ pávamānasyā́nu dhā́mānyákramīt ǀ
támāhuḥ suprajā́ íti yáste somā́vidhanmána índrāyendo pári srava ǁya indoḥ pavamānasyānu dhāmāny akramīt |
tam āhuḥ suprajā iti yas te somāvidhan mana indrāyendo pari srava ||यः । इन्दोः॑ । पव॑मानस्य । अनु॑ । धामा॑नि । अक्र॑मीत् ।
तम् । आ॒हुः॒ । सु॒ऽप्र॒जाः । इति॑ । यः । ते॒ । सो॒म॒ । अवि॑धत् । मनः॑ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥यः । इन्दोः । पवमानस्य । अनु । धामानि । अक्रमीत् ।
तम् । आहुः । सुऽप्रजाः । इति । यः । ते । सोम । अविधत् । मनः । इन्द्राय । इन्दो इति । परि । स्रव ॥yáḥ ǀ índoḥ ǀ pávamānasya ǀ ánu ǀ dhā́māni ǀ ákramīt ǀ
tám ǀ āhuḥ ǀ su-prajā́ḥ ǀ íti ǀ yáḥ ǀ te ǀ soma ǀ ávidhat ǀ mánaḥ ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁyaḥ ǀ indoḥ ǀ pavamānasya ǀ anu ǀ dhāmāni ǀ akramīt ǀ
tam ǀ āhuḥ ǀ su-prajāḥ ǀ iti ǀ yaḥ ǀ te ǀ soma ǀ avidhat ǀ manaḥ ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ9.114.1 Aṣṭaka 7.5.28.1Anuvāka 9.7.121
-
Ṛk 2
ऋषे॑ मंत्र॒कृतां॒ स्तोमैः॒ कश्य॑पोद्व॒र्धय॒न्गिरः॑ ।
सोमं॑ नमस्य॒ राजा॑नं॒ यो ज॒ज्ञे वी॒रुधां॒ पति॒रिंद्रा॑येंदो॒ परि॑ स्रव ॥ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन् गिरः |
सोमं नमस्य राजानं यो जज्ञे वीरुधाम् पतिर् इन्द्रायेन्दो परि स्रव ||ṛ́ṣe mantrakṛ́tām stómaiḥ káśyapodvardháyangíraḥ ǀ
sómam namasya rā́jānam yó jajñé vīrúdhām pátiríndrāyendo pári srava ǁṛṣe mantrakṛtāṃ stomaiḥ kaśyapodvardhayan giraḥ |
somaṃ namasya rājānaṃ yo jajñe vīrudhām patir indrāyendo pari srava ||ऋषे॑ । म॒न्त्र॒ऽकृता॑म् । स्तोमैः॑ । कश्य॑प । उ॒त्ऽव॒र्धय॑न् । गिरः॑ ।
सोम॑म् । न॒म॒स्य॒ । राजा॑नम् । यः । ज॒ज्ञे । वी॒रुधा॑म् । पतिः॑ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥ऋषे । मन्त्रऽकृताम् । स्तोमैः । कश्यप । उत्ऽवर्धयन् । गिरः ।
सोमम् । नमस्य । राजानम् । यः । जज्ञे । वीरुधाम् । पतिः । इन्द्राय । इन्दो इति । परि । स्रव ॥ṛ́ṣe ǀ mantra-kṛ́tām ǀ stómaiḥ ǀ káśyapa ǀ ut-vardháyan ǀ gíraḥ ǀ
sómam ǀ namasya ǀ rā́jānam ǀ yáḥ ǀ jajñé ǀ vīrúdhām ǀ pátiḥ ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁṛṣe ǀ mantra-kṛtām ǀ stomaiḥ ǀ kaśyapa ǀ ut-vardhayan ǀ giraḥ ǀ
somam ǀ namasya ǀ rājānam ǀ yaḥ ǀ jajñe ǀ vīrudhām ǀ patiḥ ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ9.114.2 Aṣṭaka 7.5.28.2Anuvāka 9.7.122
-
Ṛk 3
स॒प्त दिशो॒ नाना॑सूर्याः स॒प्त होता॑र ऋ॒त्विजः॑ ।
दे॒वा आ॑दि॒त्या ये स॒प्त तेभिः॑ सोमा॒भि र॑क्ष न॒ इंद्रा॑येंदो॒ परि॑ स्रव ॥सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः |
