Sūkta 97
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- 1-3: Vasiṣṭha Maitrāvaruṇi; 4-6: Indrapramati Vāsiṣṭha; 7-9: Vṛṣagaṇa Vāsiṣṭha; 10-12: Manyu Vāsiṣṭha; 13-15: Upamanyu Vāsiṣṭha; 16-18: Vyāghrapād Vāsiṣṭha; 19-21: Śakti Vāsiṣṭha; 22-24: Karṇaśrut Vāsiṣṭha; 25-27: Mṛḻīka Vāsiṣṭha; 28-30: Vasukra Vāsiṣṭha; 31-44: Parāśara Śāktya; 45-58: Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 6, 10, 12, 14, 15, 19, 21, 25, 26, 32, 36, 38, 39, 45, 46, 52, 54, 56); triṣṭup (5, 9, 13, 22, 27-30, 34, 35, 37, 42-44, 47, 57, 58); virāṭtrisṭup (2-4, 7, 8, 11, 16, 17, 20, 23, 24, 33, 48, 53); svarāḍārcītriṣṭup (18, 41, 50, 51, 55); pādanicṛttriṣṭup (31, 49); bhuriktriṣṭup (40)
2nd set of styles triṣṭubh
-
Ṛk 1
अ॒स्य प्रे॒षा हे॒मना॑ पू॒यमा॑नो दे॒वो दे॒वेभिः॒ सम॑पृक्त॒ रसं॑ ।
सु॒तः प॒वित्रं॒ पर्ये॑ति॒ रेभ॑न्मि॒तेव॒ सद्म॑ पशु॒मांति॒ होता॑ ॥अस्य प्रेषा हेमना पूयमानो देवो देवेभिः सम् अपृक्त रसम् |
सुतः पवित्रम् पर्य् एति रेभन् मितेव सद्म पशुमान्ति होता ||asyá preṣā́ hemánā pūyámāno devó devébhiḥ sámapṛkta rásam ǀ
sutáḥ pavítram páryeti rébhanmitéva sádma paśumā́nti hótā ǁasya preṣā hemanā pūyamāno devo devebhiḥ sam apṛkta rasam |
sutaḥ pavitram pary eti rebhan miteva sadma paśumānti hotā ||अ॒स्य । प्रे॒षा । हे॒मना॑ । पू॒यमा॑नः । दे॒वः । दे॒वेभिः॑ । सम् । अ॒पृ॒क्त॒ । रस॑म् ।
सु॒तः । प॒वित्र॑म् । परि॑ । ए॒ति॒ । रेभ॑न् । मि॒ताऽइ॑व । सद्म॑ । प॒शु॒ऽमन्ति॑ । होता॑ ॥अस्य । प्रेषा । हेमना । पूयमानः । देवः । देवेभिः । सम् । अपृक्त । रसम् ।
सुतः । पवित्रम् । परि । एति । रेभन् । मिताऽइव । सद्म । पशुऽमन्ति । होता ॥asyá ǀ preṣā́ ǀ hemánā ǀ pūyámānaḥ ǀ deváḥ ǀ devébhiḥ ǀ sám ǀ apṛkta ǀ rásam ǀ
sutáḥ ǀ pavítram ǀ pári ǀ eti ǀ rébhan ǀ mitā́-iva ǀ sádma ǀ paśu-mánti ǀ hótā ǁasya ǀ preṣā ǀ hemanā ǀ pūyamānaḥ ǀ devaḥ ǀ devebhiḥ ǀ sam ǀ apṛkta ǀ rasam ǀ
sutaḥ ǀ pavitram ǀ pari ǀ eti ǀ rebhan ǀ mitā-iva ǀ sadma ǀ paśu-manti ǀ hotā ǁ9.97.1 Aṣṭaka 7.4.11.1Anuvāka 9.6.1
-
Ṛk 2
भ॒द्रा वस्त्रा॑ सम॒न्या॒३॒॑ वसा॑नो म॒हान्क॒विर्नि॒वच॑नानि॒ शंस॑न् ।
आ व॑च्यस्व च॒म्वोः॑ पू॒यमा॑नो विचक्ष॒णो जागृ॑विर्दे॒ववी॑तौ ॥भद्रा वस्त्रा समन्या वसानो महान् कविर् निवचनानि शंसन् |
आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर् देववीतौ ||bhadrā́ vástrā samanyā́ vásāno mahā́nkavírnivácanāni śáṃsan ǀ
ā́ vacyasva camvóḥ pūyámāno vicakṣaṇó jā́gṛvirdevávītau ǁbhadrā vastrā samanyā vasāno mahān kavir nivacanāni śaṃsan |
ā vacyasva camvoḥ pūyamāno vicakṣaṇo jāgṛvir devavītau ||भ॒द्रा । वस्त्रा॑ । स॒म॒न्या॑ । वसा॑नः । म॒हान् । क॒विः । नि॒ऽवच॑नानि । शंस॑न् ।
आ । व॒च्य॒स्व॒ । च॒म्वोः॑ । पू॒यमा॑नः । वि॒ऽच॒क्ष॒णः । जागृ॑विः । दे॒वऽवी॑तौ ॥भद्रा । वस्त्रा । समन्या । वसानः । महान् । कविः । निऽवचनानि । शंसन् ।
आ । वच्यस्व । चम्वोः । पूयमानः । विऽचक्षणः । जागृविः । देवऽवीतौ ॥bhadrā́ ǀ vástrā ǀ samanyā́ ǀ vásānaḥ ǀ mahā́n ǀ kavíḥ ǀ ni-vácanāni ǀ śáṃsan ǀ
ā́ ǀ vacyasva ǀ camvóḥ ǀ pūyámānaḥ ǀ vi-cakṣaṇáḥ ǀ jā́gṛviḥ ǀ devá-vītau ǁbhadrā ǀ vastrā ǀ samanyā ǀ vasānaḥ ǀ mahān ǀ kaviḥ ǀ ni-vacanāni ǀ śaṃsan ǀ
ā ǀ vacyasva ǀ camvoḥ ǀ pūyamānaḥ ǀ vi-cakṣaṇaḥ ǀ jāgṛviḥ ǀ deva-vītau ǁ9.97.2 Aṣṭaka 7.4.11.2Anuvāka 9.6.2
-
Ṛk 3
समु॑ प्रि॒यो मृ॑ज्यते॒ सानो॒ अव्ये॑ य॒शस्त॑रो य॒शसां॒ क्षैतो॑ अ॒स्मे ।
अ॒भि स्व॑र॒ धन्वा॑ पू॒यमा॑नो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥सम् उ प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे |
अभि स्वर धन्वा पूयमानो यूयम् पात स्वस्तिभिः सदा नः ||sámu priyó mṛjyate sā́no ávye yaśástaro yaśásām kṣáito asmé ǀ
abhí svara dhánvā pūyámāno yūyám pāta svastíbhiḥ sádā naḥ ǁsam u priyo mṛjyate sāno avye yaśastaro yaśasāṃ kṣaito asme |
abhi svara dhanvā pūyamāno yūyam pāta svastibhiḥ sadā naḥ ||सम् । ऊं॒ इति॑ । प्रि॒यः । मृ॒ज्य॒ते॒ । सानौ॑ । अव्ये॑ । य॒शःऽत॑रः । य॒शसा॑म् । क्षैतः॑ । अ॒स्मे इति॑ ।
अ॒भि । स्व॒र॒ । धन्व॑ । पू॒यमा॑नः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥सम् । ऊं इति । प्रियः । मृज्यते । सानौ । अव्ये । यशःऽतरः । यशसाम् । क्षैतः । अस्मे इति ।
अभि । स्वर । धन्व । पूयमानः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥sám ǀ ūṃ íti ǀ priyáḥ ǀ mṛjyate ǀ sā́nau ǀ ávye ǀ yaśáḥ-taraḥ ǀ yaśásām ǀ kṣáitaḥ ǀ asmé íti ǀ
abhí ǀ svara ǀ dhánva ǀ pūyámānaḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁsam ǀ ūṃ iti ǀ priyaḥ ǀ mṛjyate ǀ sānau ǀ avye ǀ yaśaḥ-taraḥ ǀ yaśasām ǀ kṣaitaḥ ǀ asme iti ǀ
abhi ǀ svara ǀ dhanva ǀ pūyamānaḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ9.97.3 Aṣṭaka 7.4.11.3Anuvāka 9.6.3
-
Ṛk 4
प्र गा॑यता॒भ्य॑र्चाम दे॒वान्त्सोमं॑ हिनोत मह॒ते धना॑य ।
स्वा॒दुः प॑वाते॒ अति॒ वार॒मव्य॒मा सी॑दाति क॒लशं॑ देव॒युर्नः॑ ॥प्र गायताभ्य् अर्चाम देवान् सोमं हिनोत महते धनाय |
स्वादुः पवाते अति वारम् अव्यम् आ सीदाति कलशं देवयुर् नः ||prá gāyatābhyárcāma devā́ntsómam hinota mahaté dhánāya ǀ
svādúḥ pavāte áti vā́ramávyamā́ sīdāti kaláśam devayúrnaḥ ǁpra gāyatābhy arcāma devān somaṃ hinota mahate dhanāya |
svāduḥ pavāte ati vāram avyam ā sīdāti kalaśaṃ devayur naḥ ||प्र । गा॒य॒त॒ । अ॒भि । अ॒र्चा॒म॒ । दे॒वान् । सोम॑म् । हि॒नो॒त॒ । म॒ह॒ते । धना॑य ।
स्वा॒दुः । प॒वा॒ते॒ । अति॑ । वार॑म् । अव्य॑म् । आ । सी॒दा॒ति॒ । क॒लश॑म् । दे॒व॒ऽयुः । नः॒ ॥प्र । गायत । अभि । अर्चाम । देवान् । सोमम् । हिनोत । महते । धनाय ।
