Sūkta 68
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Vatsaprī Bhālandana
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles nicṛjjagatī (1, 3, 6, 7); jagatī (2, 4, 5, 9); virāḍjagatī (8); triṣṭup (10)
2nd set of styles jagatī (1-9); triṣṭubh (10)
-
Ṛk 1
प्र दे॒वमच्छा॒ मधु॑मंत॒ इंद॒वोऽसि॑ष्यदंत॒ गाव॒ आ न धे॒नवः॑ ।
ब॒र्हि॒षदो॑ वच॒नावं॑त॒ ऊध॑भिः परि॒स्रुत॑मु॒स्रिया॑ नि॒र्णिजं॑ धिरे ॥प्र देवम् अच्छा मधुमन्त इन्दवो ऽसिष्यदन्त गाव आ न धेनवः |
बर्हिषदो वचनावन्त ऊधभिः परिस्रुतम् उस्रिया निर्णिजं धिरे ||prá devámácchā mádhumanta índavó’siṣyadanta gā́va ā́ ná dhenávaḥ ǀ
barhiṣádo vacanā́vanta ū́dhabhiḥ parisrútamusríyā nirṇíjam dhire ǁpra devam acchā madhumanta indavo 'siṣyadanta gāva ā na dhenavaḥ |
barhiṣado vacanāvanta ūdhabhiḥ parisrutam usriyā nirṇijaṃ dhire ||प्र । दे॒वम् । अच्छ॑ । मधु॑ऽमन्तः । इन्द॑वः । असि॑स्यदन्त । गावः॑ । आ । न । धे॒नवः॑ ।
ब॒र्हि॒ऽसदः॑ । व॒च॒नाऽव॑न्तः । ऊध॑ऽभिः । प॒रि॒ऽस्रुत॑म् । उ॒स्रियाः॑ । निः॒ऽनिज॑म् । धि॒रे॒ ॥प्र । देवम् । अच्छ । मधुऽमन्तः । इन्दवः । असिस्यदन्त । गावः । आ । न । धेनवः ।
बर्हिऽसदः । वचनाऽवन्तः । ऊधऽभिः । परिऽस्रुतम् । उस्रियाः । निःऽनिजम् । धिरे ॥prá ǀ devám ǀ áccha ǀ mádhu-mantaḥ ǀ índavaḥ ǀ ásisyadanta ǀ gā́vaḥ ǀ ā́ ǀ ná ǀ dhenávaḥ ǀ
barhi-sádaḥ ǀ vacanā́-vantaḥ ǀ ū́dha-bhiḥ ǀ pari-srútam ǀ usríyāḥ ǀ niḥ-níjam ǀ dhire ǁpra ǀ devam ǀ accha ǀ madhu-mantaḥ ǀ indavaḥ ǀ asisyadanta ǀ gāvaḥ ǀ ā ǀ na ǀ dhenavaḥ ǀ
barhi-sadaḥ ǀ vacanā-vantaḥ ǀ ūdha-bhiḥ ǀ pari-srutam ǀ usriyāḥ ǀ niḥ-nijam ǀ dhire ǁ9.68.1 Aṣṭaka 7.2.19.1Anuvāka 9.4.1
-
Ṛk 2
स रोरु॑वद॒भि पूर्वा॑ अचिक्रददुपा॒रुहः॑ श्र॒थय॑न्त्स्वादते॒ हरिः॑ ।
ति॒रः प॒वित्रं॑ परि॒यन्नु॒रु ज्रयो॒ नि शर्या॑णि दधते दे॒व आ वरं॑ ॥स रोरुवद् अभि पूर्वा अचिक्रदद् उपारुहः श्रथयन् स्वादते हरिः |
तिरः पवित्रम् परियन्न् उरु ज्रयो नि शर्याणि दधते देव आ वरम् ||sá róruvadabhí pū́rvā acikradadupārúhaḥ śratháyantsvādate háriḥ ǀ
