Sūkta 87
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Uśanas Kāvya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (5-7, 9); nicṛttriṣṭup (1, 2); virāṭtrisṭup (4, 8); pādanicṛttriṣṭup (3)
2nd set of styles triṣṭubh
-
Ṛk 1
प्र तु द्र॑व॒ परि॒ कोशं॒ नि षी॑द॒ नृभिः॑ पुना॒नो अ॒भि वाज॑मर्ष ।
अश्वं॒ न त्वा॑ वा॒जिनं॑ म॒र्जयं॒तोऽच्छा॑ ब॒र्ही र॑श॒नाभि॑र्नयंति ॥प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजम् अर्ष |
अश्वं न त्वा वाजिनम् मर्जयन्तो ऽच्छा बर्ही रशनाभिर् नयन्ति ||prá tú drava pári kóśam ní ṣīda nṛ́bhiḥ punānó abhí vā́jamarṣa ǀ
áśvam ná tvā vājínam marjáyantó’cchā barhī́ raśanā́bhirnayanti ǁpra tu drava pari kośaṃ ni ṣīda nṛbhiḥ punāno abhi vājam arṣa |
aśvaṃ na tvā vājinam marjayanto 'cchā barhī raśanābhir nayanti ||प्र । तु । द्र॒व॒ । परि॑ । कोश॑म् । नि । सी॒द॒ । नृऽभिः॑ । पु॒ना॒नः । अ॒भि । वाज॑म् । अ॒र्ष॒ ।
अश्व॑म् । न । त्वा॒ । वा॒जिन॑म् । म॒र्जय॑न्तः । अच्छ॑ । ब॒र्हिः । र॒श॒नाभिः॑ । न॒य॒न्ति॒ ॥प्र । तु । द्रव । परि । कोशम् । नि । सीद । नृऽभिः । पुनानः । अभि । वाजम् । अर्ष ।
अश्वम् । न । त्वा । वाजिनम् । मर्जयन्तः । अच्छ । बर्हिः । रशनाभिः । नयन्ति ॥prá ǀ tú ǀ drava ǀ pári ǀ kóśam ǀ ní ǀ sīda ǀ nṛ́-bhiḥ ǀ punānáḥ ǀ abhí ǀ vā́jam ǀ arṣa ǀ
áśvam ǀ ná ǀ tvā ǀ vājínam ǀ marjáyantaḥ ǀ áccha ǀ barhíḥ ǀ raśanā́bhiḥ ǀ nayanti ǁpra ǀ tu ǀ drava ǀ pari ǀ kośam ǀ ni ǀ sīda ǀ nṛ-bhiḥ ǀ punānaḥ ǀ abhi ǀ vājam ǀ arṣa ǀ
aśvam ǀ na ǀ tvā ǀ vājinam ǀ marjayantaḥ ǀ accha ǀ barhiḥ ǀ raśanābhiḥ ǀ nayanti ǁ9.87.1 Aṣṭaka 7.3.22.1Anuvāka 9.5.49
-
Ṛk 2
स्वा॒यु॒धः प॑वते दे॒व इंदु॑रशस्ति॒हा वृ॒जनं॒ रक्ष॑माणः ।
पि॒ता दे॒वानां॑ जनि॒ता सु॒दक्षो॑ विष्टं॒भो दि॒वो ध॒रुणः॑ पृथि॒व्याः ॥स्वायुधः पवते देव इन्दुर् अशस्तिहा वृजनं रक्षमाणः |
पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः ||svāyudháḥ pavate devá índuraśastihā́ vṛjánam rákṣamāṇaḥ ǀ
pitā́ devā́nām janitā́ sudákṣo viṣṭambhó divó dharúṇaḥ pṛthivyā́ḥ ǁsvāyudhaḥ pavate deva indur aśastihā vṛjanaṃ rakṣamāṇaḥ |
pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyāḥ ||सु॒ऽआ॒यु॒धः । प॒व॒ते॒ । दे॒वः । इन्दुः॑ । अ॒श॒स्ति॒ऽहा । वृ॒जन॑म् । रक्ष॑माणः ।
पि॒ता । दे॒वाना॑म् । ज॒नि॒ता । सु॒ऽदक्षः॑ । वि॒ष्ट॒म्भः । दि॒वः । ध॒रुणः॑ । पृ॒थि॒व्याः ॥सुऽआयुधः । पवते । देवः । इन्दुः । अशस्तिऽहा । वृजनम् । रक्षमाणः ।
पिता । देवानाम् । जनिता । सुऽदक्षः । विष्टम्भः । दिवः । धरुणः । पृथिव्याः ॥su-āyudháḥ ǀ pavate ǀ deváḥ ǀ índuḥ ǀ aśasti-hā́ ǀ vṛjánam ǀ rákṣamāṇaḥ ǀ
pitā́ ǀ devā́nām ǀ janitā́ ǀ su-dákṣaḥ ǀ viṣṭambháḥ ǀ diváḥ ǀ dharúṇaḥ ǀ pṛthivyā́ḥ ǁsu-āyudhaḥ ǀ pavate ǀ devaḥ ǀ induḥ ǀ aśasti-hā ǀ vṛjanam ǀ rakṣamāṇaḥ ǀ
pitā ǀ devānām ǀ janitā ǀ su-dakṣaḥ ǀ viṣṭambhaḥ ǀ divaḥ ǀ dharuṇaḥ ǀ pṛthivyāḥ ǁ9.87.2 Aṣṭaka 7.3.22.2Anuvāka 9.5.50
-
Ṛk 3
ऋषि॒र्विप्रः॑ पुरए॒ता जना॑नामृ॒भुर्धीर॑ उ॒शना॒ काव्ये॑न ।
स चि॑द्विवेद॒ निहि॑तं॒ यदा॑सामपी॒च्यं१॒॑ गुह्यं॒ नाम॒ गोनां॑ ॥ऋषिर् विप्रः पुरएता जनानाम् ऋभुर् धीर उशना काव्येन |
स चिद् विवेद निहितं यद् आसाम् अपीच्यं गुह्यं नाम गोनाम् ||ṛ́ṣirvípraḥ puraetā́ jánānāmṛbhúrdhī́ra uśánā kā́vyena ǀ
sá cidviveda níhitam yádāsāmapīcyám gúhyam nā́ma gónām ǁṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena |
sa cid viveda nihitaṃ yad āsām apīcyaṃ guhyaṃ nāma gonām ||ऋषिः॑ । विप्रः॑ । पु॒रः॒ऽए॒ता । जना॑नाम् । ऋ॒भुः । धीरः॑ । उ॒शना॑ । काव्ये॑न ।
सः । चि॒त् । वि॒वे॒द॒ । निऽहि॑तम् । यत् । आ॒सा॒म् । अ॒पी॒च्य॑म् । गुह्य॑म् । नाम॑ । गोना॑म् ॥ऋषिः । विप्रः । पुरःऽएता । जनानाम् । ऋभुः । धीरः । उशना । काव्येन ।
सः । चित् । विवेद । निऽहितम् । यत् । आसाम् । अपीच्यम् । गुह्यम् । नाम । गोनाम् ॥ṛ́ṣiḥ ǀ vípraḥ ǀ puraḥ-etā́ ǀ jánānām ǀ ṛbhúḥ ǀ dhī́raḥ ǀ uśánā ǀ kā́vyena ǀ
sáḥ ǀ cit ǀ viveda ǀ ní-hitam ǀ yát ǀ āsām ǀ apīcyám ǀ gúhyam ǀ nā́ma ǀ gónām ǁṛṣiḥ ǀ vipraḥ ǀ puraḥ-etā ǀ janānām ǀ ṛbhuḥ ǀ dhīraḥ ǀ uśanā ǀ kāvyena ǀ
saḥ ǀ cit ǀ viveda ǀ ni-hitam ǀ yat ǀ āsām ǀ apīcyam ǀ guhyam ǀ nāma ǀ gonām ǁ9.87.3 Aṣṭaka 7.3.22.3Anuvāka 9.5.51
