Ṛk 9.87.4
Saṃhitā
ए॒ष स्य ते॒ मधु॑माँ इंद्र॒ सोमो॒ वृषा॒ वृष्णे॒ परि॑ प॒वित्रे॑ अक्षाः ।
स॒ह॒स्र॒साः श॑त॒सा भू॑रि॒दावा॑ शश्वत्त॒मं ब॒र्हिरा वा॒ज्य॑स्थात् ॥
एष स्य ते मधुमां इन्द्र सोमो वृषा वृष्णे परि पवित्रे अक्षाः |
सहस्रसाः शतसा भूरिदावा शश्वत्तमम् बर्हिर् आ वाज्य् अस्थात् ||
eṣá syá te mádhumām̐ indra sómo vṛ́ṣā vṛ́ṣṇe pári pavítre akṣāḥ ǀ
sahasrasā́ḥ śatasā́ bhūridā́vā śaśvattamám barhírā́ vājyásthāt ǁ
eṣa sya te madhumāṃ indra somo vṛṣā vṛṣṇe pari pavitre akṣāḥ |
sahasrasāḥ śatasā bhūridāvā śaśvattamam barhir ā vājy asthāt ||
Padapāṭha
ए॒षः । स्यः । ते॒ । मधु॑ऽमान् । इ॒न्द्र॒ । सोमः॑ । वृषा॑ । वृष्णे॑ । परि॑ । प॒वित्रे॑ । अ॒क्षा॒रिति॑ ।
स॒ह॒स्र॒ऽसाः । श॒त॒ऽसाः । भू॒रि॒ऽदावा॑ । श॒श्व॒त्ऽत॒मम् । ब॒र्हिः । आ । वा॒जी । अ॒स्था॒त् ॥
एषः । स्यः । ते । मधुऽमान् । इन्द्र । सोमः । वृषा । वृष्णे । परि । पवित्रे । अक्षारिति ।
सहस्रऽसाः । शतऽसाः । भूरिऽदावा । शश्वत्ऽतमम् । बर्हिः । आ । वाजी । अस्थात् ॥
eṣáḥ ǀ syáḥ ǀ te ǀ mádhu-mān ǀ indra ǀ sómaḥ ǀ vṛ́ṣā ǀ vṛ́ṣṇe ǀ pári ǀ pavítre ǀ akṣāríti ǀ
sahasra-sā́ḥ ǀ śata-sā́ḥ ǀ bhūri-dā́vā ǀ śaśvat-tamám ǀ barhíḥ ǀ ā́ ǀ vājī́ ǀ asthāt ǁ
eṣaḥ ǀ syaḥ ǀ te ǀ madhu-mān ǀ indra ǀ somaḥ ǀ vṛṣā ǀ vṛṣṇe ǀ pari ǀ pavitre ǀ akṣāriti ǀ
sahasra-sāḥ ǀ śata-sāḥ ǀ bhūri-dāvā ǀ śaśvat-tamam ǀ barhiḥ ǀ ā ǀ vājī ǀ asthāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.087.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.3.22.04
- Maṇḍala · Anuvāka · Ṛk
- 09.05.052
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Uśanas Kāvya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.