tiráḥ pavítram pariyánnurú jráyo ní śáryāṇi dadhate devá ā́ váram ǁsa roruvad abhi pūrvā acikradad upāruhaḥ śrathayan svādate hariḥ |
tiraḥ pavitram pariyann uru jrayo ni śaryāṇi dadhate deva ā varam ||सः । रोरु॑वत् । अ॒भि । पूर्वाः॑ । अ॒चि॒क्र॒द॒त् । उ॒प॒ऽआ॒रुहः॑ । श्र॒थय॑न् । स्वा॒द॒ते॒ । हरिः॑ ।
ति॒रः । प॒वित्र॑म् । प॒रि॒ऽयन् । उ॒रु । ज्रयः॑ । नि । शर्या॑णि । द॒ध॒ते॒ । दे॒वः । आ । वर॑म् ॥सः । रोरुवत् । अभि । पूर्वाः । अचिक्रदत् । उपऽआरुहः । श्रथयन् । स्वादते । हरिः ।
तिरः । पवित्रम् । परिऽयन् । उरु । ज्रयः । नि । शर्याणि । दधते । देवः । आ । वरम् ॥sáḥ ǀ róruvat ǀ abhí ǀ pū́rvāḥ ǀ acikradat ǀ upa-ārúhaḥ ǀ śratháyan ǀ svādate ǀ háriḥ ǀ
tiráḥ ǀ pavítram ǀ pari-yán ǀ urú ǀ jráyaḥ ǀ ní ǀ śáryāṇi ǀ dadhate ǀ deváḥ ǀ ā́ ǀ váram ǁsaḥ ǀ roruvat ǀ abhi ǀ pūrvāḥ ǀ acikradat ǀ upa-āruhaḥ ǀ śrathayan ǀ svādate ǀ hariḥ ǀ
tiraḥ ǀ pavitram ǀ pari-yan ǀ uru ǀ jrayaḥ ǀ ni ǀ śaryāṇi ǀ dadhate ǀ devaḥ ǀ ā ǀ varam ǁ9.68.2 Aṣṭaka 7.2.19.2Anuvāka 9.4.2
-
Ṛk 3
वि यो म॒मे य॒म्या॑ संय॒ती मदः॑ साकं॒वृधा॒ पय॑सा पिन्व॒दक्षि॑ता ।
म॒ही अ॑पा॒रे रज॑सी वि॒वेवि॑ददभि॒व्रज॒न्नक्षि॑तं॒ पाज॒ आ द॑दे ॥वि यो ममे यम्या संयती मदः साकंवृधा पयसा पिन्वद् अक्षिता |
मही अपारे रजसी विवेविदद् अभिव्रजन्न् अक्षितम् पाज आ ददे ||ví yó mamé yamyā́ saṃyatī́ mádaḥ sākaṃvṛ́dhā páyasā pinvadákṣitā ǀ
mahī́ apāré rájasī vivévidadabhivrájannákṣitam pā́ja ā́ dade ǁvi yo mame yamyā saṃyatī madaḥ sākaṃvṛdhā payasā pinvad akṣitā |
mahī apāre rajasī vivevidad abhivrajann akṣitam pāja ā dade ||वि । यः । म॒मे । य॒म्या॑ । सं॒य॒ती इति॑ स॒म्ऽय॒ती । मदः॑ । सा॒क॒म्ऽवृधा॑ । पय॑सा । पि॒न्व॒त् । अक्षि॑ता ।
म॒ही इति॑ । अ॒पा॒रे इति॑ । रज॑सी॒ इति॑ । वि॒ऽवेवि॑दत् । अ॒भि॒ऽव्रज॑न् । अक्षि॑तम् । पाजः॑ । आ । द॒दे॒ ॥वि । यः । ममे । यम्या । संयती इति सम्ऽयती । मदः । साकम्ऽवृधा । पयसा । पिन्वत् । अक्षिता ।
मही इति । अपारे इति । रजसी इति । विऽवेविदत् । अभिऽव्रजन् । अक्षितम् । पाजः । आ । ददे ॥ví ǀ yáḥ ǀ mamé ǀ yamyā́ ǀ saṃyatī́ íti sam-yatī́ ǀ mádaḥ ǀ sākam-vṛ́dhā ǀ páyasā ǀ pinvat ǀ ákṣitā ǀ