स्वादुः । पवाते । अति । वारम् । अव्यम् । आ । सीदाति । कलशम् । देवऽयुः । नः ॥prá ǀ gāyata ǀ abhí ǀ arcāma ǀ devā́n ǀ sómam ǀ hinota ǀ mahaté ǀ dhánāya ǀ
svādúḥ ǀ pavāte ǀ áti ǀ vā́ram ǀ ávyam ǀ ā́ ǀ sīdāti ǀ kaláśam ǀ deva-yúḥ ǀ naḥ ǁpra ǀ gāyata ǀ abhi ǀ arcāma ǀ devān ǀ somam ǀ hinota ǀ mahate ǀ dhanāya ǀ
svāduḥ ǀ pavāte ǀ ati ǀ vāram ǀ avyam ǀ ā ǀ sīdāti ǀ kalaśam ǀ deva-yuḥ ǀ naḥ ǁ9.97.4 Aṣṭaka 7.4.11.4Anuvāka 9.6.4
-
Ṛk 5
इंदु॑र्दे॒वाना॒मुप॑ स॒ख्यमा॒यन्त्स॒हस्र॑धारः पवते॒ मदा॑य ।
नृभिः॒ स्तवा॑नो॒ अनु॒ धाम॒ पूर्व॒मग॒न्निंद्रं॑ मह॒ते सौभ॑गाय ॥इन्दुर् देवानाम् उप सख्यम् आयन् सहस्रधारः पवते मदाय |
नृभि स्तवानो अनु धाम पूर्वम् अगन्न् इन्द्रम् महते सौभगाय ||índurdevā́nāmúpa sakhyámāyántsahásradhāraḥ pavate mádāya ǀ
nṛ́bhiḥ stávāno ánu dhā́ma pū́rvamáganníndram mahaté sáubhagāya ǁindur devānām upa sakhyam āyan sahasradhāraḥ pavate madāya |
nṛbhi stavāno anu dhāma pūrvam agann indram mahate saubhagāya ||इन्दुः॑ । दे॒वाना॑म् । उप॑ । स॒ख्यम् । आ॒ऽयन् । स॒हस्र॑ऽधारः । प॒व॒ते॒ । मदा॑य ।
नृऽभिः॑ । स्तवा॑नः । अनु॑ । धाम॑ । पूर्व॑म् । अग॑न् । इन्द्र॑म् । म॒ह॒ते । सौभ॑गाय ॥इन्दुः । देवानाम् । उप । सख्यम् । आऽयन् । सहस्रऽधारः । पवते । मदाय ।
नृऽभिः । स्तवानः । अनु । धाम । पूर्वम् । अगन् । इन्द्रम् । महते । सौभगाय ॥índuḥ ǀ devā́nām ǀ úpa ǀ sakhyám ǀ ā-yán ǀ sahásra-dhāraḥ ǀ pavate ǀ mádāya ǀ
nṛ́-bhiḥ ǀ stávānaḥ ǀ ánu ǀ dhā́ma ǀ pū́rvam ǀ ágan ǀ índram ǀ mahaté ǀ sáubhagāya ǁinduḥ ǀ devānām ǀ upa ǀ sakhyam ǀ ā-yan ǀ sahasra-dhāraḥ ǀ pavate ǀ madāya ǀ
nṛ-bhiḥ ǀ stavānaḥ ǀ anu ǀ dhāma ǀ pūrvam ǀ agan ǀ indram ǀ mahate ǀ saubhagāya ǁ9.97.5 Aṣṭaka 7.4.11.5Anuvāka 9.6.5
-
Ṛk 6
स्तो॒त्रे रा॒ये हरि॑रर्षा पुना॒न इंद्रं॒ मदो॑ गच्छतु ते॒ भरा॑य ।
दे॒वैर्या॑हि स॒रथं॒ राधो॒ अच्छा॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥स्तोत्रे राये हरिर् अर्षा पुनान इन्द्रम् मदो गच्छतु ते भराय |
देवैर् याहि सरथं राधो अच्छा यूयम् पात स्वस्तिभिः सदा नः ||stotré rāyé hárirarṣā punāná índram mádo gacchatu te bhárāya ǀ
deváiryāhi sarátham rā́dho ácchā yūyám pāta svastíbhiḥ sádā naḥ ǁstotre rāye harir arṣā punāna indram mado gacchatu te bharāya |
devair yāhi sarathaṃ rādho acchā yūyam pāta svastibhiḥ sadā naḥ ||स्तो॒त्रे । रा॒ये । हरिः॑ । अ॒र्ष॒ । पु॒ना॒नः । इन्द्र॑म् । मदः॑ । ग॒च्छ॒तु॒ । ते॒ । भरा॑य ।
दे॒वैः । या॒हि॒ । स॒ऽरथ॑म् । राधः॑ । अच्छ॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥स्तोत्रे । राये । हरिः । अर्ष । पुनानः । इन्द्रम् । मदः । गच्छतु । ते । भराय ।
देवैः । याहि । सऽरथम् । राधः । अच्छ । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥stotré ǀ rāyé ǀ háriḥ ǀ arṣa ǀ punānáḥ ǀ índram ǀ mádaḥ ǀ gacchatu ǀ te ǀ bhárāya ǀ
deváiḥ ǀ yāhi ǀ sa-rátham ǀ rā́dhaḥ ǀ áccha ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁstotre ǀ rāye ǀ hariḥ ǀ arṣa ǀ punānaḥ ǀ indram ǀ madaḥ ǀ gacchatu ǀ te ǀ bharāya ǀ
devaiḥ ǀ yāhi ǀ sa-ratham ǀ rādhaḥ ǀ accha ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ9.97.6 Aṣṭaka 7.4.12.1Anuvāka 9.6.6
-
Ṛk 7
प्र काव्य॑मु॒शने॑व ब्रुवा॒णो दे॒वो दे॒वानां॒ जनि॑मा विवक्ति ।
महि॑व्रतः॒ शुचि॑बंधुः पाव॒कः प॒दा व॑रा॒हो अ॒भ्ये॑ति॒ रेभ॑न् ॥प्र काव्यम् उशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति |
महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्य् एति रेभन् ||prá kā́vyamuśáneva bruvāṇó devó devā́nām jánimā vivakti ǀ
máhivrataḥ śúcibandhuḥ pāvakáḥ padā́ varāhó abhyeti rébhan ǁpra kāvyam uśaneva bruvāṇo devo devānāṃ janimā vivakti |
mahivrataḥ śucibandhuḥ pāvakaḥ padā varāho abhy eti rebhan ||प्र । काव्य॑म् । उ॒शना॑ऽइव । ब्रु॒वा॒णः । दे॒वः । दे॒वाना॑म् । जनि॑म । वि॒व॒क्ति॒ ।
महि॑ऽव्रतः । शुचि॑ऽबन्धुः । पा॒व॒कः । प॒दा । व॒रा॒हः । अ॒भि । ए॒ति॒ । रेभ॑न् ॥प्र । काव्यम् । उशनाऽइव । ब्रुवाणः । देवः । देवानाम् । जनिम । विवक्ति ।
महिऽव्रतः । शुचिऽबन्धुः । पावकः । पदा । वराहः । अभि । एति । रेभन् ॥prá ǀ kā́vyam ǀ uśánā-iva ǀ bruvāṇáḥ ǀ deváḥ ǀ devā́nām ǀ jánima ǀ vivakti ǀ
máhi-vrataḥ ǀ śúci-bandhuḥ ǀ pāvakáḥ ǀ padā́ ǀ varāháḥ ǀ abhí ǀ eti ǀ rébhan ǁpra ǀ kāvyam ǀ uśanā-iva ǀ bruvāṇaḥ ǀ devaḥ ǀ devānām ǀ janima ǀ vivakti ǀ
mahi-vrataḥ ǀ śuci-bandhuḥ ǀ pāvakaḥ ǀ padā ǀ varāhaḥ ǀ abhi ǀ eti ǀ rebhan ǁ9.97.7 Aṣṭaka 7.4.12.2Anuvāka 9.6.7
-
Ṛk 8
प्र हं॒सास॑स्तृ॒पलं॑ म॒न्युमच्छा॒मादस्तं॒ वृष॑गणा अयासुः ।
आं॒गू॒ष्यं१॒॑ पव॑मानं॒ सखा॑यो दु॒र्मर्षं॑ सा॒कं प्र व॑दंति वा॒णं ॥प्र हंसासस् तृपलम् मन्युम् अच्छामाद् अस्तं वृषगणा अयासुः |
आङ्गूष्यम् पवमानं सखायो दुर्मर्षं साकम् प्र वदन्ति वाणम् ||prá haṃsā́sastṛpálam manyúmácchāmā́dástam vṛ́ṣagaṇā ayāsuḥ ǀ
āṅgūṣyám pávamānam sákhāyo durmárṣam sākám prá vadanti vāṇám ǁpra haṃsāsas tṛpalam manyum acchāmād astaṃ vṛṣagaṇā ayāsuḥ |
āṅgūṣyam pavamānaṃ sakhāyo durmarṣaṃ sākam pra vadanti vāṇam ||प्र । हं॒सासः॑ । तृ॒पल॑म् । म॒न्युम् । अच्छ॑ । अ॒मात् । अस्त॑म् । वृष॑ऽगणाः । अ॒या॒सुः॒ ।
आ॒ङ्गू॒ष्य॑म् । पव॑मानम् । सखा॑यः । दुः॒ऽमर्ष॑म् । सा॒कम् । प्र । व॒द॒न्ति॒ । वा॒णम् ॥प्र । हंसासः । तृपलम् । मन्युम् । अच्छ । अमात् । अस्तम् । वृषऽगणाः । अयासुः ।
