Ṛk 9.70.3
Saṃhitā
ते अ॑स्य संतु के॒तवोऽमृ॑त्य॒वोऽदा॑भ्यासो ज॒नुषी॑ उ॒भे अनु॑ ।
येभि॑र्नृ॒म्णा च॑ दे॒व्या॑ च पुन॒त आदिद्राजा॑नं म॒नना॑ अगृभ्णत ॥
ते अस्य सन्तु केतवो ऽमृत्यवो ऽदाभ्यासो जनुषी उभे अनु |
येभिर् नृम्णा च देव्या च पुनत आद् इद् राजानम् मनना अगृभ्णत ||
té asya santu ketávó’mṛtyavó’dābhyāso janúṣī ubhé ánu ǀ
yébhirnṛmṇā́ ca devyā́ ca punatá ā́dídrā́jānam manánā agṛbhṇata ǁ
te asya santu ketavo 'mṛtyavo 'dābhyāso januṣī ubhe anu |
yebhir nṛmṇā ca devyā ca punata ād id rājānam mananā agṛbhṇata ||
Padapāṭha
ते । अ॒स्य॒ । स॒न्तु॒ । के॒तवः॑ । अमृ॑त्यवः । अदा॑भ्यासः । ज॒नुषी॒ इति॑ । उ॒भे इति॑ । अनु॑ ।
येभिः॑ । नृ॒म्णा । च॒ । दे॒व्या॑ । च॒ । पु॒न॒ते । आत् । इत् । राजा॑नम् । म॒ननाः॑ । अ॒गृ॒भ्ण॒त॒ ॥
ते । अस्य । सन्तु । केतवः । अमृत्यवः । अदाभ्यासः । जनुषी इति । उभे इति । अनु ।
येभिः । नृम्णा । च । देव्या । च । पुनते । आत् । इत् । राजानम् । मननाः । अगृभ्णत ॥
té ǀ asya ǀ santu ǀ ketávaḥ ǀ ámṛtyavaḥ ǀ ádābhyāsaḥ ǀ janúṣī íti ǀ ubhé íti ǀ ánu ǀ
yébhiḥ ǀ nṛmṇā́ ǀ ca ǀ devyā́ ǀ ca ǀ punaté ǀ ā́t ǀ ít ǀ rā́jānam ǀ manánāḥ ǀ agṛbhṇata ǁ
te ǀ asya ǀ santu ǀ ketavaḥ ǀ amṛtyavaḥ ǀ adābhyāsaḥ ǀ januṣī iti ǀ ubhe iti ǀ anu ǀ
yebhiḥ ǀ nṛmṇā ǀ ca ǀ devyā ǀ ca ǀ punate ǀ āt ǀ it ǀ rājānam ǀ mananāḥ ǀ agṛbhṇata ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.070.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.2.23.03
- Maṇḍala · Anuvāka · Ṛk
- 09.04.023
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Reṇu Vaiśvāmitra
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.