-
Ṛk 4
ए॒ष स्य ते॒ मधु॑माँ इंद्र॒ सोमो॒ वृषा॒ वृष्णे॒ परि॑ प॒वित्रे॑ अक्षाः ।
स॒ह॒स्र॒साः श॑त॒सा भू॑रि॒दावा॑ शश्वत्त॒मं ब॒र्हिरा वा॒ज्य॑स्थात् ॥एष स्य ते मधुमां इन्द्र सोमो वृषा वृष्णे परि पवित्रे अक्षाः |
सहस्रसाः शतसा भूरिदावा शश्वत्तमम् बर्हिर् आ वाज्य् अस्थात् ||eṣá syá te mádhumām̐ indra sómo vṛ́ṣā vṛ́ṣṇe pári pavítre akṣāḥ ǀ
sahasrasā́ḥ śatasā́ bhūridā́vā śaśvattamám barhírā́ vājyásthāt ǁeṣa sya te madhumāṃ indra somo vṛṣā vṛṣṇe pari pavitre akṣāḥ |
sahasrasāḥ śatasā bhūridāvā śaśvattamam barhir ā vājy asthāt ||ए॒षः । स्यः । ते॒ । मधु॑ऽमान् । इ॒न्द्र॒ । सोमः॑ । वृषा॑ । वृष्णे॑ । परि॑ । प॒वित्रे॑ । अ॒क्षा॒रिति॑ ।
स॒ह॒स्र॒ऽसाः । श॒त॒ऽसाः । भू॒रि॒ऽदावा॑ । श॒श्व॒त्ऽत॒मम् । ब॒र्हिः । आ । वा॒जी । अ॒स्था॒त् ॥एषः । स्यः । ते । मधुऽमान् । इन्द्र । सोमः । वृषा । वृष्णे । परि । पवित्रे । अक्षारिति ।
सहस्रऽसाः । शतऽसाः । भूरिऽदावा । शश्वत्ऽतमम् । बर्हिः । आ । वाजी । अस्थात् ॥eṣáḥ ǀ syáḥ ǀ te ǀ mádhu-mān ǀ indra ǀ sómaḥ ǀ vṛ́ṣā ǀ vṛ́ṣṇe ǀ pári ǀ pavítre ǀ akṣāríti ǀ
sahasra-sā́ḥ ǀ śata-sā́ḥ ǀ bhūri-dā́vā ǀ śaśvat-tamám ǀ barhíḥ ǀ ā́ ǀ vājī́ ǀ asthāt ǁeṣaḥ ǀ syaḥ ǀ te ǀ madhu-mān ǀ indra ǀ somaḥ ǀ vṛṣā ǀ vṛṣṇe ǀ pari ǀ pavitre ǀ akṣāriti ǀ
sahasra-sāḥ ǀ śata-sāḥ ǀ bhūri-dāvā ǀ śaśvat-tamam ǀ barhiḥ ǀ ā ǀ vājī ǀ asthāt ǁ9.87.4 Aṣṭaka 7.3.22.4Anuvāka 9.5.52
-
Ṛk 5
ए॒ते सोमा॑ अ॒भि ग॒व्या स॒हस्रा॑ म॒हे वाजा॑या॒मृता॑य॒ श्रवां॑सि ।
प॒वित्रे॑भिः॒ पव॑माना असृग्रंछ्रव॒स्यवो॒ न पृ॑त॒नाजो॒ अत्याः॑ ॥एते सोमा अभि गव्या सहस्रा महे वाजायामृताय श्रवांसि |
पवित्रेभिः पवमाना असृग्रञ् छ्रवस्यवो न पृतनाजो अत्याः ||eté sómā abhí gavyā́ sahásrā mahé vā́jāyāmṛ́tāya śrávāṃsi ǀ
pavítrebhiḥ pávamānā asṛgrañchravasyávo ná pṛtanā́jo átyāḥ ǁete somā abhi gavyā sahasrā mahe vājāyāmṛtāya śravāṃsi |
pavitrebhiḥ pavamānā asṛgrañ chravasyavo na pṛtanājo atyāḥ ||ए॒ते । सोमाः॑ । अ॒भि । ग॒व्या । स॒हस्रा॑ । म॒हे । वाजा॑य । अ॒मृता॑य । श्रवां॑सि ।
