Ṛgveda · Maṇḍala 9

Sūkta 70

Soma Pavamāna · Reṇu Vaiśvāmitra · 10 ṛks

Link
Devatā देवता
Soma Pavamāna
Ṛṣi ऋषि
Reṇu Vaiśvāmitra
Chandas छन्दस्
Jagatī, Triṣṭubh
Metres by ṛk

1st set of styles nicṛjjagatī (2, 6, 9, 10); jagatī (4, 5, 7); triṣṭup (1, 3); virāḍjagatī (8)

2nd set of styles jagatī (1-9); triṣṭubh (10)

  1. Ṛk 1

    त्रिर॑स्मै स॒प्त धे॒नवो॑ दुदुह्रे स॒त्यामा॒शिरं॑ पू॒र्व्ये व्यो॑मनि ।
    च॒त्वार्य॒न्या भुव॑नानि नि॒र्णिजे॒ चारू॑णि चक्रे॒ यदृ॒तैरव॑र्धत ॥

    त्रिर् अस्मै सप्त धेनवो दुदुह्रे सत्याम् आशिरम् पूर्व्ये व्योमनि |
    चत्वार्य् अन्या भुवनानि निर्णिजे चारूणि चक्रे यद् ऋतैर् अवर्धत ||

    trírasmai saptá dhenávo duduhre satyā́māśíram pūrvyé vyómani ǀ
    catvā́ryanyā́ bhúvanāni nirṇíje cā́rūṇi cakre yádṛtáirávardhata ǁ

    trir asmai sapta dhenavo duduhre satyām āśiram pūrvye vyomani |
    catvāry anyā bhuvanāni nirṇije cārūṇi cakre yad ṛtair avardhata ||

    त्रिः । अ॒स्मै॒ । स॒प्त । धे॒नवः॑ । दु॒दु॒ह्रे॒ । स॒त्याम् । आ॒ऽशिर॑म् । पू॒र्व्ये । विऽओ॑मनि ।
    च॒त्वारि॑ । अ॒न्या । भुव॑नानि । निः॒ऽनिजे॑ । चारू॑णि । च॒क्रे॒ । यत् । ऋ॒तैः । अव॑र्धत ॥

    त्रिः । अस्मै । सप्त । धेनवः । दुदुह्रे । सत्याम् । आऽशिरम् । पूर्व्ये । विऽओमनि ।
    चत्वारि । अन्या । भुवनानि । निःऽनिजे । चारूणि । चक्रे । यत् । ऋतैः । अवर्धत ॥

    tríḥ ǀ asmai ǀ saptá ǀ dhenávaḥ ǀ duduhre ǀ satyā́m ǀ ā-śíram ǀ pūrvyé ǀ ví-omani ǀ
    catvā́ri ǀ anyā́ ǀ bhúvanāni ǀ niḥ-níje ǀ cā́rūṇi ǀ cakre ǀ yát ǀ ṛtáiḥ ǀ ávardhata ǁ

    triḥ ǀ asmai ǀ sapta ǀ dhenavaḥ ǀ duduhre ǀ satyām ǀ ā-śiram ǀ pūrvye ǀ vi-omani ǀ
    catvāri ǀ anyā ǀ bhuvanāni ǀ niḥ-nije ǀ cārūṇi ǀ cakre ǀ yat ǀ ṛtaiḥ ǀ avardhata ǁ

    9.70.1 Aṣṭaka 7.2.23.1Anuvāka 9.4.21

  2. Ṛk 2

    स भिक्ष॑माणो अ॒मृत॑स्य॒ चारु॑ण उ॒भे द्यावा॒ काव्ये॑ना॒ वि श॑श्रथे ।
    तेजि॑ष्ठा अ॒पो मं॒हना॒ परि॑ व्यत॒ यदी॑ दे॒वस्य॒ श्रव॑सा॒ सदो॑ वि॒दुः ॥