आङ्गूष्यम् । पवमानम् । सखायः । दुःऽमर्षम् । साकम् । प्र । वदन्ति । वाणम् ॥prá ǀ haṃsā́saḥ ǀ tṛpálam ǀ manyúm ǀ áccha ǀ amā́t ǀ ástam ǀ vṛ́ṣa-gaṇāḥ ǀ ayāsuḥ ǀ
āṅgūṣyám ǀ pávamānam ǀ sákhāyaḥ ǀ duḥ-márṣam ǀ sākám ǀ prá ǀ vadanti ǀ vāṇám ǁpra ǀ haṃsāsaḥ ǀ tṛpalam ǀ manyum ǀ accha ǀ amāt ǀ astam ǀ vṛṣa-gaṇāḥ ǀ ayāsuḥ ǀ
āṅgūṣyam ǀ pavamānam ǀ sakhāyaḥ ǀ duḥ-marṣam ǀ sākam ǀ pra ǀ vadanti ǀ vāṇam ǁ9.97.8 Aṣṭaka 7.4.12.3Anuvāka 9.6.8
-
Ṛk 9
स रं॑हत उरुगा॒यस्य॑ जू॒तिं वृथा॒ क्रीळं॑तं मिमते॒ न गावः॑ ।
प॒री॒ण॒सं कृ॑णुते ति॒ग्मशृं॑गो॒ दिवा॒ हरि॒र्ददृ॑शे॒ नक्त॑मृ॒ज्रः ॥स रंहत उरुगायस्य जूतिं वृथा क्रीऌअन्तम् मिमते न गावः |
परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर् ददृशे नक्तम् ऋज्रः ||sá raṃhata urugāyásya jūtím vṛ́thā krī́ḷantam mimate ná gā́vaḥ ǀ
parīṇasám kṛṇute tigmáśṛṅgo dívā hárirdádṛśe náktamṛjráḥ ǁsa raṃhata urugāyasya jūtiṃ vṛthā krīḷantam mimate na gāvaḥ |
parīṇasaṃ kṛṇute tigmaśṛṅgo divā harir dadṛśe naktam ṛjraḥ ||सः । रं॒ह॒ते॒ । उ॒रु॒ऽगा॒यस्य॑ । जू॒तिम् । वृथा॑ । क्रीळ॑न्तम् । मि॒म॒ते॒ । न । गावः॑ ।
प॒री॒ण॒सम् । कृ॒णु॒ते॒ । ति॒ग्मऽशृ॑ङ्गः । दिवा॑ । हरिः॑ । ददृ॑शे । नक्त॑म् । ऋ॒ज्रः ॥सः । रंहते । उरुऽगायस्य । जूतिम् । वृथा । क्रीळन्तम् । मिमते । न । गावः ।
परीणसम् । कृणुते । तिग्मऽशृङ्गः । दिवा । हरिः । ददृशे । नक्तम् । ऋज्रः ॥sáḥ ǀ raṃhate ǀ uru-gāyásya ǀ jūtím ǀ vṛ́thā ǀ krī́ḷantam ǀ mimate ǀ ná ǀ gā́vaḥ ǀ
parīṇasám ǀ kṛṇute ǀ tigmá-śṛṅgaḥ ǀ dívā ǀ háriḥ ǀ dádṛśe ǀ náktam ǀ ṛjráḥ ǁsaḥ ǀ raṃhate ǀ uru-gāyasya ǀ jūtim ǀ vṛthā ǀ krīḷantam ǀ mimate ǀ na ǀ gāvaḥ ǀ
parīṇasam ǀ kṛṇute ǀ tigma-śṛṅgaḥ ǀ divā ǀ hariḥ ǀ dadṛśe ǀ naktam ǀ ṛjraḥ ǁ9.97.9 Aṣṭaka 7.4.12.4Anuvāka 9.6.9
-
Ṛk 10
इंदु॑र्वा॒जी प॑वते॒ गोन्यो॑घा॒ इंद्रे॒ सोमः॒ सह॒ इन्व॒न्मदा॑य ।
हंति॒ रक्षो॒ बाध॑ते॒ पर्यरा॑ती॒र्वरि॑वः कृ॒ण्वन्वृ॒जन॑स्य॒ राजा॑ ॥इन्दुर् वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन् मदाय |
हन्ति रक्षो बाधते पर्य् अरातीर् वरिवः कृण्वन् वृजनस्य राजा ||índurvājī́ pavate gónyoghā índre sómaḥ sáha ínvanmádāya ǀ
hánti rákṣo bā́dhate páryárātīrvárivaḥ kṛṇvánvṛjánasya rā́jā ǁindur vājī pavate gonyoghā indre somaḥ saha invan madāya |
hanti rakṣo bādhate pary arātīr varivaḥ kṛṇvan vṛjanasya rājā ||इन्दुः॑ । वा॒जी । प॒व॒ते॒ । गोऽन्यो॑घाः । इन्द्रे॑ । सोमः॑ । सहः॑ । इन्व॑न् । मदा॑य ।
हन्ति॑ । रक्षः॑ । बाध॑ते । परि॑ । अरा॑तीः । वरि॑वः । कृ॒ण्वन् । वृ॒जन॑स्य । राजा॑ ॥इन्दुः । वाजी । पवते । गोऽन्योघाः । इन्द्रे । सोमः । सहः । इन्वन् । मदाय ।
हन्ति । रक्षः । बाधते । परि । अरातीः । वरिवः । कृण्वन् । वृजनस्य । राजा ॥índuḥ ǀ vājī́ ǀ pavate ǀ gó-nyoghāḥ ǀ índre ǀ sómaḥ ǀ sáhaḥ ǀ ínvan ǀ mádāya ǀ
hánti ǀ rákṣaḥ ǀ bā́dhate ǀ pári ǀ árātīḥ ǀ várivaḥ ǀ kṛṇván ǀ vṛjánasya ǀ rā́jā ǁinduḥ ǀ vājī ǀ pavate ǀ go-nyoghāḥ ǀ indre ǀ somaḥ ǀ sahaḥ ǀ invan ǀ madāya ǀ
hanti ǀ rakṣaḥ ǀ bādhate ǀ pari ǀ arātīḥ ǀ varivaḥ ǀ kṛṇvan ǀ vṛjanasya ǀ rājā ǁ9.97.10 Aṣṭaka 7.4.12.5Anuvāka 9.6.10
-
Ṛk 11
अध॒ धार॑या॒ मध्वा॑ पृचा॒नस्ति॒रो रोम॑ पवते॒ अद्रि॑दुग्धः ।
इंदु॒रिंद्र॑स्य स॒ख्यं जु॑षा॒णो दे॒वो दे॒वस्य॑ मत्स॒रो मदा॑य ॥अध धारया मध्वा पृचानस् तिरो रोम पवते अद्रिदुग्धः |
इन्दुर् इन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ||ádha dhā́rayā mádhvā pṛcānástiró róma pavate ádridugdhaḥ ǀ
índuríndrasya sakhyám juṣāṇó devó devásya matsaró mádāya ǁadha dhārayā madhvā pṛcānas tiro roma pavate adridugdhaḥ |
indur indrasya sakhyaṃ juṣāṇo devo devasya matsaro madāya ||अध॑ । धार॑या । मध्वा॑ । पृ॒चा॒नः । ति॒रः । रोम॑ । प॒व॒ते॒ । अद्रि॑ऽदुग्धः ।
इन्दुः॑ । इन्द्र॑स्य । स॒ख्यम् । जु॒षा॒णः । दे॒वः । दे॒वस्य॑ । म॒त्स॒रः । मदा॑य ॥अध । धारया । मध्वा । पृचानः । तिरः । रोम । पवते । अद्रिऽदुग्धः ।
इन्दुः । इन्द्रस्य । सख्यम् । जुषाणः । देवः । देवस्य । मत्सरः । मदाय ॥ádha ǀ dhā́rayā ǀ mádhvā ǀ pṛcānáḥ ǀ tiráḥ ǀ róma ǀ pavate ǀ ádri-dugdhaḥ ǀ
índuḥ ǀ índrasya ǀ sakhyám ǀ juṣāṇáḥ ǀ deváḥ ǀ devásya ǀ matsaráḥ ǀ mádāya ǁadha ǀ dhārayā ǀ madhvā ǀ pṛcānaḥ ǀ tiraḥ ǀ roma ǀ pavate ǀ adri-dugdhaḥ ǀ
induḥ ǀ indrasya ǀ sakhyam ǀ juṣāṇaḥ ǀ devaḥ ǀ devasya ǀ matsaraḥ ǀ madāya ǁ9.97.11 Aṣṭaka 7.4.13.1Anuvāka 9.6.11
-
Ṛk 12
अ॒भि प्रि॒याणि॑ पवते पुना॒नो दे॒वो दे॒वान्त्स्वेन॒ रसे॑न पृं॒चन् ।
इंदु॒र्धर्मा॑ण्यृतु॒था वसा॑नो॒ दश॒ क्षिपो॑ अव्यत॒ सानो॒ अव्ये॑ ॥अभि प्रियाणि पवते पुनानो देवो देवान् स्वेन रसेन पृञ्चन् |
इन्दुर् धर्माण्य् ऋतुथा वसानो दश क्षिपो अव्यत सानो अव्ये ||abhí priyā́ṇi pavate punānó devó devā́ntsvéna rásena pṛñcán ǀ
índurdhármāṇyṛtuthā́ vásāno dáśa kṣípo avyata sā́no ávye ǁabhi priyāṇi pavate punāno devo devān svena rasena pṛñcan |
indur dharmāṇy ṛtuthā vasāno daśa kṣipo avyata sāno avye ||अ॒भि । प्रि॒याणि॑ । प॒व॒ते॒ । पु॒ना॒नः । दे॒वः । दे॒वान् । स्वेन॑ । रसे॑न । पृ॒ञ्चन् ।
इन्दुः॑ । धर्मा॑णि । ऋ॒तु॒ऽथा । वसा॑नः । दश॑ । क्षिपः॑ । अ॒व्य॒त॒ । सानौ॑ । अव्ये॑ ॥अभि । प्रियाणि । पवते । पुनानः । देवः । देवान् । स्वेन । रसेन । पृञ्चन् ।
इन्दुः । धर्माणि । ऋतुऽथा । वसानः । दश । क्षिपः । अव्यत । सानौ । अव्ये ॥abhí ǀ priyā́ṇi ǀ pavate ǀ punānáḥ ǀ deváḥ ǀ devā́n ǀ svéna ǀ rásena ǀ pṛñcán ǀ
índuḥ ǀ dhármāṇi ǀ ṛtu-thā́ ǀ vásānaḥ ǀ dáśa ǀ kṣípaḥ ǀ avyata ǀ sā́nau ǀ ávye ǁabhi ǀ priyāṇi ǀ pavate ǀ punānaḥ ǀ devaḥ ǀ devān ǀ svena ǀ rasena ǀ pṛñcan ǀ
