Sūkta 56
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Avatsāra Kāśyapa
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (1-3); yavamadhyāgāyatrī (4)
2nd set of styles gāyatrī
-
Ṛk 1
परि॒ सोम॑ ऋ॒तं बृ॒हदा॒शुः प॒वित्रे॑ अर्षति ।
वि॒घ्नन्रक्षां॑सि देव॒युः ॥परि सोम ऋतम् बृहद् आशुः पवित्रे अर्षति |
विघ्नन् रक्षांसि देवयुः ||pári sóma ṛtám bṛhádāśúḥ pavítre arṣati ǀ
vighnánrákṣāṃsi devayúḥ ǁpari soma ṛtam bṛhad āśuḥ pavitre arṣati |
vighnan rakṣāṃsi devayuḥ ||परि॑ । सोमः॑ । ऋ॒तम् । बृ॒हत् । आ॒शुः । प॒वित्रे॑ । अ॒र्ष॒ति॒ ।
वि॒ऽघ्नन् । रक्षां॑सि । दे॒व॒ऽयुः ॥परि । सोमः । ऋतम् । बृहत् । आशुः । पवित्रे । अर्षति ।
विऽघ्नन् । रक्षांसि । देवऽयुः ॥pári ǀ sómaḥ ǀ ṛtám ǀ bṛhát ǀ āśúḥ ǀ pavítre ǀ arṣati ǀ
vi-ghnán ǀ rákṣāṃsi ǀ deva-yúḥ ǁpari ǀ somaḥ ǀ ṛtam ǀ bṛhat ǀ āśuḥ ǀ pavitre ǀ arṣati ǀ
vi-ghnan ǀ rakṣāṃsi ǀ deva-yuḥ ǁ9.56.1 Aṣṭaka 7.1.13.1Anuvāka 9.2.175
-
Ṛk 2
यत्सोमो॒ वाज॒मर्ष॑ति श॒तं धारा॑ अप॒स्युवः॑ ।
इंद्र॑स्य स॒ख्यमा॑वि॒शन् ॥यत् सोमो वाजम् अर्षति शतं धारा अपस्युवः |
इन्द्रस्य सख्यम् आविशन् ||yátsómo vā́jamárṣati śatám dhā́rā apasyúvaḥ ǀ
índrasya sakhyámāviśán ǁyat somo vājam arṣati śataṃ dhārā apasyuvaḥ |
indrasya sakhyam āviśan ||यत् । सोमः॑ । वाज॑म् । अर्ष॑ति । श॒तम् । धाराः॑ । अ॒प॒स्युवः॑ ।
इन्द्र॑स्य । स॒ख्यम् । आ॒ऽवि॒शन् ॥यत् । सोमः । वाजम् । अर्षति । शतम् । धाराः । अपस्युवः ।
इन्द्रस्य । सख्यम् । आऽविशन् ॥yát ǀ sómaḥ ǀ vā́jam ǀ árṣati ǀ śatám ǀ dhā́rāḥ ǀ apasyúvaḥ ǀ
índrasya ǀ sakhyám ǀ ā-viśán ǁyat ǀ somaḥ ǀ vājam ǀ arṣati ǀ śatam ǀ dhārāḥ ǀ apasyuvaḥ ǀ
indrasya ǀ sakhyam ǀ ā-viśan ǁ9.56.2 Aṣṭaka 7.1.13.2Anuvāka 9.2.176
-
Ṛk 3
अ॒भि त्वा॒ योष॑णो॒ दश॑ जा॒रं न क॒न्या॑नूषत ।
मृ॒ज्यसे॑ सोम सा॒तये॑ ॥अभि त्वा योषणो दश जारं न कन्यानूषत |
मृज्यसे सोम सातये ||abhí tvā yóṣaṇo dáśa jārám ná kanyā́nūṣata ǀ
mṛjyáse soma sātáye ǁabhi tvā yoṣaṇo daśa jāraṃ na kanyānūṣata |
mṛjyase soma sātaye ||अ॒भि । त्वा॒ । योष॑णः । दश॑ । जा॒रम् । न । क॒न्या॑ । अ॒नू॒ष॒त॒ ।
मृ॒ज्यसे॑ । सो॒म॒ । सा॒तये॑ ॥अभि । त्वा । योषणः । दश । जारम् । न । कन्या । अनूषत ।
मृज्यसे । सोम । सातये ॥abhí ǀ tvā ǀ yóṣaṇaḥ ǀ dáśa ǀ jārám ǀ ná ǀ kanyā́ ǀ anūṣata ǀ
mṛjyáse ǀ soma ǀ sātáye ǁabhi ǀ tvā ǀ yoṣaṇaḥ ǀ daśa ǀ jāram ǀ na ǀ kanyā ǀ anūṣata ǀ
mṛjyase ǀ soma ǀ sātaye ǁ9.56.3 Aṣṭaka 7.1.13.3Anuvāka 9.2.177
-
Ṛk 4
त्वमिंद्रा॑य॒ विष्ण॑वे स्वा॒दुरिं॑दो॒ परि॑ स्रव ।
नॄन्त्स्तो॒तॄन्पा॒ह्यंह॑सः ॥त्वम् इन्द्राय विष्णवे स्वादुर् इन्दो परि स्रव |
नॄन् स्तोतॄन् पाह्य् अंहसः ||tvámíndrāya víṣṇave svādúrindo pári srava ǀ
nṝ́ntstotṝ́npāhyáṃhasaḥ ǁtvam indrāya viṣṇave svādur indo pari srava |
nṝn stotṝn pāhy aṃhasaḥ ||त्वम् । इन्द्रा॑य । विष्ण॑वे । स्वा॒दुः । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ।
नॄन् । स्तो॒तॄन् । पा॒हि॒ । अंह॑सः ॥त्वम् । इन्द्राय । विष्णवे । स्वादुः । इन्दो इति । परि । स्रव ।
नॄन् । स्तोतॄन् । पाहि । अंहसः ॥tvám ǀ índrāya ǀ víṣṇave ǀ svādúḥ ǀ indo íti ǀ pári ǀ srava ǀ
nṝ́n ǀ stotṝ́n ǀ pāhi ǀ áṃhasaḥ ǁtvam ǀ indrāya ǀ viṣṇave ǀ svāduḥ ǀ indo iti ǀ pari ǀ srava ǀ
nṝn ǀ stotṝn ǀ pāhi ǀ aṃhasaḥ ǁ9.56.4 Aṣṭaka 7.1.13.4Anuvāka 9.2.178
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.