mahī́ íti ǀ apāré íti ǀ rájasī íti ǀ vi-vévidat ǀ abhi-vrájan ǀ ákṣitam ǀ pā́jaḥ ǀ ā́ ǀ dade ǁvi ǀ yaḥ ǀ mame ǀ yamyā ǀ saṃyatī iti sam-yatī ǀ madaḥ ǀ sākam-vṛdhā ǀ payasā ǀ pinvat ǀ akṣitā ǀ
mahī iti ǀ apāre iti ǀ rajasī iti ǀ vi-vevidat ǀ abhi-vrajan ǀ akṣitam ǀ pājaḥ ǀ ā ǀ dade ǁ9.68.3 Aṣṭaka 7.2.19.3Anuvāka 9.4.3
-
Ṛk 4
स मा॒तरा॑ वि॒चर॑न्वा॒जय॑न्न॒पः प्र मेधि॑रः स्व॒धया॑ पिन्वते प॒दं ।
अं॒शुर्यवे॑न पिपिशे य॒तो नृभिः॒ सं जा॒मिभि॒र्नस॑ते॒ रक्ष॑ते॒ शिरः॑ ॥स मातरा विचरन् वाजयन्न् अपः प्र मेधिरः स्वधया पिन्वते पदम् |
अंशुर् यवेन पिपिशे यतो नृभिः सं जामिभिर् नसते रक्षते शिरः ||sá mātárā vicáranvājáyannapáḥ prá médhiraḥ svadháyā pinvate padám ǀ
aṃśúryávena pipiśe yató nṛ́bhiḥ sám jāmíbhirnásate rákṣate śíraḥ ǁsa mātarā vicaran vājayann apaḥ pra medhiraḥ svadhayā pinvate padam |
aṃśur yavena pipiśe yato nṛbhiḥ saṃ jāmibhir nasate rakṣate śiraḥ ||सः । मा॒तरा॑ । वि॒ऽचर॑न् । वा॒जय॑न् । अ॒पः । प्र । मेधि॑रः । स्व॒धया॑ । पि॒न्व॒ते॒ । प॒दम् ।
अं॒शुः । यवे॑न । पि॒पि॒शे॒ । य॒तः । नृऽभिः॑ । सम् । जा॒मिऽभिः॑ । नस॑ते । रक्ष॑ते । शिरः॑ ॥सः । मातरा । विऽचरन् । वाजयन् । अपः । प्र । मेधिरः । स्वधया । पिन्वते । पदम् ।
अंशुः । यवेन । पिपिशे । यतः । नृऽभिः । सम् । जामिऽभिः । नसते । रक्षते । शिरः ॥sáḥ ǀ mātárā ǀ vi-cáran ǀ vājáyan ǀ apáḥ ǀ prá ǀ médhiraḥ ǀ svadháyā ǀ pinvate ǀ padám ǀ
aṃśúḥ ǀ yávena ǀ pipiśe ǀ yatáḥ ǀ nṛ́-bhiḥ ǀ sám ǀ jāmí-bhiḥ ǀ násate ǀ rákṣate ǀ śíraḥ ǁsaḥ ǀ mātarā ǀ vi-caran ǀ vājayan ǀ apaḥ ǀ pra ǀ medhiraḥ ǀ svadhayā ǀ pinvate ǀ padam ǀ
aṃśuḥ ǀ yavena ǀ pipiśe ǀ yataḥ ǀ nṛ-bhiḥ ǀ sam ǀ jāmi-bhiḥ ǀ nasate ǀ rakṣate ǀ śiraḥ ǁ9.68.4 Aṣṭaka 7.2.19.4Anuvāka 9.4.4
-
Ṛk 5
सं दक्षे॑ण॒ मन॑सा जायते क॒विर्ऋ॒तस्य॒ गर्भो॒ निहि॑तो य॒मा प॒रः ।
यूना॑ ह॒ संता॑ प्रथ॒मं वि ज॑ज्ञतु॒र्गुहा॑ हि॒तं जनि॑म॒ नेम॒मुद्य॑तं ॥सं दक्षेण मनसा जायते कविर् ऋतस्य गर्भो निहितो यमा परः |