induḥ ǀ dharmāṇi ǀ ṛtu-thā ǀ vasānaḥ ǀ daśa ǀ kṣipaḥ ǀ avyata ǀ sānau ǀ avye ǁ9.97.12 Aṣṭaka 7.4.13.2Anuvāka 9.6.12
-
Ṛk 13
वृषा॒ शोणो॑ अभि॒कनि॑क्रद॒द्गा न॒दय॑न्नेति पृथि॒वीमु॒त द्यां ।
इंद्र॑स्येव व॒ग्नुरा शृ॑ण्व आ॒जौ प्र॑चे॒तय॑न्नर्षति॒ वाच॒मेमां ॥वृषा शोणो अभिकनिक्रदद् गा नदयन्न् एति पृथिवीम् उत द्याम् |
इन्द्रस्येव वग्नुर् आ शृण्व आजौ प्रचेतयन्न् अर्षति वाचम् एमाम् ||vṛ́ṣā śóṇo abhikánikradadgā́ nadáyanneti pṛthivī́mutá dyā́m ǀ
índrasyeva vagnúrā́ śṛṇva ājáu pracetáyannarṣati vā́camémā́m ǁvṛṣā śoṇo abhikanikradad gā nadayann eti pṛthivīm uta dyām |
indrasyeva vagnur ā śṛṇva ājau pracetayann arṣati vācam emām ||वृषा॑ । शोणः॑ । अ॒भि॒ऽकनि॑क्रदत् । गाः । न॒दय॑न् । ए॒ति॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ।
इन्द्र॑स्यऽइव । व॒ग्नुः । आ । शृ॒ण्वे॒ । आ॒जौ । प्र॒ऽचे॒तय॑न् । अ॒र्ष॒ति॒ । वाच॑म् । आ । इ॒माम् ॥वृषा । शोणः । अभिऽकनिक्रदत् । गाः । नदयन् । एति । पृथिवीम् । उत । द्याम् ।
इन्द्रस्यऽइव । वग्नुः । आ । शृण्वे । आजौ । प्रऽचेतयन् । अर्षति । वाचम् । आ । इमाम् ॥vṛ́ṣā ǀ śóṇaḥ ǀ abhi-kánikradat ǀ gā́ḥ ǀ nadáyan ǀ eti ǀ pṛthivī́m ǀ utá ǀ dyā́m ǀ
índrasya-iva ǀ vagnúḥ ǀ ā́ ǀ śṛṇve ǀ ājáu ǀ pra-cetáyan ǀ arṣati ǀ vā́cam ǀ ā́ ǀ imā́m ǁvṛṣā ǀ śoṇaḥ ǀ abhi-kanikradat ǀ gāḥ ǀ nadayan ǀ eti ǀ pṛthivīm ǀ uta ǀ dyām ǀ
indrasya-iva ǀ vagnuḥ ǀ ā ǀ śṛṇve ǀ ājau ǀ pra-cetayan ǀ arṣati ǀ vācam ǀ ā ǀ imām ǁ9.97.13 Aṣṭaka 7.4.13.3Anuvāka 9.6.13
-
Ṛk 14
र॒साय्यः॒ पय॑सा॒ पिन्व॑मान ई॒रय॑न्नेषि॒ मधु॑मंतमं॒शुं ।
पव॑मानः संत॒निमे॑षि कृ॒ण्वन्निंद्रा॑य सोम परिषि॒च्यमा॑नः ॥रसाय्यः पयसा पिन्वमान ईरयन्न् एषि मधुमन्तम् अंशुम् |
पवमानः संतनिम् एषि कृण्वन्न् इन्द्राय सोम परिषिच्यमानः ||rasā́yyaḥ páyasā pínvamāna īráyanneṣi mádhumantamaṃśúm ǀ
pávamānaḥ saṃtanímeṣi kṛṇvánníndrāya soma pariṣicyámānaḥ ǁrasāyyaḥ payasā pinvamāna īrayann eṣi madhumantam aṃśum |
pavamānaḥ saṃtanim eṣi kṛṇvann indrāya soma pariṣicyamānaḥ ||र॒साय्यः॑ । पय॑सा । पिन्व॑मानः । ई॒रय॑न् । ए॒षि॒ । मधु॑ऽमन्तम् । अं॒शुम् ।
पव॑मानः । स॒म्ऽत॒निम् । ए॒षि॒ । कृ॒ण्वन् । इन्द्रा॑य । सो॒म॒ । प॒रि॒ऽसि॒च्यमा॑नः ॥रसाय्यः । पयसा । पिन्वमानः । ईरयन् । एषि । मधुऽमन्तम् । अंशुम् ।
पवमानः । सम्ऽतनिम् । एषि । कृण्वन् । इन्द्राय । सोम । परिऽसिच्यमानः ॥rasā́yyaḥ ǀ páyasā ǀ pínvamānaḥ ǀ īráyan ǀ eṣi ǀ mádhu-mantam ǀ aṃśúm ǀ
pávamānaḥ ǀ sam-taním ǀ eṣi ǀ kṛṇván ǀ índrāya ǀ soma ǀ pari-sicyámānaḥ ǁrasāyyaḥ ǀ payasā ǀ pinvamānaḥ ǀ īrayan ǀ eṣi ǀ madhu-mantam ǀ aṃśum ǀ
pavamānaḥ ǀ sam-tanim ǀ eṣi ǀ kṛṇvan ǀ indrāya ǀ soma ǀ pari-sicyamānaḥ ǁ9.97.14 Aṣṭaka 7.4.13.4Anuvāka 9.6.14
-
Ṛk 15
ए॒वा प॑वस्व मदि॒रो मदा॑योदग्रा॒भस्य॑ न॒मय॑न्वध॒स्नैः ।
परि॒ वर्णं॒ भर॑माणो॒ रुशं॑तं ग॒व्युर्नो॑ अर्ष॒ परि॑ सोम सि॒क्तः ॥एवा पवस्व मदिरो मदायोदग्राभस्य नमयन् वधस्नैः |
परि वर्णम् भरमाणो रुशन्तं गव्युर् नो अर्ष परि सोम सिक्तः ||evā́ pavasva madiró mádāyodagrābhásya namáyanvadhasnáiḥ ǀ
pári várṇam bháramāṇo rúśantam gavyúrno arṣa pári soma siktáḥ ǁevā pavasva madiro madāyodagrābhasya namayan vadhasnaiḥ |
pari varṇam bharamāṇo ruśantaṃ gavyur no arṣa pari soma siktaḥ ||ए॒व । प॒व॒स्व॒ । म॒दि॒रः । मदा॑य । उ॒द॒ऽग्रा॒भस्य॑ । न॒मय॑न् । व॒ध॒ऽस्नैः ।
परि॑ । वर्ण॑म् । भर॑माणः । रुश॑न्तम् । ग॒व्युः । नः॒ । अ॒र्ष॒ । परि॑ । सो॒म॒ । सि॒क्तः ॥एव । पवस्व । मदिरः । मदाय । उदऽग्राभस्य । नमयन् । वधऽस्नैः ।
परि । वर्णम् । भरमाणः । रुशन्तम् । गव्युः । नः । अर्ष । परि । सोम । सिक्तः ॥evá ǀ pavasva ǀ madiráḥ ǀ mádāya ǀ uda-grābhásya ǀ namáyan ǀ vadha-snáiḥ ǀ
pári ǀ várṇam ǀ bháramāṇaḥ ǀ rúśantam ǀ gavyúḥ ǀ naḥ ǀ arṣa ǀ pári ǀ soma ǀ siktáḥ ǁeva ǀ pavasva ǀ madiraḥ ǀ madāya ǀ uda-grābhasya ǀ namayan ǀ vadha-snaiḥ ǀ
pari ǀ varṇam ǀ bharamāṇaḥ ǀ ruśantam ǀ gavyuḥ ǀ naḥ ǀ arṣa ǀ pari ǀ soma ǀ siktaḥ ǁ9.97.15 Aṣṭaka 7.4.13.5Anuvāka 9.6.15
-
Ṛk 16
जु॒ष्ट्वी न॑ इंदो सु॒पथा॑ सु॒गान्यु॒रौ प॑वस्व॒ वरि॑वांसि कृ॒ण्वन् ।
घ॒नेव॒ विष्व॑ग्दुरि॒तानि॑ वि॒घ्नन्नधि॒ ष्णुना॑ धन्व॒ सानो॒ अव्ये॑ ॥जुष्ट्वी न इन्दो सुपथा सुगान्य् उरौ पवस्व वरिवांसि कृण्वन् |
घनेव विष्वग् दुरितानि विघ्नन्न् अधि ष्णुना धन्व सानो अव्ये ||juṣṭvī́ na indo supáthā sugā́nyuráu pavasva várivāṃsi kṛṇván ǀ
ghanéva víṣvagduritā́ni vighnánnádhi ṣṇúnā dhanva sā́no ávye ǁjuṣṭvī na indo supathā sugāny urau pavasva varivāṃsi kṛṇvan |
ghaneva viṣvag duritāni vighnann adhi ṣṇunā dhanva sāno avye ||जु॒ष्ट्वी । नः॒ । इ॒न्दो॒ इति॑ । सु॒ऽपथा॑ । सु॒ऽगानि॑ । उ॒रौ । प॒व॒स्व॒ । वरि॑वांसि । कृ॒ण्वन् ।
घ॒नाऽइ॑व । विष्व॑क् । दुः॒ऽइ॒तानि॑ । वि॒ऽघ्नन् । अधि॑ । स्नुना॑ । ध॒न्व॒ । सानौ॑ । अव्ये॑ ॥जुष्ट्वी । नः । इन्दो इति । सुऽपथा । सुऽगानि । उरौ । पवस्व । वरिवांसि । कृण्वन् ।
घनाऽइव । विष्वक् । दुःऽइतानि । विऽघ्नन् । अधि । स्नुना । धन्व । सानौ । अव्ये ॥juṣṭvī́ ǀ naḥ ǀ indo íti ǀ su-páthā ǀ su-gā́ni ǀ uráu ǀ pavasva ǀ várivāṃsi ǀ kṛṇván ǀ
ghanā́-iva ǀ víṣvak ǀ duḥ-itā́ni ǀ vi-ghnán ǀ ádhi ǀ snúnā ǀ dhanva ǀ sā́nau ǀ ávye ǁjuṣṭvī ǀ naḥ ǀ indo iti ǀ su-pathā ǀ su-gāni ǀ urau ǀ pavasva ǀ varivāṃsi ǀ kṛṇvan ǀ
ghanā-iva ǀ viṣvak ǀ duḥ-itāni ǀ vi-ghnan ǀ adhi ǀ snunā ǀ dhanva ǀ sānau ǀ avye ǁ9.97.16 Aṣṭaka 7.4.14.1Anuvāka 9.6.16
-
Ṛk 17
वृ॒ष्टिं नो॑ अर्ष दि॒व्यां जि॑ग॒त्नुमिळा॑वतीं शं॒गयीं॑ जी॒रदा॑नुं ।