    स भिक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे |
    तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ||

    sá bhíkṣamāṇo amṛ́tasya cā́ruṇa ubhé dyā́vā kā́vyenā ví śaśrathe ǀ
    téjiṣṭhā apó maṃhánā pári vyata yádī devásya śrávasā sádo vidúḥ ǁ

    sa bhikṣamāṇo amṛtasya cāruṇa ubhe dyāvā kāvyenā vi śaśrathe |
    tejiṣṭhā apo maṃhanā pari vyata yadī devasya śravasā sado viduḥ ||

    सः । भिक्ष॑माणः । अ॒मृत॑स्य । चारु॑णः । उ॒भे इति॑ । द्यावा॑ । काव्ये॑न । वि । श॒श्र॒थे॒ ।
    तेजि॑ष्ठाः । अ॒पः । मं॒हना॑ । परि॑ । व्य॒त॒ । यदि॑ । दे॒वस्य॑ । श्रव॑सा । सदः॑ । वि॒दुः ॥

    सः । भिक्षमाणः । अमृतस्य । चारुणः । उभे इति । द्यावा । काव्येन । वि । शश्रथे ।
    तेजिष्ठाः । अपः । मंहना । परि । व्यत । यदि । देवस्य । श्रवसा । सदः । विदुः ॥

    sáḥ ǀ bhíkṣamāṇaḥ ǀ amṛ́tasya ǀ cā́ruṇaḥ ǀ ubhé íti ǀ dyā́vā ǀ kā́vyena ǀ ví ǀ śaśrathe ǀ
    téjiṣṭhāḥ ǀ apáḥ ǀ maṃhánā ǀ pári ǀ vyata ǀ yádi ǀ devásya ǀ śrávasā ǀ sádaḥ ǀ vidúḥ ǁ

    saḥ ǀ bhikṣamāṇaḥ ǀ amṛtasya ǀ cāruṇaḥ ǀ ubhe iti ǀ dyāvā ǀ kāvyena ǀ vi ǀ śaśrathe ǀ
    tejiṣṭhāḥ ǀ apaḥ ǀ maṃhanā ǀ pari ǀ vyata ǀ yadi ǀ devasya ǀ śravasā ǀ sadaḥ ǀ viduḥ ǁ

    9.70.2 Aṣṭaka 7.2.23.2Anuvāka 9.4.22

  3. Ṛk 3

    ते अ॑स्य संतु के॒तवोऽमृ॑त्य॒वोऽदा॑भ्यासो ज॒नुषी॑ उ॒भे अनु॑ ।
    येभि॑र्नृ॒म्णा च॑ दे॒व्या॑ च पुन॒त आदिद्राजा॑नं म॒नना॑ अगृभ्णत ॥

    ते अस्य सन्तु केतवो ऽमृत्यवो ऽदाभ्यासो जनुषी उभे अनु |
    येभिर् नृम्णा च देव्या च पुनत आद् इद् राजानम् मनना अगृभ्णत ||

    té asya santu ketávó’mṛtyavó’dābhyāso janúṣī ubhé ánu ǀ
    yébhirnṛmṇā́ ca devyā́ ca punatá ā́dídrā́jānam manánā agṛbhṇata ǁ

    te asya santu ketavo 'mṛtyavo 'dābhyāso januṣī ubhe anu |
    yebhir nṛmṇā ca devyā ca punata ād id rājānam mananā agṛbhṇata ||

    ते । अ॒स्य॒ । स॒न्तु॒ । के॒तवः॑ । अमृ॑त्यवः । अदा॑भ्यासः । ज॒नुषी॒ इति॑ । उ॒भे इति॑ । अनु॑ ।
    येभिः॑ । नृ॒म्णा । च॒ । दे॒व्या॑ । च॒ । पु॒न॒ते । आत् । इत् । राजा॑नम् । म॒ननाः॑ । अ॒गृ॒भ्ण॒त॒ ॥