यूना ह सन्ता प्रथमं वि जज्ञतुर् गुहा हितं जनिम नेमम् उद्यतम् ||sám dákṣeṇa mánasā jāyate kavírṛtásya gárbho níhito yamā́ paráḥ ǀ
yū́nā ha sántā prathamám ví jajñaturgúhā hitám jánima némamúdyatam ǁsaṃ dakṣeṇa manasā jāyate kavir ṛtasya garbho nihito yamā paraḥ |
yūnā ha santā prathamaṃ vi jajñatur guhā hitaṃ janima nemam udyatam ||सम् । दक्षे॑ण । मन॑सा । जा॒य॒ते॒ । क॒विः । ऋ॒तस्य॑ । गर्भः॑ । निऽहि॑तः । य॒मा । प॒रः ।
यूना॑ । ह॒ । सन्ता॑ । प्र॒थ॒मम् । वि । ज॒ज्ञ॒तुः॒ । गुहा॑ । हि॒तम् । जनि॑म । नेम॑म् । उत्ऽय॑तम् ॥सम् । दक्षेण । मनसा । जायते । कविः । ऋतस्य । गर्भः । निऽहितः । यमा । परः ।
यूना । ह । सन्ता । प्रथमम् । वि । जज्ञतुः । गुहा । हितम् । जनिम । नेमम् । उत्ऽयतम् ॥sám ǀ dákṣeṇa ǀ mánasā ǀ jāyate ǀ kavíḥ ǀ ṛtásya ǀ gárbhaḥ ǀ ní-hitaḥ ǀ yamā́ ǀ paráḥ ǀ
yū́nā ǀ ha ǀ sántā ǀ prathamám ǀ ví ǀ jajñatuḥ ǀ gúhā ǀ hitám ǀ jánima ǀ némam ǀ út-yatam ǁsam ǀ dakṣeṇa ǀ manasā ǀ jāyate ǀ kaviḥ ǀ ṛtasya ǀ garbhaḥ ǀ ni-hitaḥ ǀ yamā ǀ paraḥ ǀ
yūnā ǀ ha ǀ santā ǀ prathamam ǀ vi ǀ jajñatuḥ ǀ guhā ǀ hitam ǀ janima ǀ nemam ǀ ut-yatam ǁ9.68.5 Aṣṭaka 7.2.19.5Anuvāka 9.4.5
-
Ṛk 6
मं॒द्रस्य॑ रू॒पं वि॑विदुर्मनी॒षिणः॑ श्ये॒नो यदंधो॒ अभ॑रत्परा॒वतः॑ ।
तं म॑र्जयंत सु॒वृधं॑ न॒दीष्वाँ उ॒शंत॑मं॒शुं प॑रि॒यंत॑मृ॒ग्मियं॑ ॥मन्द्रस्य रूपं विविदुर् मनीषिणः श्येनो यद् अन्धो अभरत् परावतः |
तम् मर्जयन्त सुवृधं नदीष्व् आं उशन्तम् अंशुम् परियन्तम् ऋग्मियम् ||mandrásya rūpám vividurmanīṣíṇaḥ śyenó yádándho ábharatparāvátaḥ ǀ
tám marjayanta suvṛ́dham nadī́ṣvā́m̐ uśántamaṃśúm pariyántamṛgmíyam ǁmandrasya rūpaṃ vividur manīṣiṇaḥ śyeno yad andho abharat parāvataḥ |
tam marjayanta suvṛdhaṃ nadīṣv āṃ uśantam aṃśum pariyantam ṛgmiyam ||म॒न्द्रस्य॑ । रू॒पम् । वि॒वि॒दुः॒ । म॒नी॒षिणः॑ । श्ये॒नः । यत् । अन्धः॑ । अभ॑रत् । प॒रा॒ऽवतः॑ ।
तम् । म॒र्ज॒य॒न्त॒ । सु॒ऽवृध॑म् । न॒दीषु॑ । आ । उ॒शन्त॑म् । अं॒शुम् । प॒रि॒ऽयन्त॑म् । ऋ॒ग्मिय॑म् ॥मन्द्रस्य । रूपम् । विविदुः । मनीषिणः । श्येनः । यत् । अन्धः । अभरत् । पराऽवतः ।