स्तुके॑व वी॒ता ध॑न्वा विचि॒न्वन्बंधूँ॑रि॒माँ अव॑राँ इंदो वा॒यून् ॥वृष्टिं नो अर्ष दिव्यां जिगत्नुम् इऌआवतीं शङ्गयीं जीरदानुम् |
स्तुकेव वीता धन्वा विचिन्वन् बन्धूंर् इमां अवरां इन्दो वायून् ||vṛṣṭím no arṣa divyā́m jigatnúmíḷāvatīm śaṃgáyīm jīrádānum ǀ
stúkeva vītā́ dhanvā vicinvánbándhūm̐rimā́m̐ ávarām̐ indo vāyū́n ǁvṛṣṭiṃ no arṣa divyāṃ jigatnum iḷāvatīṃ śaṅgayīṃ jīradānum |
stukeva vītā dhanvā vicinvan bandhūṃr imāṃ avarāṃ indo vāyūn ||वृ॒ष्टिम् । नः॒ । अ॒र्ष॒ । दि॒व्याम् । जि॒ग॒त्नुम् । इळा॑ऽवतीम् । श॒म्ऽगयी॑म् । जी॒रऽदा॑नुम् ।
स्तुका॑ऽइव । वी॒ता । ध॒न्व॒ । वि॒ऽचि॒न्वन् । बन्धू॑न् । इ॒मान् । अव॑रान् । इ॒न्दो॒ इति॑ । वा॒यून् ॥वृष्टिम् । नः । अर्ष । दिव्याम् । जिगत्नुम् । इळाऽवतीम् । शम्ऽगयीम् । जीरऽदानुम् ।
स्तुकाऽइव । वीता । धन्व । विऽचिन्वन् । बन्धून् । इमान् । अवरान् । इन्दो इति । वायून् ॥vṛṣṭím ǀ naḥ ǀ arṣa ǀ divyā́m ǀ jigatnúm ǀ íḷā-vatīm ǀ śam-gáyīm ǀ jīrá-dānum ǀ
stúkā-iva ǀ vītā́ ǀ dhanva ǀ vi-cinván ǀ bándhūn ǀ imā́n ǀ ávarān ǀ indo íti ǀ vāyū́n ǁvṛṣṭim ǀ naḥ ǀ arṣa ǀ divyām ǀ jigatnum ǀ iḷā-vatīm ǀ śam-gayīm ǀ jīra-dānum ǀ
stukā-iva ǀ vītā ǀ dhanva ǀ vi-cinvan ǀ bandhūn ǀ imān ǀ avarān ǀ indo iti ǀ vāyūn ǁ9.97.17 Aṣṭaka 7.4.14.2Anuvāka 9.6.17
-
Ṛk 18
ग्रं॒थिं न वि ष्य॑ ग्रथि॒तं पु॑ना॒न ऋ॒जुं च॑ गा॒तुं वृ॑जि॒नं च॑ सोम ।
अत्यो॒ न क्र॑दो॒ हरि॒रा सृ॑जा॒नो मर्यो॑ देव धन्व प॒स्त्या॑वान् ॥ग्रन्थिं न वि ष्य ग्रथितम् पुनान ऋजुं च गातुं वृजिनं च सोम |
अत्यो न क्रदो हरिर् आ सृजानो मर्यो देव धन्व पस्त्यावान् ||granthím ná ví ṣya grathitám punāná ṛjúm ca gātúm vṛjinám ca soma ǀ
átyo ná krado hárirā́ sṛjānó máryo deva dhanva pastyā́vān ǁgranthiṃ na vi ṣya grathitam punāna ṛjuṃ ca gātuṃ vṛjinaṃ ca soma |
atyo na krado harir ā sṛjāno maryo deva dhanva pastyāvān ||ग्र॒न्थिम् । न । वि । स्य॒ । ग्र॒थि॒तम् । पु॒ना॒नः । ऋ॒जुम् । च॒ । गा॒तुम् । वृ॒जि॒नम् । च॒ । सो॒म॒ ।
अत्यः॑ । न । क्र॒दः॒ । हरिः॑ । आ । सृ॒जा॒नः । मर्यः॑ । दे॒व॒ । ध॒न्व॒ । प॒स्त्य॑ऽवान् ॥ग्रन्थिम् । न । वि । स्य । ग्रथितम् । पुनानः । ऋजुम् । च । गातुम् । वृजिनम् । च । सोम ।
अत्यः । न । क्रदः । हरिः । आ । सृजानः । मर्यः । देव । धन्व । पस्त्यऽवान् ॥granthím ǀ ná ǀ ví ǀ sya ǀ grathitám ǀ punānáḥ ǀ ṛjúm ǀ ca ǀ gātúm ǀ vṛjinám ǀ ca ǀ soma ǀ
átyaḥ ǀ ná ǀ kradaḥ ǀ háriḥ ǀ ā́ ǀ sṛjānáḥ ǀ máryaḥ ǀ deva ǀ dhanva ǀ pastyá-vān ǁgranthim ǀ na ǀ vi ǀ sya ǀ grathitam ǀ punānaḥ ǀ ṛjum ǀ ca ǀ gātum ǀ vṛjinam ǀ ca ǀ soma ǀ
atyaḥ ǀ na ǀ kradaḥ ǀ hariḥ ǀ ā ǀ sṛjānaḥ ǀ maryaḥ ǀ deva ǀ dhanva ǀ pastya-vān ǁ9.97.18 Aṣṭaka 7.4.14.3Anuvāka 9.6.18
-
Ṛk 19
जुष्टो॒ मदा॑य दे॒वता॑त इंदो॒ परि॒ ष्णुना॑ धन्व॒ सानो॒ अव्ये॑ ।
स॒हस्र॑धारः सुर॒भिरद॑ब्धः॒ परि॑ स्रव॒ वाज॑सातौ नृ॒षह्ये॑ ॥जुष्टो मदाय देवतात इन्दो परि ष्णुना धन्व सानो अव्ये |
सहस्रधारः सुरभिर् अदब्धः परि स्रव वाजसातौ नृषह्ये ||júṣṭo mádāya devátāta indo pári ṣṇúnā dhanva sā́no ávye ǀ
sahásradhāraḥ surabhírádabdhaḥ pári srava vā́jasātau nṛṣáhye ǁjuṣṭo madāya devatāta indo pari ṣṇunā dhanva sāno avye |
sahasradhāraḥ surabhir adabdhaḥ pari srava vājasātau nṛṣahye ||जुष्टः॑ । मदा॑य । दे॒वऽता॑ते । इ॒न्दो॒ इति॑ । परि॑ । स्नुना॑ । ध॒न्व॒ । सानौ॑ । अव्ये॑ ।
स॒हस्र॑ऽधारः । सु॒ऽर॒भिः । अद॑ब्धः । परि॑ । स्र॒व॒ । वाज॑ऽसातौ । नृ॒ऽसह्ये॑ ॥जुष्टः । मदाय । देवऽताते । इन्दो इति । परि । स्नुना । धन्व । सानौ । अव्ये ।
सहस्रऽधारः । सुऽरभिः । अदब्धः । परि । स्रव । वाजऽसातौ । नृऽसह्ये ॥júṣṭaḥ ǀ mádāya ǀ devá-tāte ǀ indo íti ǀ pári ǀ snúnā ǀ dhanva ǀ sā́nau ǀ ávye ǀ
sahásra-dhāraḥ ǀ su-rabhíḥ ǀ ádabdhaḥ ǀ pári ǀ srava ǀ vā́ja-sātau ǀ nṛ-sáhye ǁjuṣṭaḥ ǀ madāya ǀ deva-tāte ǀ indo iti ǀ pari ǀ snunā ǀ dhanva ǀ sānau ǀ avye ǀ
sahasra-dhāraḥ ǀ su-rabhiḥ ǀ adabdhaḥ ǀ pari ǀ srava ǀ vāja-sātau ǀ nṛ-sahye ǁ9.97.19 Aṣṭaka 7.4.14.4Anuvāka 9.6.19
-
Ṛk 20
अ॒र॒श्मानो॒ ये॑ऽर॒था अयु॑क्ता॒ अत्या॑सो॒ न स॑सृजा॒नास॑ आ॒जौ ।
ए॒ते शु॒क्रासो॑ धन्वंति॒ सोमा॒ देवा॑स॒स्ताँ उप॑ याता॒ पिब॑ध्यै ॥अरश्मानो ये ऽरथा अयुक्ता अत्यासो न ससृजानास आजौ |
एते शुक्रासो धन्वन्ति सोमा देवासस् तां उप याता पिबध्यै ||araśmā́no ye’rathā́ áyuktā átyāso ná sasṛjānā́sa ājáu ǀ
eté śukrā́so dhanvanti sómā dévāsastā́m̐ úpa yātā píbadhyai ǁaraśmāno ye 'rathā ayuktā atyāso na sasṛjānāsa ājau |
ete śukrāso dhanvanti somā devāsas tāṃ upa yātā pibadhyai ||अ॒र॒श्मानः॑ । ये । अ॒र॒थाः । अयु॑क्ताः । अत्या॑सः । न । स॒सृ॒जा॒नासः॑ । आ॒जौ ।
ए॒ते । शु॒क्रासः॑ । ध॒न्व॒न्ति॒ । सोमाः॑ । देवा॑सः । तान् । उप॑ । या॒त॒ । पिब॑ध्यै ॥अरश्मानः । ये । अरथाः । अयुक्ताः । अत्यासः । न । ससृजानासः । आजौ ।
एते । शुक्रासः । धन्वन्ति । सोमाः । देवासः । तान् । उप । यात । पिबध्यै ॥araśmā́naḥ ǀ yé ǀ arathā́ḥ ǀ áyuktāḥ ǀ átyāsaḥ ǀ ná ǀ sasṛjānā́saḥ ǀ ājáu ǀ
eté ǀ śukrā́saḥ ǀ dhanvanti ǀ sómāḥ ǀ dévāsaḥ ǀ tā́n ǀ úpa ǀ yāta ǀ píbadhyai ǁaraśmānaḥ ǀ ye ǀ arathāḥ ǀ ayuktāḥ ǀ atyāsaḥ ǀ na ǀ sasṛjānāsaḥ ǀ ājau ǀ
ete ǀ śukrāsaḥ ǀ dhanvanti ǀ somāḥ ǀ devāsaḥ ǀ tān ǀ upa ǀ yāta ǀ pibadhyai ǁ9.97.20 Aṣṭaka 7.4.14.5Anuvāka 9.6.20
-
Ṛk 21
ए॒वा न॑ इंदो अ॒भि दे॒ववी॑तिं॒ परि॑ स्रव॒ नभो॒ अर्ण॑श्च॒मूषु॑ ।
सोमो॑ अ॒स्मभ्यं॒ काम्यं॑ बृ॒हंतं॑ र॒यिं द॑दातु वी॒रवं॑तमु॒ग्रं ॥एवा न इन्दो अभि देववीतिम् परि स्रव नभो अर्णश् चमूषु |
सोमो अस्मभ्यं काम्यम् बृहन्तं रयिं ददातु वीरवन्तम् उग्रम् ||evā́ na indo abhí devávītim pári srava nábho árṇaścamū́ṣu ǀ