प॒वित्रे॑भिः । पव॑मानाः । अ॒सृ॒ग्र॒न् । श्र॒व॒स्यवः॑ । न । पृ॒त॒नाजः॑ । अत्याः॑ ॥एते । सोमाः । अभि । गव्या । सहस्रा । महे । वाजाय । अमृताय । श्रवांसि ।
पवित्रेभिः । पवमानाः । असृग्रन् । श्रवस्यवः । न । पृतनाजः । अत्याः ॥eté ǀ sómāḥ ǀ abhí ǀ gavyā́ ǀ sahásrā ǀ mahé ǀ vā́jāya ǀ amṛ́tāya ǀ śrávāṃsi ǀ
pavítrebhiḥ ǀ pávamānāḥ ǀ asṛgran ǀ śravasyávaḥ ǀ ná ǀ pṛtanā́jaḥ ǀ átyāḥ ǁete ǀ somāḥ ǀ abhi ǀ gavyā ǀ sahasrā ǀ mahe ǀ vājāya ǀ amṛtāya ǀ śravāṃsi ǀ
pavitrebhiḥ ǀ pavamānāḥ ǀ asṛgran ǀ śravasyavaḥ ǀ na ǀ pṛtanājaḥ ǀ atyāḥ ǁ9.87.5 Aṣṭaka 7.3.22.5Anuvāka 9.5.53
-
Ṛk 6
परि॒ हि ष्मा॑ पुरुहू॒तो जना॑नां॒ विश्वास॑र॒द्भोज॑ना पू॒यमा॑नः ।
अथा भ॑र श्येनभृत॒ प्रयां॑सि र॒यिं तुंजा॑नो अ॒भि वाज॑मर्ष ॥परि हि ष्मा पुरुहूतो जनानां विश्वासरद् भोजना पूयमानः |
अथा भर श्येनभृत प्रयांसि रयिं तुञ्जानो अभि वाजम् अर्ष ||pári hí ṣmā puruhūtó jánānām víśvā́saradbhójanā pūyámānaḥ ǀ
áthā́ bhara śyenabhṛta práyāṃsi rayím túñjāno abhí vā́jamarṣa ǁpari hi ṣmā puruhūto janānāṃ viśvāsarad bhojanā pūyamānaḥ |
athā bhara śyenabhṛta prayāṃsi rayiṃ tuñjāno abhi vājam arṣa ||परि॑ । हि । स्म॒ । पु॒रु॒ऽहू॒तः । जना॑नाम् । विश्वा॑ । अस॑रत् । भोज॑ना । पू॒यमा॑नः ।
अथ॑ । आ । भ॒र॒ । श्ये॒न॒ऽभृ॒त॒ । प्रयां॑सि । र॒यिम् । तुञ्जा॑नः । अ॒भि । वाज॑म् । अ॒र्ष॒ ॥परि । हि । स्म । पुरुऽहूतः । जनानाम् । विश्वा । असरत् । भोजना । पूयमानः ।
अथ । आ । भर । श्येनऽभृत । प्रयांसि । रयिम् । तुञ्जानः । अभि । वाजम् । अर्ष ॥pári ǀ hí ǀ sma ǀ puru-hūtáḥ ǀ jánānām ǀ víśvā ǀ ásarat ǀ bhójanā ǀ pūyámānaḥ ǀ
átha ǀ ā́ ǀ bhara ǀ śyena-bhṛta ǀ práyāṃsi ǀ rayím ǀ túñjānaḥ ǀ abhí ǀ vā́jam ǀ arṣa ǁpari ǀ hi ǀ sma ǀ puru-hūtaḥ ǀ janānām ǀ viśvā ǀ asarat ǀ bhojanā ǀ pūyamānaḥ ǀ
atha ǀ ā ǀ bhara ǀ śyena-bhṛta ǀ prayāṃsi ǀ rayim ǀ tuñjānaḥ ǀ abhi ǀ vājam ǀ arṣa ǁ9.87.6 Aṣṭaka 7.3.23.1Anuvāka 9.5.54
-
Ṛk 7
ए॒ष सु॑वा॒नः परि॒ सोमः॑ प॒वित्रे॒ सर्गो॒ न सृ॒ष्टो अ॑दधाव॒दर्वा॑ ।