तम् । मर्जयन्त । सुऽवृधम् । नदीषु । आ । उशन्तम् । अंशुम् । परिऽयन्तम् । ऋग्मियम् ॥mandrásya ǀ rūpám ǀ vividuḥ ǀ manīṣíṇaḥ ǀ śyenáḥ ǀ yát ǀ ándhaḥ ǀ ábharat ǀ parā-vátaḥ ǀ
tám ǀ marjayanta ǀ su-vṛ́dham ǀ nadī́ṣu ǀ ā́ ǀ uśántam ǀ aṃśúm ǀ pari-yántam ǀ ṛgmíyam ǁmandrasya ǀ rūpam ǀ vividuḥ ǀ manīṣiṇaḥ ǀ śyenaḥ ǀ yat ǀ andhaḥ ǀ abharat ǀ parā-vataḥ ǀ
tam ǀ marjayanta ǀ su-vṛdham ǀ nadīṣu ǀ ā ǀ uśantam ǀ aṃśum ǀ pari-yantam ǀ ṛgmiyam ǁ9.68.6 Aṣṭaka 7.2.20.1Anuvāka 9.4.6
-
Ṛk 7
त्वां मृ॑जंति॒ दश॒ योष॑णः सु॒तं सोम॒ ऋषि॑भिर्म॒तिभि॑र्धी॒तिभि॑र्हि॒तं ।
अव्यो॒ वारे॑भिरु॒त दे॒वहू॑तिभि॒र्नृभि॑र्य॒तो वाज॒मा द॑र्षि सा॒तये॑ ॥त्वाम् मृजन्ति दश योषणः सुतं सोम ऋषिभिर् मतिभिर् धीतिभिर् हितम् |
अव्यो वारेभिर् उत देवहूतिभिर् नृभिर् यतो वाजम् आ दर्षि सातये ||tvā́m mṛjanti dáśa yóṣaṇaḥ sutám sóma ṛ́ṣibhirmatíbhirdhītíbhirhitám ǀ
ávyo vā́rebhirutá deváhūtibhirnṛ́bhiryató vā́jamā́ darṣi sātáye ǁtvām mṛjanti daśa yoṣaṇaḥ sutaṃ soma ṛṣibhir matibhir dhītibhir hitam |
avyo vārebhir uta devahūtibhir nṛbhir yato vājam ā darṣi sātaye ||त्वाम् । मृ॒ज॒न्ति॒ । दश॑ । योष॑णः । सु॒तम् । सोम॑ । ऋषि॑ऽभिः । म॒तिऽभिः॑ । धी॒तिऽभिः॑ । हि॒तम् ।
अव्यः॑ । वारे॑भिः । उ॒त । दे॒वहू॑तिऽभिः । नृऽभिः॑ । य॒तः । वाज॑म् । आ । द॒र्षि॒ । सा॒तये॑ ॥त्वाम् । मृजन्ति । दश । योषणः । सुतम् । सोम । ऋषिऽभिः । मतिऽभिः । धीतिऽभिः । हितम् ।
अव्यः । वारेभिः । उत । देवहूतिऽभिः । नृऽभिः । यतः । वाजम् । आ । दर्षि । सातये ॥tvā́m ǀ mṛjanti ǀ dáśa ǀ yóṣaṇaḥ ǀ sutám ǀ sóma ǀ ṛ́ṣi-bhiḥ ǀ matí-bhiḥ ǀ dhītí-bhiḥ ǀ hitám ǀ
ávyaḥ ǀ vā́rebhiḥ ǀ utá ǀ deváhūti-bhiḥ ǀ nṛ́-bhiḥ ǀ yatáḥ ǀ vā́jam ǀ ā́ ǀ darṣi ǀ sātáye ǁtvām ǀ mṛjanti ǀ daśa ǀ yoṣaṇaḥ ǀ sutam ǀ soma ǀ ṛṣi-bhiḥ ǀ mati-bhiḥ ǀ dhīti-bhiḥ ǀ hitam ǀ
avyaḥ ǀ vārebhiḥ ǀ uta ǀ devahūti-bhiḥ ǀ nṛ-bhiḥ ǀ yataḥ ǀ vājam ǀ ā ǀ darṣi ǀ sātaye ǁ9.68.7 Aṣṭaka 7.2.20.2Anuvāka 9.4.7
-
Ṛk 8
प॒रि॒प्र॒यंतं॑ व॒य्यं॑ सुषं॒सदं॒ सोमं॑ मनी॒षा अ॒भ्य॑नूषत॒ स्तुभः॑ ।