sómo asmábhyam kā́myam bṛhántam rayím dadātu vīrávantamugrám ǁevā na indo abhi devavītim pari srava nabho arṇaś camūṣu |
somo asmabhyaṃ kāmyam bṛhantaṃ rayiṃ dadātu vīravantam ugram ||ए॒व । नः॒ । इ॒न्दो॒ इति॑ । अ॒भि । दे॒वऽवी॑तिम् । परि॑ । स्र॒व॒ । नभः॑ । अर्णः॑ । च॒मूषु॑ ।
सोमः॑ । अ॒स्मभ्य॑म् । काम्य॑म् । बृ॒हन्त॑म् । र॒यिम् । द॒दा॒तु॒ । वी॒रऽव॑न्तम् । उ॒ग्रम् ॥एव । नः । इन्दो इति । अभि । देवऽवीतिम् । परि । स्रव । नभः । अर्णः । चमूषु ।
सोमः । अस्मभ्यम् । काम्यम् । बृहन्तम् । रयिम् । ददातु । वीरऽवन्तम् । उग्रम् ॥evá ǀ naḥ ǀ indo íti ǀ abhí ǀ devá-vītim ǀ pári ǀ srava ǀ nábhaḥ ǀ árṇaḥ ǀ camū́ṣu ǀ
sómaḥ ǀ asmábhyam ǀ kā́myam ǀ bṛhántam ǀ rayím ǀ dadātu ǀ vīrá-vantam ǀ ugrám ǁeva ǀ naḥ ǀ indo iti ǀ abhi ǀ deva-vītim ǀ pari ǀ srava ǀ nabhaḥ ǀ arṇaḥ ǀ camūṣu ǀ
somaḥ ǀ asmabhyam ǀ kāmyam ǀ bṛhantam ǀ rayim ǀ dadātu ǀ vīra-vantam ǀ ugram ǁ9.97.21 Aṣṭaka 7.4.15.1Anuvāka 9.6.21
-
Ṛk 22
तक्ष॒द्यदी॒ मन॑सो॒ वेन॑तो॒ वाग्ज्येष्ठ॑स्य वा॒ धर्म॑णि॒ क्षोरनी॑के ।
आदी॑माय॒न्वर॒मा वा॑वशा॒ना जुष्टं॒ पतिं॑ क॒लशे॒ गाव॒ इंदुं॑ ॥तक्षद् यदी मनसो वेनतो वाग् ज्येष्ठस्य वा धर्मणि क्षोर् अनीके |
आद् ईम् आयन् वरम् आ वावशाना जुष्टम् पतिं कलशे गाव इन्दुम् ||tákṣadyádī mánaso vénato vā́gjyéṣṭhasya vā dhármaṇi kṣóránīke ǀ
ā́dīmāyanváramā́ vāvaśānā́ júṣṭam pátim kaláśe gā́va índum ǁtakṣad yadī manaso venato vāg jyeṣṭhasya vā dharmaṇi kṣor anīke |
ād īm āyan varam ā vāvaśānā juṣṭam patiṃ kalaśe gāva indum ||तक्ष॑त् । यदि॑ । मन॑सः । वेन॑तः । वाक् । ज्येष्ठ॑स्य । वा॒ । धर्म॑णि । क्षोः । अनी॑के ।
आत् । ई॒म् । आ॒य॒न् । वर॑म् । आ । वा॒व॒शा॒नाः । जुष्ट॑म् । पति॑म् । क॒लशे॑ । गावः॑ । इन्दु॑म् ॥तक्षत् । यदि । मनसः । वेनतः । वाक् । ज्येष्ठस्य । वा । धर्मणि । क्षोः । अनीके ।
आत् । ईम् । आयन् । वरम् । आ । वावशानाः । जुष्टम् । पतिम् । कलशे । गावः । इन्दुम् ॥tákṣat ǀ yádi ǀ mánasaḥ ǀ vénataḥ ǀ vā́k ǀ jyéṣṭhasya ǀ vā ǀ dhármaṇi ǀ kṣóḥ ǀ ánīke ǀ
ā́t ǀ īm ǀ āyan ǀ váram ǀ ā́ ǀ vāvaśānā́ḥ ǀ júṣṭam ǀ pátim ǀ kaláśe ǀ gā́vaḥ ǀ índum ǁtakṣat ǀ yadi ǀ manasaḥ ǀ venataḥ ǀ vāk ǀ jyeṣṭhasya ǀ vā ǀ dharmaṇi ǀ kṣoḥ ǀ anīke ǀ
āt ǀ īm ǀ āyan ǀ varam ǀ ā ǀ vāvaśānāḥ ǀ juṣṭam ǀ patim ǀ kalaśe ǀ gāvaḥ ǀ indum ǁ9.97.22 Aṣṭaka 7.4.15.2Anuvāka 9.6.22
-
Ṛk 23
प्र दा॑नु॒दो दि॒व्यो दा॑नुपि॒न्व ऋ॒तमृ॒ताय॑ पवते सुमे॒धाः ।
ध॒र्मा भु॑वद्वृज॒न्य॑स्य॒ राजा॒ प्र र॒श्मिभि॑र्द॒शभि॑र्भारि॒ भूम॑ ॥प्र दानुदो दिव्यो दानुपिन्व ऋतम् ऋताय पवते सुमेधाः |
धर्मा भुवद् वृजन्यस्य राजा प्र रश्मिभिर् दशभिर् भारि भूम ||prá dānudó divyó dānupinvá ṛtámṛtā́ya pavate sumedhā́ḥ ǀ
dharmā́ bhuvadvṛjanyásya rā́jā prá raśmíbhirdaśábhirbhāri bhū́ma ǁpra dānudo divyo dānupinva ṛtam ṛtāya pavate sumedhāḥ |
dharmā bhuvad vṛjanyasya rājā pra raśmibhir daśabhir bhāri bhūma ||प्र । दा॒नु॒ऽदः । दि॒व्यः । दा॒नु॒ऽपि॒न्वः । ऋ॒तम् । ऋ॒ताय॑ । प॒व॒ते॒ । सु॒ऽमे॒धाः ।
ध॒र्मा । भु॒व॒त् । वृ॒ज॒न्य॑स्य । राजा॑ । प्र । र॒श्मिऽभिः॑ । द॒शऽभिः॑ । भा॒रि॒ । भूम॑ ॥प्र । दानुऽदः । दिव्यः । दानुऽपिन्वः । ऋतम् । ऋताय । पवते । सुऽमेधाः ।
धर्मा । भुवत् । वृजन्यस्य । राजा । प्र । रश्मिऽभिः । दशऽभिः । भारि । भूम ॥prá ǀ dānu-dáḥ ǀ divyáḥ ǀ dānu-pinváḥ ǀ ṛtám ǀ ṛtā́ya ǀ pavate ǀ su-medhā́ḥ ǀ
dharmā́ ǀ bhuvat ǀ vṛjanyásya ǀ rā́jā ǀ prá ǀ raśmí-bhiḥ ǀ daśá-bhiḥ ǀ bhāri ǀ bhū́ma ǁpra ǀ dānu-daḥ ǀ divyaḥ ǀ dānu-pinvaḥ ǀ ṛtam ǀ ṛtāya ǀ pavate ǀ su-medhāḥ ǀ
dharmā ǀ bhuvat ǀ vṛjanyasya ǀ rājā ǀ pra ǀ raśmi-bhiḥ ǀ daśa-bhiḥ ǀ bhāri ǀ bhūma ǁ9.97.23 Aṣṭaka 7.4.15.3Anuvāka 9.6.23
-
Ṛk 24
प॒वित्रे॑भिः॒ पव॑मानो नृ॒चक्षा॒ राजा॑ दे॒वाना॑मु॒त मर्त्या॑नां ।
द्वि॒ता भु॑वद्रयि॒पती॑ रयी॒णामृ॒तं भ॑र॒त्सुभृ॑तं॒ चार्विंदुः॑ ॥पवित्रेभिः पवमानो नृचक्षा राजा देवानाम् उत मर्त्यानाम् |
द्विता भुवद् रयिपती रयीणाम् ऋतम् भरत् सुभृतं चार्व् इन्दुः ||pavítrebhiḥ pávamāno nṛcákṣā rā́jā devā́nāmutá mártyānām ǀ
dvitā́ bhuvadrayipátī rayīṇā́mṛtám bharatsúbhṛtam cā́rvínduḥ ǁpavitrebhiḥ pavamāno nṛcakṣā rājā devānām uta martyānām |
dvitā bhuvad rayipatī rayīṇām ṛtam bharat subhṛtaṃ cārv induḥ ||प॒वित्रे॑भिः । पव॑मानः । नृ॒ऽचक्षाः॑ । राजा॑ । दे॒वाना॑म् । उ॒त । मर्त्या॑नाम् ।
द्वि॒ता । भु॒व॒त् । र॒यि॒ऽपतिः॑ । र॒यी॒णाम् । ऋ॒तम् । भ॒र॒त् । सुऽभृ॑तम् । चारु॑ । इन्दुः॑ ॥पवित्रेभिः । पवमानः । नृऽचक्षाः । राजा । देवानाम् । उत । मर्त्यानाम् ।
द्विता । भुवत् । रयिऽपतिः । रयीणाम् । ऋतम् । भरत् । सुऽभृतम् । चारु । इन्दुः ॥pavítrebhiḥ ǀ pávamānaḥ ǀ nṛ-cákṣāḥ ǀ rā́jā ǀ devā́nām ǀ utá ǀ mártyānām ǀ
dvitā́ ǀ bhuvat ǀ rayi-pátiḥ ǀ rayīṇā́m ǀ ṛtám ǀ bharat ǀ sú-bhṛtam ǀ cā́ru ǀ índuḥ ǁpavitrebhiḥ ǀ pavamānaḥ ǀ nṛ-cakṣāḥ ǀ rājā ǀ devānām ǀ uta ǀ martyānām ǀ
dvitā ǀ bhuvat ǀ rayi-patiḥ ǀ rayīṇām ǀ ṛtam ǀ bharat ǀ su-bhṛtam ǀ cāru ǀ induḥ ǁ9.97.24 Aṣṭaka 7.4.15.4Anuvāka 9.6.24
-
Ṛk 25
अर्वाँ॑ इव॒ श्रव॑से सा॒तिमच्छेंद्र॑स्य वा॒योर॒भि वी॒तिम॑र्ष ।
स नः॑ स॒हस्रा॑ बृह॒तीरिषो॑ दा॒ भवा॑ सोम द्रविणो॒वित्पु॑ना॒नः ॥अर्वां इव श्रवसे सातिम् अच्छेन्द्रस्य वायोर् अभि वीतिम् अर्ष |
स नः सहस्रा बृहतीर् इषो दा भवा सोम द्रविणोवित् पुनानः ||árvām̐ iva śrávase sātímácchéndrasya vāyórabhí vītímarṣa ǀ
sá naḥ sahásrā bṛhatī́ríṣo dā bhávā soma draviṇovítpunānáḥ ǁarvāṃ iva śravase sātim acchendrasya vāyor abhi vītim arṣa |