ति॒ग्मे शिशा॑नो महि॒षो न शृंगे॒ गा ग॒व्यन्न॒भि शूरो॒ न सत्वा॑ ॥एष सुवानः परि सोमः पवित्रे सर्गो न सृष्टो अदधावद् अर्वा |
तिग्मे शिशानो महिषो न शृङ्गे गा गव्यन्न् अभि शूरो न सत्वा ||eṣá suvānáḥ pári sómaḥ pavítre sárgo ná sṛṣṭó adadhāvadárvā ǀ
tigmé śíśāno mahiṣó ná śṛ́ṅge gā́ gavyánnabhí śū́ro ná sátvā ǁeṣa suvānaḥ pari somaḥ pavitre sargo na sṛṣṭo adadhāvad arvā |
tigme śiśāno mahiṣo na śṛṅge gā gavyann abhi śūro na satvā ||ए॒षः । सु॒वा॒नः । परि॑ । सोमः॑ । प॒वित्रे॑ । सर्गः॑ । न । सृ॒ष्टः । अ॒द॒धा॒व॒त् । अर्वा॑ ।
ति॒ग्मे इति॑ । शिशा॑नः । म॒हि॒षः । न । शृङ्गे॒ इति॑ । गाः । ग॒व्यन् । अ॒भि । शूरः॑ । न । सत्वा॑ ॥एषः । सुवानः । परि । सोमः । पवित्रे । सर्गः । न । सृष्टः । अदधावत् । अर्वा ।
तिग्मे इति । शिशानः । महिषः । न । शृङ्गे इति । गाः । गव्यन् । अभि । शूरः । न । सत्वा ॥eṣáḥ ǀ suvānáḥ ǀ pári ǀ sómaḥ ǀ pavítre ǀ sárgaḥ ǀ ná ǀ sṛṣṭáḥ ǀ adadhāvat ǀ árvā ǀ
tigmé íti ǀ śíśānaḥ ǀ mahiṣáḥ ǀ ná ǀ śṛ́ṅge íti ǀ gā́ḥ ǀ gavyán ǀ abhí ǀ śū́raḥ ǀ ná ǀ sátvā ǁeṣaḥ ǀ suvānaḥ ǀ pari ǀ somaḥ ǀ pavitre ǀ sargaḥ ǀ na ǀ sṛṣṭaḥ ǀ adadhāvat ǀ arvā ǀ
tigme iti ǀ śiśānaḥ ǀ mahiṣaḥ ǀ na ǀ śṛṅge iti ǀ gāḥ ǀ gavyan ǀ abhi ǀ śūraḥ ǀ na ǀ satvā ǁ9.87.7 Aṣṭaka 7.3.23.2Anuvāka 9.5.55
-
Ṛk 8
ए॒षा य॑यौ पर॒मादं॒तरद्रेः॒ कूचि॑त्स॒तीरू॒र्वे गा वि॑वेद ।
दि॒वो न वि॒द्युत्स्त॒नयं॑त्य॒भ्रैः सोम॑स्य ते पवत इंद्र॒ धारा॑ ॥एषा ययौ परमाद् अन्तर् अद्रेः कूचित् सतीर् ऊर्वे गा विवेद |
दिवो न विद्युत् स्तनयन्त्य् अभ्रैः सोमस्य ते पवत इन्द्र धारा ||eṣā́ yayau paramā́dantárádreḥ kū́citsatī́rūrvé gā́ viveda ǀ
divó ná vidyútstanáyantyabhráiḥ sómasya te pavata indra dhā́rā ǁeṣā yayau paramād antar adreḥ kūcit satīr ūrve gā viveda |
divo na vidyut stanayanty abhraiḥ somasya te pavata indra dhārā ||ए॒षा । आ । य॒यौ॒ । प॒र॒मात् । अ॒न्तः । अद्रेः॑ । कूऽचि॑त् । स॒तीः । ऊ॒र्वे । गाः । वि॒वे॒द॒ ।