    ते । अस्य । सन्तु । केतवः । अमृत्यवः । अदाभ्यासः । जनुषी इति । उभे इति । अनु ।
    येभिः । नृम्णा । च । देव्या । च । पुनते । आत् । इत् । राजानम् । मननाः । अगृभ्णत ॥

    té ǀ asya ǀ santu ǀ ketávaḥ ǀ ámṛtyavaḥ ǀ ádābhyāsaḥ ǀ janúṣī íti ǀ ubhé íti ǀ ánu ǀ
    yébhiḥ ǀ nṛmṇā́ ǀ ca ǀ devyā́ ǀ ca ǀ punaté ǀ ā́t ǀ ít ǀ rā́jānam ǀ manánāḥ ǀ agṛbhṇata ǁ

    te ǀ asya ǀ santu ǀ ketavaḥ ǀ amṛtyavaḥ ǀ adābhyāsaḥ ǀ januṣī iti ǀ ubhe iti ǀ anu ǀ
    yebhiḥ ǀ nṛmṇā ǀ ca ǀ devyā ǀ ca ǀ punate ǀ āt ǀ it ǀ rājānam ǀ mananāḥ ǀ agṛbhṇata ǁ

    9.70.3 Aṣṭaka 7.2.23.3Anuvāka 9.4.23

  4. Ṛk 4

    स मृ॒ज्यमा॑नो द॒शभिः॑ सु॒कर्म॑भिः॒ प्र म॑ध्य॒मासु॑ मा॒तृषु॑ प्र॒मे सचा॑ ।
    व्र॒तानि॑ पा॒नो अ॒मृत॑स्य॒ चारु॑ण उ॒भे नृ॒चक्षा॒ अनु॑ पश्यते॒ विशौ॑ ॥

    स मृज्यमानो दशभिः सुकर्मभिः प्र मध्यमासु मातृषु प्रमे सचा |
    व्रतानि पानो अमृतस्य चारुण उभे नृचक्षा अनु पश्यते विशौ ||

    sá mṛjyámāno daśábhiḥ sukármabhiḥ prá madhyamā́su mātṛ́ṣu pramé sácā ǀ
    vratā́ni pānó amṛ́tasya cā́ruṇa ubhé nṛcákṣā ánu paśyate víśau ǁ

    sa mṛjyamāno daśabhiḥ sukarmabhiḥ pra madhyamāsu mātṛṣu prame sacā |
    vratāni pāno amṛtasya cāruṇa ubhe nṛcakṣā anu paśyate viśau ||

    सः । मृ॒ज्यमा॑नः । द॒शऽभिः॑ । सु॒कर्म॑ऽभिः । प्र । म॒ध्य॒मासु॑ । मा॒तृषु॑ । प्र॒ऽमे । सचा॑ ।
    व्र॒तानि॑ । पा॒नः । अ॒मृत॑स्य । चारु॑णः । उ॒भे इति॑ । नृ॒ऽचक्षाः॑ । अनु॑ । प॒श्य॒ते॒ । विशौ॑ ॥

    सः । मृज्यमानः । दशऽभिः । सुकर्मऽभिः । प्र । मध्यमासु । मातृषु । प्रऽमे । सचा ।
    व्रतानि । पानः । अमृतस्य । चारुणः । उभे इति । नृऽचक्षाः । अनु । पश्यते । विशौ ॥

    sáḥ ǀ mṛjyámānaḥ ǀ daśá-bhiḥ ǀ sukárma-bhiḥ ǀ prá ǀ madhyamā́su ǀ mātṛ́ṣu ǀ pra-mé ǀ sácā ǀ
    vratā́ni ǀ pānáḥ ǀ amṛ́tasya ǀ cā́ruṇaḥ ǀ ubhé íti ǀ nṛ-cákṣāḥ ǀ ánu ǀ paśyate ǀ víśau ǁ

    saḥ ǀ mṛjyamānaḥ ǀ daśa-bhiḥ ǀ sukarma-bhiḥ ǀ pra ǀ madhyamāsu ǀ mātṛṣu ǀ pra-me ǀ sacā ǀ
    vratāni ǀ pānaḥ ǀ amṛtasya ǀ cāruṇaḥ ǀ ubhe iti ǀ nṛ-cakṣāḥ ǀ anu ǀ paśyate ǀ viśau ǁ

