Ṛgveda · Maṇḍala 9 · Sūkta 114
Ṛk 9.114.4
Saṃhitā
यत्ते॑ राजंछृ॒तं ह॒विस्तेन॑ सोमा॒भि र॑क्ष नः ।
अ॒रा॒ती॒वा मा न॑स्तारी॒न्मो च॑ नः॒ किं च॒नाम॑म॒दिंद्रा॑येंदो॒ परि॑ स्रव ॥
यत् ते राजञ् छृतं हविस् तेन सोमाभि रक्ष नः |
अरातीवा मा नस् तारीन् मो च नः किं चनाममद् इन्द्रायेन्दो परि स्रव ||
yátte rājañchṛtám havísténa somābhí rakṣa naḥ ǀ
arātīvā́ mā́ nastārīnmó ca naḥ kím canā́mamadíndrāyendo pári srava ǁ
yat te rājañ chṛtaṃ havis tena somābhi rakṣa naḥ |
arātīvā mā nas tārīn mo ca naḥ kiṃ canāmamad indrāyendo pari srava ||
Padapāṭha
यत् । ते॒ । रा॒ज॒न् । शृ॒तम् । ह॒विः । तेन॑ । सो॒म॒ । अ॒भि । र॒क्ष॒ । नः॒ ।
अ॒रा॒ति॒ऽवा । मा । नः॒ । ता॒री॒त् । मो इति॑ । च॒ । नः॒ । किम् । च॒न । आ॒म॒म॒त् । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥
यत् । ते । राजन् । शृतम् । हविः । तेन । सोम । अभि । रक्ष । नः ।
अरातिऽवा । मा । नः । तारीत् । मो इति । च । नः । किम् । चन । आममत् । इन्द्राय । इन्दो इति । परि । स्रव ॥
yát ǀ te ǀ rājan ǀ śṛtám ǀ havíḥ ǀ téna ǀ soma ǀ abhí ǀ rakṣa ǀ naḥ ǀ
arāti-vā́ ǀ mā́ ǀ naḥ ǀ tārīt ǀ mó íti ǀ ca ǀ naḥ ǀ kím ǀ caná ǀ āmamat ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁ
yat ǀ te ǀ rājan ǀ śṛtam ǀ haviḥ ǀ tena ǀ soma ǀ abhi ǀ rakṣa ǀ naḥ ǀ
arāti-vā ǀ mā ǀ naḥ ǀ tārīt ǀ mo iti ǀ ca ǀ naḥ ǀ kim ǀ cana ǀ āmamat ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.114.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.5.28.04
- Maṇḍala · Anuvāka · Ṛk
- 09.07.124
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Kaśyapa Mārīca
- Chandas छन्दस्
- Paṅkti
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.