Ṛk 9.68.5
Saṃhitā
सं दक्षे॑ण॒ मन॑सा जायते क॒विर्ऋ॒तस्य॒ गर्भो॒ निहि॑तो य॒मा प॒रः ।
यूना॑ ह॒ संता॑ प्रथ॒मं वि ज॑ज्ञतु॒र्गुहा॑ हि॒तं जनि॑म॒ नेम॒मुद्य॑तं ॥
सं दक्षेण मनसा जायते कविर् ऋतस्य गर्भो निहितो यमा परः |
यूना ह सन्ता प्रथमं वि जज्ञतुर् गुहा हितं जनिम नेमम् उद्यतम् ||
sám dákṣeṇa mánasā jāyate kavírṛtásya gárbho níhito yamā́ paráḥ ǀ
yū́nā ha sántā prathamám ví jajñaturgúhā hitám jánima némamúdyatam ǁ
saṃ dakṣeṇa manasā jāyate kavir ṛtasya garbho nihito yamā paraḥ |
yūnā ha santā prathamaṃ vi jajñatur guhā hitaṃ janima nemam udyatam ||
Padapāṭha
सम् । दक्षे॑ण । मन॑सा । जा॒य॒ते॒ । क॒विः । ऋ॒तस्य॑ । गर्भः॑ । निऽहि॑तः । य॒मा । प॒रः ।
यूना॑ । ह॒ । सन्ता॑ । प्र॒थ॒मम् । वि । ज॒ज्ञ॒तुः॒ । गुहा॑ । हि॒तम् । जनि॑म । नेम॑म् । उत्ऽय॑तम् ॥
सम् । दक्षेण । मनसा । जायते । कविः । ऋतस्य । गर्भः । निऽहितः । यमा । परः ।
यूना । ह । सन्ता । प्रथमम् । वि । जज्ञतुः । गुहा । हितम् । जनिम । नेमम् । उत्ऽयतम् ॥
sám ǀ dákṣeṇa ǀ mánasā ǀ jāyate ǀ kavíḥ ǀ ṛtásya ǀ gárbhaḥ ǀ ní-hitaḥ ǀ yamā́ ǀ paráḥ ǀ
yū́nā ǀ ha ǀ sántā ǀ prathamám ǀ ví ǀ jajñatuḥ ǀ gúhā ǀ hitám ǀ jánima ǀ némam ǀ út-yatam ǁ
sam ǀ dakṣeṇa ǀ manasā ǀ jāyate ǀ kaviḥ ǀ ṛtasya ǀ garbhaḥ ǀ ni-hitaḥ ǀ yamā ǀ paraḥ ǀ
yūnā ǀ ha ǀ santā ǀ prathamam ǀ vi ǀ jajñatuḥ ǀ guhā ǀ hitam ǀ janima ǀ nemam ǀ ut-yatam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.068.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.2.19.05
- Maṇḍala · Anuvāka · Ṛk
- 09.04.005
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Vatsaprī Bhālandana
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.