sa naḥ sahasrā bṛhatīr iṣo dā bhavā soma draviṇovit punānaḥ ||अर्वा॑न्ऽइव । श्रव॑से । सा॒तिम् । अच्छ॑ । इन्द्र॑स्य । वा॒योः । अ॒भि । वी॒तिम् । अ॒र्ष॒ ।
सः । नः॒ । स॒हस्रा॑ । बृ॒ह॒तीः । इषः॑ । दाः॒ । भव॑ । सो॒म॒ । द्र॒वि॒णः॒ऽवित् । पु॒ना॒नः ॥अर्वान्ऽइव । श्रवसे । सातिम् । अच्छ । इन्द्रस्य । वायोः । अभि । वीतिम् । अर्ष ।
सः । नः । सहस्रा । बृहतीः । इषः । दाः । भव । सोम । द्रविणःऽवित् । पुनानः ॥árvān-iva ǀ śrávase ǀ sātím ǀ áccha ǀ índrasya ǀ vāyóḥ ǀ abhí ǀ vītím ǀ arṣa ǀ
sáḥ ǀ naḥ ǀ sahásrā ǀ bṛhatī́ḥ ǀ íṣaḥ ǀ dāḥ ǀ bháva ǀ soma ǀ draviṇaḥ-vít ǀ punānáḥ ǁarvān-iva ǀ śravase ǀ sātim ǀ accha ǀ indrasya ǀ vāyoḥ ǀ abhi ǀ vītim ǀ arṣa ǀ
saḥ ǀ naḥ ǀ sahasrā ǀ bṛhatīḥ ǀ iṣaḥ ǀ dāḥ ǀ bhava ǀ soma ǀ draviṇaḥ-vit ǀ punānaḥ ǁ9.97.25 Aṣṭaka 7.4.15.5Anuvāka 9.6.25
-
Ṛk 26
दे॒वा॒व्यो॑ नः परिषि॒च्यमा॑नाः॒ क्षयं॑ सु॒वीरं॑ धन्वंतु॒ सोमाः॑ ।
आ॒य॒ज्यवः॑ सुम॒तिं वि॒श्ववा॑रा॒ होता॑रो॒ न दि॑वि॒यजो॑ मं॒द्रत॑माः ॥देवाव्यो नः परिषिच्यमानाः क्षयं सुवीरं धन्वन्तु सोमाः |
आयज्यवः सुमतिं विश्ववारा होतारो न दिवियजो मन्द्रतमाः ||devāvyó naḥ pariṣicyámānāḥ kṣáyam suvī́ram dhanvantu sómāḥ ǀ
āyajyávaḥ sumatím viśvávārā hótāro ná diviyájo mandrátamāḥ ǁdevāvyo naḥ pariṣicyamānāḥ kṣayaṃ suvīraṃ dhanvantu somāḥ |
āyajyavaḥ sumatiṃ viśvavārā hotāro na diviyajo mandratamāḥ ||दे॒व॒ऽअ॒व्यः॑ । नः॒ । प॒रि॒ऽसि॒च्यमा॑नाः । क्षय॑म् । सु॒ऽवीर॑म् । ध॒न्व॒न्तु॒ । सोमाः॑ ।
आ॒ऽय॒ज्यवः॑ । सु॒ऽम॒तिम् । वि॒श्वऽवा॑राः । होता॑रः । न । दि॒वि॒ऽयजः॑ । म॒न्द्रऽत॑माः ॥देवऽअव्यः । नः । परिऽसिच्यमानाः । क्षयम् । सुऽवीरम् । धन्वन्तु । सोमाः ।
आऽयज्यवः । सुऽमतिम् । विश्वऽवाराः । होतारः । न । दिविऽयजः । मन्द्रऽतमाः ॥deva-avyáḥ ǀ naḥ ǀ pari-sicyámānāḥ ǀ kṣáyam ǀ su-vī́ram ǀ dhanvantu ǀ sómāḥ ǀ
ā-yajyávaḥ ǀ su-matím ǀ viśvá-vārāḥ ǀ hótāraḥ ǀ ná ǀ divi-yájaḥ ǀ mandrá-tamāḥ ǁdeva-avyaḥ ǀ naḥ ǀ pari-sicyamānāḥ ǀ kṣayam ǀ su-vīram ǀ dhanvantu ǀ somāḥ ǀ
ā-yajyavaḥ ǀ su-matim ǀ viśva-vārāḥ ǀ hotāraḥ ǀ na ǀ divi-yajaḥ ǀ mandra-tamāḥ ǁ9.97.26 Aṣṭaka 7.4.16.1Anuvāka 9.6.26
-
Ṛk 27
ए॒वा दे॑व दे॒वता॑ते पवस्व म॒हे सो॑म॒ प्सर॑से देव॒पानः॑ ।
म॒हश्चि॒द्धि ष्मसि॑ हि॒ताः स॑म॒र्ये कृ॒धि सु॑ष्ठा॒ने रोद॑सी पुना॒नः ॥एवा देव देवताते पवस्व महे सोम प्सरसे देवपानः |
महश् चिद् धि ष्मसि हिताः समर्ये कृधि सुष्ठाने रोदसी पुनानः ||evā́ deva devátāte pavasva mahé soma psárase devapā́naḥ ǀ
maháściddhí ṣmási hitā́ḥ samaryé kṛdhí suṣṭhāné ródasī punānáḥ ǁevā deva devatāte pavasva mahe soma psarase devapānaḥ |
mahaś cid dhi ṣmasi hitāḥ samarye kṛdhi suṣṭhāne rodasī punānaḥ ||ए॒व । दे॒व॒ । दे॒वऽता॑ते । प॒व॒स्व॒ । म॒हे । सो॒म॒ । प्सर॑से । दे॒व॒ऽपानः॑ ।
म॒हः । चि॒त् । हि । स्मसि॑ । हि॒ताः । स॒ऽम॒र्ये । कृ॒धि । सु॒स्था॒ने इति॑ सु॒ऽस्था॒ने । रोद॑सी॒ इति॑ । पु॒ना॒नः ॥एव । देव । देवऽताते । पवस्व । महे । सोम । प्सरसे । देवऽपानः ।
महः । चित् । हि । स्मसि । हिताः । सऽमर्ये । कृधि । सुस्थाने इति सुऽस्थाने । रोदसी इति । पुनानः ॥evá ǀ deva ǀ devá-tāte ǀ pavasva ǀ mahé ǀ soma ǀ psárase ǀ deva-pā́naḥ ǀ
maháḥ ǀ cit ǀ hí ǀ smási ǀ hitā́ḥ ǀ sa-maryé ǀ kṛdhí ǀ susthāné íti su-sthāné ǀ ródasī íti ǀ punānáḥ ǁeva ǀ deva ǀ deva-tāte ǀ pavasva ǀ mahe ǀ soma ǀ psarase ǀ deva-pānaḥ ǀ
mahaḥ ǀ cit ǀ hi ǀ smasi ǀ hitāḥ ǀ sa-marye ǀ kṛdhi ǀ susthāne iti su-sthāne ǀ rodasī iti ǀ punānaḥ ǁ9.97.27 Aṣṭaka 7.4.16.2Anuvāka 9.6.27
-
Ṛk 28
अश्वो॒ नो क्र॑दो॒ वृष॑भिर्युजा॒नः सिं॒हो न भी॒मो मन॑सो॒ जवी॑यान् ।
अ॒र्वा॒चीनैः॑ प॒थिभि॒र्ये रजि॑ष्ठा॒ आ प॑वस्व सौमन॒सं न॑ इंदो ॥अश्वो नो क्रदो वृषभिर् युजानः सिंहो न भीमो मनसो जवीयान् |
अर्वाचीनैः पथिभिर् ये रजिष्ठा आ पवस्व सौमनसं न इन्दो ||áśvo nó krado vṛ́ṣabhiryujānáḥ siṃhó ná bhīmó mánaso jávīyān ǀ
arvācī́naiḥ pathíbhiryé rájiṣṭhā ā́ pavasva saumanasám na indo ǁaśvo no krado vṛṣabhir yujānaḥ siṃho na bhīmo manaso javīyān |
arvācīnaiḥ pathibhir ye rajiṣṭhā ā pavasva saumanasaṃ na indo ||अश्वः॑ । न । क्र॒दः॒ । वृष॑ऽभिः । यु॒जा॒नः । सिं॒हः । न । भी॒मः । मन॑सः । जवी॑यान् ।
अ॒र्वा॒चीनैः॑ । प॒थिऽभिः॑ । ये । रजि॑ष्ठाः । आ । प॒व॒स्व॒ । सौ॒म॒न॒सम् । नः॒ । इ॒न्दो॒ इति॑ ॥अश्वः । न । क्रदः । वृषऽभिः । युजानः । सिंहः । न । भीमः । मनसः । जवीयान् ।
अर्वाचीनैः । पथिऽभिः । ये । रजिष्ठाः । आ । पवस्व । सौमनसम् । नः । इन्दो इति ॥áśvaḥ ǀ ná ǀ kradaḥ ǀ vṛ́ṣa-bhiḥ ǀ yujānáḥ ǀ siṃháḥ ǀ ná ǀ bhīmáḥ ǀ mánasaḥ ǀ jávīyān ǀ
arvācī́naiḥ ǀ pathí-bhiḥ ǀ yé ǀ rájiṣṭhāḥ ǀ ā́ ǀ pavasva ǀ saumanasám ǀ naḥ ǀ indo íti ǁaśvaḥ ǀ na ǀ kradaḥ ǀ vṛṣa-bhiḥ ǀ yujānaḥ ǀ siṃhaḥ ǀ na ǀ bhīmaḥ ǀ manasaḥ ǀ javīyān ǀ
arvācīnaiḥ ǀ pathi-bhiḥ ǀ ye ǀ rajiṣṭhāḥ ǀ ā ǀ pavasva ǀ saumanasam ǀ naḥ ǀ indo iti ǁ9.97.28 Aṣṭaka 7.4.16.3Anuvāka 9.6.28
-
Ṛk 29
श॒तं धारा॑ दे॒वजा॑ता असृग्रन्स॒हस्र॑मेनाः क॒वयो॑ मृजंति ।
इंदो॑ स॒नित्रं॑ दि॒व आ प॑वस्व पुरए॒तासि॑ मह॒तो धन॑स्य ॥शतं धारा देवजाता असृग्रन् सहस्रम् एनाः कवयो मृजन्ति |
इन्दो सनित्रं दिव आ पवस्व पुरएतासि महतो धनस्य ||śatám dhā́rā devájātā asṛgransahásramenāḥ kaváyo mṛjanti ǀ
índo sanítram divá ā́ pavasva puraetā́si maható dhánasya ǁśataṃ dhārā devajātā asṛgran sahasram enāḥ kavayo mṛjanti |
indo sanitraṃ diva ā pavasva puraetāsi mahato dhanasya ||श॒तम् । धाराः॑ । दे॒वऽजा॑ताः । अ॒सृ॒ग्र॒न् । स॒हस्र॑म् । ए॒नाः॒ । क॒वयः॑ । मृ॒ज॒न्ति॒ ।