    9.70.4 Aṣṭaka 7.2.23.4Anuvāka 9.4.24

  5. Ṛk 5

    स म॑र्मृजा॒न इं॑द्रि॒याय॒ धाय॑स॒ ओभे अं॒ता रोद॑सी हर्षते हि॒तः ।
    वृषा॒ शुष्मे॑ण बाधते॒ वि दु॑र्म॒तीरा॒देदि॑शानः शर्य॒हेव॑ शु॒रुधः॑ ॥

    स मर्मृजान इन्द्रियाय धायस ओभे अन्ता रोदसी हर्षते हितः |
    वृषा शुष्मेण बाधते वि दुर्मतीर् आदेदिशानः शर्यहेव शुरुधः ||

    sá marmṛjāná indriyā́ya dhā́yasa óbhé antā́ ródasī harṣate hitáḥ ǀ
    vṛ́ṣā śúṣmeṇa bādhate ví durmatī́rādédiśānaḥ śaryahéva śurúdhaḥ ǁ

    sa marmṛjāna indriyāya dhāyasa obhe antā rodasī harṣate hitaḥ |
    vṛṣā śuṣmeṇa bādhate vi durmatīr ādediśānaḥ śaryaheva śurudhaḥ ||

    सः । म॒र्मृ॒जा॒नः । इ॒न्द्रि॒याय॑ । धाय॑से । आ । उ॒भे इति॑ । अ॒न्तरिति॑ । रोद॑सी॒ इति॑ । ह॒र्ष॒ते॒ । हि॒तः ।
    वृषा॑ । शुष्मे॑ण । बा॒ध॒ते॒ । वि । दुः॒ऽम॒तीः । आ॒देदि॑शानः । श॒र्य॒हाऽइ॑व । शु॒रुधः॑ ॥

    सः । मर्मृजानः । इन्द्रियाय । धायसे । आ । उभे इति । अन्तरिति । रोदसी इति । हर्षते । हितः ।
    वृषा । शुष्मेण । बाधते । वि । दुःऽमतीः । आदेदिशानः । शर्यहाऽइव । शुरुधः ॥

    sáḥ ǀ marmṛjānáḥ ǀ indriyā́ya ǀ dhā́yase ǀ ā́ ǀ ubhé íti ǀ antáríti ǀ ródasī íti ǀ harṣate ǀ hitáḥ ǀ
    vṛ́ṣā ǀ śúṣmeṇa ǀ bādhate ǀ ví ǀ duḥ-matī́ḥ ǀ ādédiśānaḥ ǀ śaryahā́-iva ǀ śurúdhaḥ ǁ

    saḥ ǀ marmṛjānaḥ ǀ indriyāya ǀ dhāyase ǀ ā ǀ ubhe iti ǀ antariti ǀ rodasī iti ǀ harṣate ǀ hitaḥ ǀ
    vṛṣā ǀ śuṣmeṇa ǀ bādhate ǀ vi ǀ duḥ-matīḥ ǀ ādediśānaḥ ǀ śaryahā-iva ǀ śurudhaḥ ǁ

    9.70.5 Aṣṭaka 7.2.23.5Anuvāka 9.4.25

  6. Ṛk 6

    स मा॒तरा॒ न ददृ॑शान उ॒स्रियो॒ नान॑ददेति म॒रुता॑मिव स्व॒नः ।
    जा॒नन्नृ॒तं प्र॑थ॒मं यत्स्व॑र्णरं॒ प्रश॑स्तये॒ कम॑वृणीत सु॒क्रतुः॑ ॥

    स मातरा न ददृशान उस्रियो नानदद् एति मरुताम् इव स्वनः |
    जानन्न् ऋतम् प्रथमं यत् स्वर्णरम् प्रशस्तये कम् अवृणीत सुक्रतुः ||

    sá mātárā ná dádṛśāna usríyo nā́nadadeti marútāmiva svanáḥ ǀ
    jānánnṛtám prathamám yátsvárṇaram práśastaye kámavṛṇīta sukrátuḥ ǁ

    sa mātarā na dadṛśāna usriyo nānadad eti marutām iva svanaḥ |
    jānann ṛtam prathamaṃ yat svarṇaram praśastaye kam avṛṇīta sukratuḥ ||

