Ṛgveda · Maṇḍala 9 · Sūkta 87

Ṛk 9.87.8

Soma Pavamāna · Uśanas Kāvya

The whole sūkta Link

Saṃhitā

ए॒षा य॑यौ पर॒मादं॒तरद्रेः॒ कूचि॑त्स॒तीरू॒र्वे गा वि॑वेद ।
दि॒वो न वि॒द्युत्स्त॒नयं॑त्य॒भ्रैः सोम॑स्य ते पवत इंद्र॒ धारा॑ ॥

एषा ययौ परमाद् अन्तर् अद्रेः कूचित् सतीर् ऊर्वे गा विवेद |
दिवो न विद्युत् स्तनयन्त्य् अभ्रैः सोमस्य ते पवत इन्द्र धारा ||

eṣā́ yayau paramā́dantárádreḥ kū́citsatī́rūrvé gā́ viveda ǀ
divó ná vidyútstanáyantyabhráiḥ sómasya te pavata indra dhā́rā ǁ

eṣā yayau paramād antar adreḥ kūcit satīr ūrve gā viveda |
divo na vidyut stanayanty abhraiḥ somasya te pavata indra dhārā ||

Padapāṭha

ए॒षा । आ । य॒यौ॒ । प॒र॒मात् । अ॒न्तः । अद्रेः॑ । कूऽचि॑त् । स॒तीः । ऊ॒र्वे । गाः । वि॒वे॒द॒ ।
दि॒वः । न । वि॒ऽद्युत् । स्त॒नय॑न्ती । अ॒भ्रैः । सोम॑स्य । ते॒ । प॒व॒ते॒ । इ॒न्द्र॒ । धारा॑ ॥

एषा । आ । ययौ । परमात् । अन्तः । अद्रेः । कूऽचित् । सतीः । ऊर्वे । गाः । विवेद ।
दिवः । न । विऽद्युत् । स्तनयन्ती । अभ्रैः । सोमस्य । ते । पवते । इन्द्र । धारा ॥

eṣā́ ǀ ā́ ǀ yayau ǀ paramā́t ǀ antáḥ ǀ ádreḥ ǀ kū́-cit ǀ satī́ḥ ǀ ūrvé ǀ gā́ḥ ǀ viveda ǀ
diváḥ ǀ ná ǀ vi-dyút ǀ stanáyantī ǀ abhráiḥ ǀ sómasya ǀ te ǀ pavate ǀ indra ǀ dhā́rā ǁ

eṣā ǀ ā ǀ yayau ǀ paramāt ǀ antaḥ ǀ adreḥ ǀ kū-cit ǀ satīḥ ǀ ūrve ǀ gāḥ ǀ viveda ǀ
divaḥ ǀ na ǀ vi-dyut ǀ stanayantī ǀ abhraiḥ ǀ somasya ǀ te ǀ pavate ǀ indra ǀ dhārā ǁ

References

Maṇḍala · Sūkta · Ṛk
09.087.08
Aṣṭaka · Adhyāya · Varga · Ṛk
7.3.23.03
Maṇḍala · Anuvāka · Ṛk
09.05.056
Devatā देवता
Soma Pavamāna
Ṛṣi ऋषि
Uśanas Kāvya
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 9.87.8

Interpretations

Sāyaṇa

एषा सोमधारा परमात् अच्छ्रितात् स्थानात् ययौ जगाम पात्रं तयाप्राप्तव्यंदेशंवा । किंच अद्रेः पणीनां निवासस्थानस्य पर्वतस्यान्तः कूचित् क्वचित् कुत्रचिदूढे ऊर्वे देशे सतीः वर्तमानाः पणिभिरपहृताः गाः विवेदलब्धवती । यत्र पणयोगाअपहृत्यस्थापितवन्तः सदेशऊर्वः । ऊर्वंगव्यंमहिगृणानइति हिमंत्रान्तरं । दिवोनविद्युत् दिवःसकाशाद्विद्युदिव स्त- नयन्ती शब्दयन्ती विद्युद्विशेष्यते अभ्रैः प्रेरितेतिशेषः सायथाशब्दंकरोति तद्वच्छबं कुर्वन्ती सोमस्य संबन्धिनी सेयं धारा हे इन्द्र ते त्वदर्थं त्वत्पानाय पवते पूयते क्षरति वा ॥ ८ ॥