यो धार॑या॒ मधु॑माँ ऊ॒र्मिणा॑ दि॒व इय॑र्ति॒ वाचं॑ रयि॒षाळम॑र्त्यः ॥परिप्रयन्तं वय्यं सुषंसदं सोमम् मनीषा अभ्य् अनूषत स्तुभः |
यो धारया मधुमां ऊर्मिणा दिव इयर्ति वाचं रयिषाऌ अमर्त्यः ||pariprayántam vayyám suṣaṃsádam sómam manīṣā́ abhyánūṣata stúbhaḥ ǀ
yó dhā́rayā mádhumām̐ ūrmíṇā divá íyarti vā́cam rayiṣā́ḷámartyaḥ ǁpariprayantaṃ vayyaṃ suṣaṃsadaṃ somam manīṣā abhy anūṣata stubhaḥ |
yo dhārayā madhumāṃ ūrmiṇā diva iyarti vācaṃ rayiṣāḷ amartyaḥ ||प॒रि॒ऽप्र॒यन्त॑म् । व॒य्य॑म् । सु॒ऽसं॒सद॑म् । सोम॑म् । म॒नी॒षाः । अ॒भि । अ॒नू॒ष॒त॒ । स्तुभः॑ ।
यः । धार॑या । मधु॑ऽमान् । ऊ॒र्मिणा॑ । दि॒वः । इय॑र्ति । वाच॑म् । र॒यि॒षाट् । अम॑र्त्यः ॥परिऽप्रयन्तम् । वय्यम् । सुऽसंसदम् । सोमम् । मनीषाः । अभि । अनूषत । स्तुभः ।
यः । धारया । मधुऽमान् । ऊर्मिणा । दिवः । इयर्ति । वाचम् । रयिषाट् । अमर्त्यः ॥pari-prayántam ǀ vayyám ǀ su-saṃsádam ǀ sómam ǀ manīṣā́ḥ ǀ abhí ǀ anūṣata ǀ stúbhaḥ ǀ
yáḥ ǀ dhā́rayā ǀ mádhu-mān ǀ ūrmíṇā ǀ diváḥ ǀ íyarti ǀ vā́cam ǀ rayiṣā́ṭ ǀ ámartyaḥ ǁpari-prayantam ǀ vayyam ǀ su-saṃsadam ǀ somam ǀ manīṣāḥ ǀ abhi ǀ anūṣata ǀ stubhaḥ ǀ
yaḥ ǀ dhārayā ǀ madhu-mān ǀ ūrmiṇā ǀ divaḥ ǀ iyarti ǀ vācam ǀ rayiṣāṭ ǀ amartyaḥ ǁ9.68.8 Aṣṭaka 7.2.20.3Anuvāka 9.4.8
-
Ṛk 9
अ॒यं दि॒व इ॑यर्ति॒ विश्व॒मा रजः॒ सोमः॑ पुना॒नः क॒लशे॑षु सीदति ।
अ॒द्भिर्गोभि॑र्मृज्यते॒ अद्रि॑भिः सु॒तः पु॑ना॒न इंदु॒र्वरि॑वो विदत्प्रि॒यं ॥अयं दिव इयर्ति विश्वम् आ रजः सोमः पुनानः कलशेषु सीदति |
अद्भिर् गोभिर् मृज्यते अद्रिभिः सुतः पुनान इन्दुर् वरिवो विदत् प्रियम् ||ayám divá iyarti víśvamā́ rájaḥ sómaḥ punānáḥ kaláśeṣu sīdati ǀ
adbhírgóbhirmṛjyate ádribhiḥ sutáḥ punāná índurvárivo vidatpriyám ǁayaṃ diva iyarti viśvam ā rajaḥ somaḥ punānaḥ kalaśeṣu sīdati |
adbhir gobhir mṛjyate adribhiḥ sutaḥ punāna indur varivo vidat priyam ||अ॒यम् । दि॒वः । इ॒य॒र्ति॒ । विश्व॑म् । आ । रजः॑ । सोमः॑ । पु॒ना॒नः । क॒लशे॑षु । सी॒द॒ति॒ ।