    सः । मा॒तरा॑ । न । ददृ॑शानः । उ॒स्रियः॑ । नान॑दत् । ए॒ति॒ । म॒रुता॑म्ऽइव । स्व॒नः ।
    जा॒नन् । ऋ॒तम् । प्र॒थ॒मम् । यत् । स्वः॑ऽनरम् । प्रऽश॑स्तये । कम् । अ॒वृ॒णी॒त॒ । सु॒ऽक्रतुः॑ ॥

    सः । मातरा । न । ददृशानः । उस्रियः । नानदत् । एति । मरुताम्ऽइव । स्वनः ।
    जानन् । ऋतम् । प्रथमम् । यत् । स्वःऽनरम् । प्रऽशस्तये । कम् । अवृणीत । सुऽक्रतुः ॥

    sáḥ ǀ mātárā ǀ ná ǀ dádṛśānaḥ ǀ usríyaḥ ǀ nā́nadat ǀ eti ǀ marútām-iva ǀ svanáḥ ǀ
    jānán ǀ ṛtám ǀ prathamám ǀ yát ǀ sváḥ-naram ǀ prá-śastaye ǀ kám ǀ avṛṇīta ǀ su-krátuḥ ǁ

    saḥ ǀ mātarā ǀ na ǀ dadṛśānaḥ ǀ usriyaḥ ǀ nānadat ǀ eti ǀ marutām-iva ǀ svanaḥ ǀ
    jānan ǀ ṛtam ǀ prathamam ǀ yat ǀ svaḥ-naram ǀ pra-śastaye ǀ kam ǀ avṛṇīta ǀ su-kratuḥ ǁ

    9.70.6 Aṣṭaka 7.2.24.1Anuvāka 9.4.26

  7. Ṛk 7

    रु॒वति॑ भी॒मो वृ॑ष॒भस्त॑वि॒ष्यया॒ शृंगे॒ शिशा॑नो॒ हरि॑णी विचक्ष॒णः ।
    आ योनिं॒ सोमः॒ सुकृ॑तं॒ नि षी॑दति ग॒व्ययी॒ त्वग्भ॑वति नि॒र्णिग॒व्ययी॑ ॥

    रुवति भीमो वृषभस् तविष्यया शृङ्गे शिशानो हरिणी विचक्षणः |
    आ योनिं सोमः सुकृतं नि षीदति गव्ययी त्वग् भवति निर्णिग् अव्ययी ||

    ruváti bhīmó vṛṣabhástaviṣyáyā śṛ́ṅge śíśāno háriṇī vicakṣaṇáḥ ǀ
    ā́ yónim sómaḥ súkṛtam ní ṣīdati gavyáyī tvágbhavati nirṇígavyáyī ǁ

    ruvati bhīmo vṛṣabhas taviṣyayā śṛṅge śiśāno hariṇī vicakṣaṇaḥ |
    ā yoniṃ somaḥ sukṛtaṃ ni ṣīdati gavyayī tvag bhavati nirṇig avyayī ||

    रु॒वति॑ । भी॒मः । वृ॒ष॒भः । त॒वि॒ष्यया॑ । शृङ्गे॒ इति॑ । शिशा॑नः । हरि॑णी॒ इति॑ । वि॒ऽच॒क्ष॒णः ।
    आ । योनि॑म् । सोमः॑ । सुऽकृ॑तम् । नि । सी॒द॒ति॒ । ग॒व्ययी॑ । त्वक् । भ॒व॒ति॒ । निः॒ऽनिक् । अ॒व्ययी॑ ॥

