Ṛk 9.87.7
Saṃhitā
ए॒ष सु॑वा॒नः परि॒ सोमः॑ प॒वित्रे॒ सर्गो॒ न सृ॒ष्टो अ॑दधाव॒दर्वा॑ ।
ति॒ग्मे शिशा॑नो महि॒षो न शृंगे॒ गा ग॒व्यन्न॒भि शूरो॒ न सत्वा॑ ॥
एष सुवानः परि सोमः पवित्रे सर्गो न सृष्टो अदधावद् अर्वा |
तिग्मे शिशानो महिषो न शृङ्गे गा गव्यन्न् अभि शूरो न सत्वा ||
eṣá suvānáḥ pári sómaḥ pavítre sárgo ná sṛṣṭó adadhāvadárvā ǀ
tigmé śíśāno mahiṣó ná śṛ́ṅge gā́ gavyánnabhí śū́ro ná sátvā ǁ
eṣa suvānaḥ pari somaḥ pavitre sargo na sṛṣṭo adadhāvad arvā |
tigme śiśāno mahiṣo na śṛṅge gā gavyann abhi śūro na satvā ||
Padapāṭha
ए॒षः । सु॒वा॒नः । परि॑ । सोमः॑ । प॒वित्रे॑ । सर्गः॑ । न । सृ॒ष्टः । अ॒द॒धा॒व॒त् । अर्वा॑ ।
ति॒ग्मे इति॑ । शिशा॑नः । म॒हि॒षः । न । शृङ्गे॒ इति॑ । गाः । ग॒व्यन् । अ॒भि । शूरः॑ । न । सत्वा॑ ॥
एषः । सुवानः । परि । सोमः । पवित्रे । सर्गः । न । सृष्टः । अदधावत् । अर्वा ।
तिग्मे इति । शिशानः । महिषः । न । शृङ्गे इति । गाः । गव्यन् । अभि । शूरः । न । सत्वा ॥
eṣáḥ ǀ suvānáḥ ǀ pári ǀ sómaḥ ǀ pavítre ǀ sárgaḥ ǀ ná ǀ sṛṣṭáḥ ǀ adadhāvat ǀ árvā ǀ
tigmé íti ǀ śíśānaḥ ǀ mahiṣáḥ ǀ ná ǀ śṛ́ṅge íti ǀ gā́ḥ ǀ gavyán ǀ abhí ǀ śū́raḥ ǀ ná ǀ sátvā ǁ
eṣaḥ ǀ suvānaḥ ǀ pari ǀ somaḥ ǀ pavitre ǀ sargaḥ ǀ na ǀ sṛṣṭaḥ ǀ adadhāvat ǀ arvā ǀ
tigme iti ǀ śiśānaḥ ǀ mahiṣaḥ ǀ na ǀ śṛṅge iti ǀ gāḥ ǀ gavyan ǀ abhi ǀ śūraḥ ǀ na ǀ satvā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.087.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.3.23.02
- Maṇḍala · Anuvāka · Ṛk
- 09.05.055
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Uśanas Kāvya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.