दि॒वः । न । वि॒ऽद्युत् । स्त॒नय॑न्ती । अ॒भ्रैः । सोम॑स्य । ते॒ । प॒व॒ते॒ । इ॒न्द्र॒ । धारा॑ ॥एषा । आ । ययौ । परमात् । अन्तः । अद्रेः । कूऽचित् । सतीः । ऊर्वे । गाः । विवेद ।
दिवः । न । विऽद्युत् । स्तनयन्ती । अभ्रैः । सोमस्य । ते । पवते । इन्द्र । धारा ॥eṣā́ ǀ ā́ ǀ yayau ǀ paramā́t ǀ antáḥ ǀ ádreḥ ǀ kū́-cit ǀ satī́ḥ ǀ ūrvé ǀ gā́ḥ ǀ viveda ǀ
diváḥ ǀ ná ǀ vi-dyút ǀ stanáyantī ǀ abhráiḥ ǀ sómasya ǀ te ǀ pavate ǀ indra ǀ dhā́rā ǁeṣā ǀ ā ǀ yayau ǀ paramāt ǀ antaḥ ǀ adreḥ ǀ kū-cit ǀ satīḥ ǀ ūrve ǀ gāḥ ǀ viveda ǀ
divaḥ ǀ na ǀ vi-dyut ǀ stanayantī ǀ abhraiḥ ǀ somasya ǀ te ǀ pavate ǀ indra ǀ dhārā ǁ9.87.8 Aṣṭaka 7.3.23.3Anuvāka 9.5.56
-
Ṛk 9
उ॒त स्म॑ रा॒शिं परि॑ यासि॒ गोना॒मिंद्रे॑ण सोम स॒रथं॑ पुना॒नः ।
पू॒र्वीरिषो॑ बृह॒तीर्जी॑रदानो॒ शिक्षा॑ शचीव॒स्तव॒ ता उ॑प॒ष्टुत् ॥उत स्म राशिम् परि यासि गोनाम् इन्द्रेण सोम सरथम् पुनानः |
पूर्वीर् इषो बृहतीर् जीरदानो शिक्षा शचीवस् तव ता उपष्टुत् ||utá sma rāśím pári yāsi gónāmíndreṇa soma sarátham punānáḥ ǀ
pūrvī́ríṣo bṛhatī́rjīradāno śíkṣā śacīvastáva tā́ upaṣṭút ǁuta sma rāśim pari yāsi gonām indreṇa soma saratham punānaḥ |
pūrvīr iṣo bṛhatīr jīradāno śikṣā śacīvas tava tā upaṣṭut ||उ॒त । स्म॒ । रा॒शिम् । परि॑ । या॒सि॒ । गोना॑म् । इन्द्रे॑ण । सो॒म॒ । स॒ऽरथ॑म् । पु॒ना॒नः ।
पू॒र्वीः । इषः॑ । बृ॒ह॒तीः । जी॒र॒दा॒नो॒ इति॑ जीरऽदानो । शिक्ष॑ । श॒ची॒ऽवः॒ । तव॑ । ताः । उ॒प॒ऽस्तुत् ॥उत । स्म । राशिम् । परि । यासि । गोनाम् । इन्द्रेण । सोम । सऽरथम् । पुनानः ।
पूर्वीः । इषः । बृहतीः । जीरदानो इति जीरऽदानो । शिक्ष । शचीऽवः । तव । ताः । उपऽस्तुत् ॥utá ǀ sma ǀ rāśím ǀ pári ǀ yāsi ǀ gónām ǀ índreṇa ǀ soma ǀ sa-rátham ǀ punānáḥ ǀ
pūrvī́ḥ ǀ íṣaḥ ǀ bṛhatī́ḥ ǀ jīradāno íti jīra-dāno ǀ śíkṣa ǀ śacī-vaḥ ǀ táva ǀ tā́ḥ ǀ upa-stút ǁuta ǀ sma ǀ rāśim ǀ pari ǀ yāsi ǀ gonām ǀ indreṇa ǀ soma ǀ sa-ratham ǀ punānaḥ ǀ
pūrvīḥ ǀ iṣaḥ ǀ bṛhatīḥ ǀ jīradāno iti jīra-dāno ǀ śikṣa ǀ śacī-vaḥ ǀ tava ǀ tāḥ ǀ upa-stut ǁ9.87.9 Aṣṭaka 7.3.23.4Anuvāka 9.5.57
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.