अ॒त्ऽभिः । गोभिः॑ । मृ॒ज्य॒ते॒ । अद्रि॑ऽभिः । सु॒तः । पु॒ना॒नः । इन्दुः॑ । वरि॑वः । वि॒द॒त् । प्रि॒यम् ॥अयम् । दिवः । इयर्ति । विश्वम् । आ । रजः । सोमः । पुनानः । कलशेषु । सीदति ।
अत्ऽभिः । गोभिः । मृज्यते । अद्रिऽभिः । सुतः । पुनानः । इन्दुः । वरिवः । विदत् । प्रियम् ॥ayám ǀ diváḥ ǀ iyarti ǀ víśvam ǀ ā́ ǀ rájaḥ ǀ sómaḥ ǀ punānáḥ ǀ kaláśeṣu ǀ sīdati ǀ
at-bhíḥ ǀ góbhiḥ ǀ mṛjyate ǀ ádri-bhiḥ ǀ sutáḥ ǀ punānáḥ ǀ índuḥ ǀ várivaḥ ǀ vidat ǀ priyám ǁayam ǀ divaḥ ǀ iyarti ǀ viśvam ǀ ā ǀ rajaḥ ǀ somaḥ ǀ punānaḥ ǀ kalaśeṣu ǀ sīdati ǀ
at-bhiḥ ǀ gobhiḥ ǀ mṛjyate ǀ adri-bhiḥ ǀ sutaḥ ǀ punānaḥ ǀ induḥ ǀ varivaḥ ǀ vidat ǀ priyam ǁ9.68.9 Aṣṭaka 7.2.20.4Anuvāka 9.4.9
-
Ṛk 10
ए॒वा नः॑ सोम परिषि॒च्यमा॑नो॒ वयो॒ दध॑च्चि॒त्रत॑मं पवस्व ।
अ॒द्वे॒षे द्यावा॑पृथि॒वी हु॑वेम॒ देवा॑ ध॒त्त र॒यिम॒स्मे सु॒वीरं॑ ॥एवा नः सोम परिषिच्यमानो वयो दधच् चित्रतमम् पवस्व |
अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिम् अस्मे सुवीरम् ||evā́ naḥ soma pariṣicyámāno váyo dádhaccitrátamam pavasva ǀ
adveṣé dyā́vāpṛthivī́ huvema dévā dhattá rayímasmé suvī́ram ǁevā naḥ soma pariṣicyamāno vayo dadhac citratamam pavasva |
adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram ||ए॒व । नः॒ । सो॒म॒ । प॒रि॒ऽसि॒च्यमा॑नः । वयः॑ । दध॑त् । चि॒त्रऽत॑मम् । प॒व॒स्व॒ ।
अ॒द्वे॒षे इति॑ । द्यावा॑पृथि॒वी इति॑ । हु॒वे॒म॒ । देवाः॑ । ध॒त्त । र॒यिम् । अ॒स्मे इति॑ । सु॒ऽवीर॑म् ॥एव । नः । सोम । परिऽसिच्यमानः । वयः । दधत् । चित्रऽतमम् । पवस्व ।
अद्वेषे इति । द्यावापृथिवी इति । हुवेम । देवाः । धत्त । रयिम् । अस्मे इति । सुऽवीरम् ॥evá ǀ naḥ ǀ soma ǀ pari-sicyámānaḥ ǀ váyaḥ ǀ dádhat ǀ citrá-tamam ǀ pavasva ǀ
adveṣé íti ǀ dyā́vāpṛthivī́ íti ǀ huvema ǀ dévāḥ ǀ dhattá ǀ rayím ǀ asmé íti ǀ su-vī́ram ǁeva ǀ naḥ ǀ soma ǀ pari-sicyamānaḥ ǀ vayaḥ ǀ dadhat ǀ citra-tamam ǀ pavasva ǀ
adveṣe iti ǀ dyāvāpṛthivī iti ǀ huvema ǀ devāḥ ǀ dhatta ǀ rayim ǀ asme iti ǀ su-vīram ǁ9.68.10 Aṣṭaka 7.2.20.5Anuvāka 9.4.10
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.