    रुवति । भीमः । वृषभः । तविष्यया । शृङ्गे इति । शिशानः । हरिणी इति । विऽचक्षणः ।
    आ । योनिम् । सोमः । सुऽकृतम् । नि । सीदति । गव्ययी । त्वक् । भवति । निःऽनिक् । अव्ययी ॥

    ruváti ǀ bhīmáḥ ǀ vṛṣabháḥ ǀ taviṣyáyā ǀ śṛ́ṅge íti ǀ śíśānaḥ ǀ háriṇī íti ǀ vi-cakṣaṇáḥ ǀ
    ā́ ǀ yónim ǀ sómaḥ ǀ sú-kṛtam ǀ ní ǀ sīdati ǀ gavyáyī ǀ tvák ǀ bhavati ǀ niḥ-ník ǀ avyáyī ǁ

    ruvati ǀ bhīmaḥ ǀ vṛṣabhaḥ ǀ taviṣyayā ǀ śṛṅge iti ǀ śiśānaḥ ǀ hariṇī iti ǀ vi-cakṣaṇaḥ ǀ
    ā ǀ yonim ǀ somaḥ ǀ su-kṛtam ǀ ni ǀ sīdati ǀ gavyayī ǀ tvak ǀ bhavati ǀ niḥ-nik ǀ avyayī ǁ

    9.70.7 Aṣṭaka 7.2.24.2Anuvāka 9.4.27

  8. Ṛk 8

    शुचिः॑ पुना॒नस्त॒न्व॑मरे॒पस॒मव्ये॒ हरि॒र्न्य॑धाविष्ट॒ सान॑वि ।
    जुष्टो॑ मि॒त्राय॒ वरु॑णाय वा॒यवे॑ त्रि॒धातु॒ मधु॑ क्रियते सु॒कर्म॑भिः ॥

    शुचिः पुनानस् तन्वम् अरेपसम् अव्ये हरिर् न्य् अधाविष्ट सानवि |
    जुष्टो मित्राय वरुणाय वायवे त्रिधातु मधु क्रियते सुकर्मभिः ||

    śúciḥ punānástanvámarepásamávye hárirnyádhāviṣṭa sā́navi ǀ
    júṣṭo mitrā́ya váruṇāya vāyáve tridhā́tu mádhu kriyate sukármabhiḥ ǁ

    śuciḥ punānas tanvam arepasam avye harir ny adhāviṣṭa sānavi |
    juṣṭo mitrāya varuṇāya vāyave tridhātu madhu kriyate sukarmabhiḥ ||

    शुचिः॑ । पु॒ना॒नः । त॒न्व॑म् । अ॒रे॒पस॑म् । अव्ये॑ । हरिः॑ । नि । अ॒धा॒वि॒ष्ट॒ । सान॑वि ।
    जुष्टः॑ । मि॒त्राय॑ । वरु॑णाय । वा॒यवे॑ । त्रि॒ऽधातु॑ । मधु॑ । क्रि॒य॒ते॒ । सु॒कर्म॑ऽभिः ॥

    शुचिः । पुनानः । तन्वम् । अरेपसम् । अव्ये । हरिः । नि । अधाविष्ट । सानवि ।
    जुष्टः । मित्राय । वरुणाय । वायवे । त्रिऽधातु । मधु । क्रियते । सुकर्मऽभिः ॥

    śúciḥ ǀ punānáḥ ǀ tanvám ǀ arepásam ǀ ávye ǀ háriḥ ǀ ní ǀ adhāviṣṭa ǀ sā́navi ǀ
    júṣṭaḥ ǀ mitrā́ya ǀ váruṇāya ǀ vāyáve ǀ tri-dhā́tu ǀ mádhu ǀ kriyate ǀ sukárma-bhiḥ ǁ

    śuciḥ ǀ punānaḥ ǀ tanvam ǀ arepasam ǀ avye ǀ hariḥ ǀ ni ǀ adhāviṣṭa ǀ sānavi ǀ
    juṣṭaḥ ǀ mitrāya ǀ varuṇāya ǀ vāyave ǀ tri-dhātu ǀ madhu ǀ kriyate ǀ sukarma-bhiḥ ǁ