देवा आदित्या ये सप्त तेभिः सोमाभि रक्ष न इन्द्रायेन्दो परि स्रव ||saptá díśo nā́nāsūryāḥ saptá hótāra ṛtvíjaḥ ǀ
devā́ ādityā́ yé saptá tébhiḥ somābhí rakṣa na índrāyendo pári srava ǁsapta diśo nānāsūryāḥ sapta hotāra ṛtvijaḥ |
devā ādityā ye sapta tebhiḥ somābhi rakṣa na indrāyendo pari srava ||स॒प्त । दिशः॑ । नाना॑ऽसूर्याः । स॒प्त । होता॑रः । ऋ॒त्विजः॑ ।
दे॒वाः । आ॒दि॒त्याः । ये । स॒प्त । तेभिः॑ । सो॒म॒ । अ॒भि । र॒क्ष॒ । नः॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥सप्त । दिशः । नानाऽसूर्याः । सप्त । होतारः । ऋत्विजः ।
देवाः । आदित्याः । ये । सप्त । तेभिः । सोम । अभि । रक्ष । नः । इन्द्राय । इन्दो इति । परि । स्रव ॥saptá ǀ díśaḥ ǀ nā́nā-sūryāḥ ǀ saptá ǀ hótāraḥ ǀ ṛtvíjaḥ ǀ
devā́ḥ ǀ ādityā́ḥ ǀ yé ǀ saptá ǀ tébhiḥ ǀ soma ǀ abhí ǀ rakṣa ǀ naḥ ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁsapta ǀ diśaḥ ǀ nānā-sūryāḥ ǀ sapta ǀ hotāraḥ ǀ ṛtvijaḥ ǀ
devāḥ ǀ ādityāḥ ǀ ye ǀ sapta ǀ tebhiḥ ǀ soma ǀ abhi ǀ rakṣa ǀ naḥ ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ9.114.3 Aṣṭaka 7.5.28.3Anuvāka 9.7.123
-
Ṛk 4
यत्ते॑ राजंछृ॒तं ह॒विस्तेन॑ सोमा॒भि र॑क्ष नः ।
अ॒रा॒ती॒वा मा न॑स्तारी॒न्मो च॑ नः॒ किं च॒नाम॑म॒दिंद्रा॑येंदो॒ परि॑ स्रव ॥यत् ते राजञ् छृतं हविस् तेन सोमाभि रक्ष नः |
अरातीवा मा नस् तारीन् मो च नः किं चनाममद् इन्द्रायेन्दो परि स्रव ||yátte rājañchṛtám havísténa somābhí rakṣa naḥ ǀ
arātīvā́ mā́ nastārīnmó ca naḥ kím canā́mamadíndrāyendo pári srava ǁyat te rājañ chṛtaṃ havis tena somābhi rakṣa naḥ |
arātīvā mā nas tārīn mo ca naḥ kiṃ canāmamad indrāyendo pari srava ||यत् । ते॒ । रा॒ज॒न् । शृ॒तम् । ह॒विः । तेन॑ । सो॒म॒ । अ॒भि । र॒क्ष॒ । नः॒ ।
अ॒रा॒ति॒ऽवा । मा । नः॒ । ता॒री॒त् । मो इति॑ । च॒ । नः॒ । किम् । च॒न । आ॒म॒म॒त् । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥यत् । ते । राजन् । शृतम् । हविः । तेन । सोम । अभि । रक्ष । नः ।
अरातिऽवा । मा । नः । तारीत् । मो इति । च । नः । किम् । चन । आममत् । इन्द्राय । इन्दो इति । परि । स्रव ॥yát ǀ te ǀ rājan ǀ śṛtám ǀ havíḥ ǀ téna ǀ soma ǀ abhí ǀ rakṣa ǀ naḥ ǀ
arāti-vā́ ǀ mā́ ǀ naḥ ǀ tārīt ǀ mó íti ǀ ca ǀ naḥ ǀ kím ǀ caná ǀ āmamat ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁyat ǀ te ǀ rājan ǀ śṛtam ǀ haviḥ ǀ tena ǀ soma ǀ abhi ǀ rakṣa ǀ naḥ ǀ
arāti-vā ǀ mā ǀ naḥ ǀ tārīt ǀ mo iti ǀ ca ǀ naḥ ǀ kim ǀ cana ǀ āmamat ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ9.114.4 Aṣṭaka 7.5.28.4Anuvāka 9.7.124
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.