    9.70.8 Aṣṭaka 7.2.24.3Anuvāka 9.4.28

  9. Ṛk 9

    पव॑स्व सोम दे॒ववी॑तये॒ वृषेंद्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श ।
    पु॒रा नो॑ बा॒धाद्दु॑रि॒ताति॑ पारय क्षेत्र॒विद्धि दिश॒ आहा॑ विपृच्छ॒ते ॥

    पवस्व सोम देववीतये वृषेन्द्रस्य हार्दि सोमधानम् आ विश |
    पुरा नो बाधाद् दुरिताति पारय क्षेत्रविद् धि दिश आहा विपृच्छते ||

    pávasva soma devávītaye vṛ́ṣéndrasya hā́rdi somadhā́namā́ viśa ǀ
    purā́ no bādhā́dduritā́ti pāraya kṣetravíddhí díśa ā́hā vipṛcchaté ǁ

    pavasva soma devavītaye vṛṣendrasya hārdi somadhānam ā viśa |
    purā no bādhād duritāti pāraya kṣetravid dhi diśa āhā vipṛcchate ||

    पव॑स्व । सो॒म॒ । दे॒वऽवी॑तये । वृषा॑ । इन्द्र॑स्य । हार्दि॑ । सो॒म॒ऽधान॑म् । आ । वि॒श॒ ।
    पु॒रा । नः॒ । बा॒धात् । दुः॒ऽइ॒ता । अति॑ । पा॒र॒य॒ । क्षे॒त्र॒ऽवित् । हि । दिशः॑ । आह॑ । वि॒ऽपृ॒च्छ॒ते ॥

    पवस्व । सोम । देवऽवीतये । वृषा । इन्द्रस्य । हार्दि । सोमऽधानम् । आ । विश ।
    पुरा । नः । बाधात् । दुःऽइता । अति । पारय । क्षेत्रऽवित् । हि । दिशः । आह । विऽपृच्छते ॥

    pávasva ǀ soma ǀ devá-vītaye ǀ vṛ́ṣā ǀ índrasya ǀ hā́rdi ǀ soma-dhā́nam ǀ ā́ ǀ viśa ǀ
    purā́ ǀ naḥ ǀ bādhā́t ǀ duḥ-itā́ ǀ áti ǀ pāraya ǀ kṣetra-vít ǀ hí ǀ díśaḥ ǀ ā́ha ǀ vi-pṛcchaté ǁ

    pavasva ǀ soma ǀ deva-vītaye ǀ vṛṣā ǀ indrasya ǀ hārdi ǀ soma-dhānam ǀ ā ǀ viśa ǀ
    purā ǀ naḥ ǀ bādhāt ǀ duḥ-itā ǀ ati ǀ pāraya ǀ kṣetra-vit ǀ hi ǀ diśaḥ ǀ āha ǀ vi-pṛcchate ǁ

    9.70.9 Aṣṭaka 7.2.24.4Anuvāka 9.4.29

  10. Ṛk 10

    हि॒तो न सप्ति॑र॒भि वाज॑म॒र्षेंद्र॑स्येंदो ज॒ठर॒मा प॑वस्व ।
    ना॒वा न सिंधु॒मति॑ पर्षि वि॒द्वांछूरो॒ न युध्य॒न्नव॑ नो नि॒दः स्पः॑ ॥

    हितो न सप्तिर् अभि वाजम् अर्षेन्द्रस्येन्दो जठरम् आ पवस्व |
    नावा न सिन्धुम् अति पर्षि विद्वाञ् छूरो न युध्यन्न् अव नो निद स्पः ||

    hitó ná sáptirabhí vā́jamarṣéndrasyendo jaṭháramā́ pavasva ǀ
    nāvā́ ná síndhumáti parṣi vidvā́ñchū́ro ná yúdhyannáva no nidáḥ spaḥ ǁ

    hito na saptir abhi vājam arṣendrasyendo jaṭharam ā pavasva |
    nāvā na sindhum ati parṣi vidvāñ chūro na yudhyann ava no nida spaḥ ||

    हि॒तः । न । सप्तिः॑ । अ॒भि । वाज॑म् । अ॒र्ष॒ । इन्द्र॑स्य । इ॒न्दो॒ इति॑ । ज॒ठर॑म् । आ । प॒व॒स्व॒ ।
    ना॒वा । न । सिन्धु॑म् । अति॑ । प॒र्षि॒ । वि॒द्वान् । शूरः॑ । न । युध्य॑न् । अव॑ । नः॒ । नि॒दः । स्प॒रिति॑ स्पः ॥

    हितः । न । सप्तिः । अभि । वाजम् । अर्ष । इन्द्रस्य । इन्दो इति । जठरम् । आ । पवस्व ।
    नावा । न । सिन्धुम् । अति । पर्षि । विद्वान् । शूरः । न । युध्यन् । अव । नः । निदः । स्परिति स्पः ॥

    hitáḥ ǀ ná ǀ sáptiḥ ǀ abhí ǀ vā́jam ǀ arṣa ǀ índrasya ǀ indo íti ǀ jaṭháram ǀ ā́ ǀ pavasva ǀ
    nāvā́ ǀ ná ǀ síndhum ǀ áti ǀ parṣi ǀ vidvā́n ǀ śū́raḥ ǀ ná ǀ yúdhyan ǀ áva ǀ naḥ ǀ nidáḥ ǀ sparíti spaḥ ǁ

    hitaḥ ǀ na ǀ saptiḥ ǀ abhi ǀ vājam ǀ arṣa ǀ indrasya ǀ indo iti ǀ jaṭharam ǀ ā ǀ pavasva ǀ
    nāvā ǀ na ǀ sindhum ǀ ati ǀ parṣi ǀ vidvān ǀ śūraḥ ǀ na ǀ yudhyan ǀ ava ǀ naḥ ǀ nidaḥ ǀ spariti spaḥ ǁ

    9.70.10 Aṣṭaka 7.2.24.5Anuvāka 9.4.30

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 9.70 · Soma Pavamāna

Interpretations

Ralph T. H. Griffith

Ṛk 1

THE three times seven Milch-kine in the eastern heaven have for this Soma poured the genuine milky draught. Four other beauteous Creatures hath he made for his adornment, when he waxed in strength through holy rites.

Ṛk 2

Longing for lovely Amṛta, by his wisdom he divided, each apart from other, earth and heaven. He gladly wrapped himself in the most lucid floods, when through their glory they found the God's resting-place.

Ṛk 3

May those his brilliant rays he ever free from death, inviolate, for both classes of created things,— Rays wherewith powers of men and Gods are purified. Yea, even for this have sageswelcomed him as King.

Ṛk 4

He, while he is adorned by the ten skilful ones, that he too in the Midmost Mothers may create, While he is watching o’er the lovely Amṛta's ways, looks on both races as Beholder of mankind.

Ṛk 5

He, while he is adorned to stream forth mighty strength, rejoices in his place between the earth and heaven. The Steer dispels the evil-hearted with his might, aiming at offerings as an archer at the game.

Ṛk 6

Beholding, as it were, Two Mother Cows, the Steer goes roaring on his way even as the Maruts roar. Knowing Eternal Law, the earliest light of heaven, he, passing wise, was chosen out to tell it forth.

Ṛk 7

The fearful Bull is bellowing with violent might, far-sighted, sharpening his yellowcoloured horns. Soma assumes his seat in the well-fashioned place: the cowhide and the sheepskin are his ornament.

Ṛk 8

Bright, making pure his body free from spot and stain, on the sheep's back the Golden-coloured hath flowed down. Acceptable to Mitra, Vāyu, Varuṇa, he is prepared as threefold meal by skilful men.

Ṛk 9

Flow on for the God's banquet, Soma, as a Steer, and enter Indra's heart, the Soma's reservoir. Bear us beyond misfortune ere we be oppres. sed. the man who knows the land directs the man who asks.