इन्दो॒ इति॑ । स॒नित्र॑म् । दि॒वः । आ । प॒व॒स्व॒ । पु॒रः॒ऽए॒ता । अ॒सि॒ । म॒ह॒तः । धन॑स्य ॥शतम् । धाराः । देवऽजाताः । असृग्रन् । सहस्रम् । एनाः । कवयः । मृजन्ति ।
इन्दो इति । सनित्रम् । दिवः । आ । पवस्व । पुरःऽएता । असि । महतः । धनस्य ॥śatám ǀ dhā́rāḥ ǀ devá-jātāḥ ǀ asṛgran ǀ sahásram ǀ enāḥ ǀ kaváyaḥ ǀ mṛjanti ǀ
índo íti ǀ sanítram ǀ diváḥ ǀ ā́ ǀ pavasva ǀ puraḥ-etā́ ǀ asi ǀ mahatáḥ ǀ dhánasya ǁśatam ǀ dhārāḥ ǀ deva-jātāḥ ǀ asṛgran ǀ sahasram ǀ enāḥ ǀ kavayaḥ ǀ mṛjanti ǀ
indo iti ǀ sanitram ǀ divaḥ ǀ ā ǀ pavasva ǀ puraḥ-etā ǀ asi ǀ mahataḥ ǀ dhanasya ǁ9.97.29 Aṣṭaka 7.4.16.4Anuvāka 9.6.29
-
Ṛk 30
दि॒वो न सर्गा॑ अससृग्र॒मह्नां॒ राजा॒ न मि॒त्रं प्र मि॑नाति॒ धीरः॑ ।
पि॒तुर्न पु॒त्रः क्रतु॑भिर्यता॒न आ प॑वस्व वि॒शे अ॒स्या अजी॑तिं ॥दिवो न सर्गा अससृग्रम् अह्नां राजा न मित्रम् प्र मिनाति धीरः |
पितुर् न पुत्रः क्रतुभिर् यतान आ पवस्व विशे अस्या अजीतिम् ||divó ná sárgā asasṛgramáhnām rā́jā ná mitrám prá mināti dhī́raḥ ǀ
pitúrná putráḥ krátubhiryatāná ā́ pavasva viśé asyā́ ájītim ǁdivo na sargā asasṛgram ahnāṃ rājā na mitram pra mināti dhīraḥ |
pitur na putraḥ kratubhir yatāna ā pavasva viśe asyā ajītim ||दि॒वः । न । सर्गाः॑ । अ॒स॒सृ॒ग्र॒म् । अह्ना॑म् । राजा॑ । न । मि॒त्रम् । प्र । मि॒ना॒ति॒ । धीरः॑ ।
पि॒तुः । न । पु॒त्रः । क्रतु॑ऽभिः । य॒ता॒नः । आ । प॒व॒स्व॒ । वि॒शे । अ॒स्यै । अजी॑तिम् ॥दिवः । न । सर्गाः । अससृग्रम् । अह्नाम् । राजा । न । मित्रम् । प्र । मिनाति । धीरः ।
पितुः । न । पुत्रः । क्रतुऽभिः । यतानः । आ । पवस्व । विशे । अस्यै । अजीतिम् ॥diváḥ ǀ ná ǀ sárgāḥ ǀ asasṛgram ǀ áhnām ǀ rā́jā ǀ ná ǀ mitrám ǀ prá ǀ mināti ǀ dhī́raḥ ǀ
pitúḥ ǀ ná ǀ putráḥ ǀ krátu-bhiḥ ǀ yatānáḥ ǀ ā́ ǀ pavasva ǀ viśé ǀ asyái ǀ ájītim ǁdivaḥ ǀ na ǀ sargāḥ ǀ asasṛgram ǀ ahnām ǀ rājā ǀ na ǀ mitram ǀ pra ǀ mināti ǀ dhīraḥ ǀ
pituḥ ǀ na ǀ putraḥ ǀ kratu-bhiḥ ǀ yatānaḥ ǀ ā ǀ pavasva ǀ viśe ǀ asyai ǀ ajītim ǁ9.97.30 Aṣṭaka 7.4.16.5Anuvāka 9.6.30
-
Ṛk 31
प्र ते॒ धारा॒ मधु॑मतीरसृग्र॒न्वारा॒न्यत्पू॒तो अ॒त्येष्यव्या॑न् ।
पव॑मान॒ पव॑से॒ धाम॒ गोनां॑ जज्ञा॒नः सूर्य॑मपिन्वो अ॒र्कैः ॥प्र ते धारा मधुमतीर् असृग्रन् वारान् यत् पूतो अत्येष्य् अव्यान् |
पवमान पवसे धाम गोनां जज्ञानः सूर्यम् अपिन्वो अर्कैः ||prá te dhā́rā mádhumatīrasṛgranvā́rānyátpūtó atyéṣyávyān ǀ
pávamāna pávase dhā́ma gónām jajñānáḥ sū́ryamapinvo arkáiḥ ǁpra te dhārā madhumatīr asṛgran vārān yat pūto atyeṣy avyān |
pavamāna pavase dhāma gonāṃ jajñānaḥ sūryam apinvo arkaiḥ ||प्र । ते॒ । धाराः॑ । मधु॑ऽमतीः । अ॒सृ॒ग्र॒न् । वारा॑न् । यत् । पू॒तः । अ॒ति॒ऽएषि॑ । अव्या॑न् ।
पव॑मान । पव॑से । धाम॑ । गोना॑म् । ज॒ज्ञा॒नः । सूर्य॑म् । अ॒पि॒न्वः॒ । अ॒र्कैः ॥प्र । ते । धाराः । मधुऽमतीः । असृग्रन् । वारान् । यत् । पूतः । अतिऽएषि । अव्यान् ।
पवमान । पवसे । धाम । गोनाम् । जज्ञानः । सूर्यम् । अपिन्वः । अर्कैः ॥prá ǀ te ǀ dhā́rāḥ ǀ mádhu-matīḥ ǀ asṛgran ǀ vā́rān ǀ yát ǀ pūtáḥ ǀ ati-éṣi ǀ ávyān ǀ
pávamāna ǀ pávase ǀ dhā́ma ǀ gónām ǀ jajñānáḥ ǀ sū́ryam ǀ apinvaḥ ǀ arkáiḥ ǁpra ǀ te ǀ dhārāḥ ǀ madhu-matīḥ ǀ asṛgran ǀ vārān ǀ yat ǀ pūtaḥ ǀ ati-eṣi ǀ avyān ǀ
pavamāna ǀ pavase ǀ dhāma ǀ gonām ǀ jajñānaḥ ǀ sūryam ǀ apinvaḥ ǀ arkaiḥ ǁ9.97.31 Aṣṭaka 7.4.17.1Anuvāka 9.6.31
-
Ṛk 32
कनि॑क्रद॒दनु॒ पंथा॑मृ॒तस्य॑ शु॒क्रो वि भा॑स्य॒मृत॑स्य॒ धाम॑ ।
स इंद्रा॑य पवसे मत्स॒रवा॑न्हिन्वा॒नो वाचं॑ म॒तिभिः॑ कवी॒नां ॥कनिक्रदद् अनु पन्थाम् ऋतस्य शुक्रो वि भास्य् अमृतस्य धाम |
स इन्द्राय पवसे मत्सरवान् हिन्वानो वाचम् मतिभिः कवीनाम् ||kánikradadánu pánthāmṛtásya śukró ví bhāsyamṛ́tasya dhā́ma ǀ
sá índrāya pavase matsarávānhinvānó vā́cam matíbhiḥ kavīnā́m ǁkanikradad anu panthām ṛtasya śukro vi bhāsy amṛtasya dhāma |
sa indrāya pavase matsaravān hinvāno vācam matibhiḥ kavīnām ||कनि॑क्रदत् । अनु॑ । पन्था॑म् । ऋ॒तस्य॑ । शु॒क्रः । वि । भा॒सि॒ । अ॒मृत॑स्य । धाम॑ ।
सः । इन्द्रा॑य । प॒व॒से॒ । म॒त्स॒रऽवा॑न् । हि॒न्वा॒नः । वाच॑म् । म॒तिऽभिः॑ । क॒वी॒नाम् ॥कनिक्रदत् । अनु । पन्थाम् । ऋतस्य । शुक्रः । वि । भासि । अमृतस्य । धाम ।
सः । इन्द्राय । पवसे । मत्सरऽवान् । हिन्वानः । वाचम् । मतिऽभिः । कवीनाम् ॥kánikradat ǀ ánu ǀ pánthām ǀ ṛtásya ǀ śukráḥ ǀ ví ǀ bhāsi ǀ amṛ́tasya ǀ dhā́ma ǀ
sáḥ ǀ índrāya ǀ pavase ǀ matsará-vān ǀ hinvānáḥ ǀ vā́cam ǀ matí-bhiḥ ǀ kavīnā́m ǁkanikradat ǀ anu ǀ panthām ǀ ṛtasya ǀ śukraḥ ǀ vi ǀ bhāsi ǀ amṛtasya ǀ dhāma ǀ
saḥ ǀ indrāya ǀ pavase ǀ matsara-vān ǀ hinvānaḥ ǀ vācam ǀ mati-bhiḥ ǀ kavīnām ǁ9.97.32 Aṣṭaka 7.4.17.2Anuvāka 9.6.32
-
Ṛk 33
दि॒व्यः सु॑प॒र्णोऽव॑ चक्षि सोम॒ पिन्वं॒धाराः॒ कर्म॑णा दे॒ववी॑तौ ।
एंदो॑ विश क॒लशं॑ सोम॒धानं॒ क्रंद॑न्निहि॒ सूर्य॒स्योप॑ र॒श्मिं ॥दिव्यः सुपर्णो ऽव चक्षि सोम पिन्वन् धाराः कर्मणा देववीतौ |
एन्दो विश कलशं सोमधानं क्रन्दन्न् इहि सूर्यस्योप रश्मिम् ||divyáḥ suparṇó’va cakṣi soma pínvandhā́rāḥ kármaṇā devávītau ǀ
éndo viśa kaláśam somadhā́nam krándannihi sū́ryasyópa raśmím ǁdivyaḥ suparṇo 'va cakṣi soma pinvan dhārāḥ karmaṇā devavītau |
endo viśa kalaśaṃ somadhānaṃ krandann ihi sūryasyopa raśmim ||दि॒व्यः । सु॒ऽप॒र्णः । अव॑ । च॒क्षि॒ । सो॒म॒ । पिन्व॑न् । धाराः॑ । कर्म॑णा । दे॒वऽवी॑तौ ।
आ । इ॒न्दो॒ इति॑ । वि॒श॒ । क॒लश॑म् । सो॒म॒ऽधान॑म् । क्रन्द॑न् । इ॒हि॒ । सूर्य॑स्य । उप॑ । र॒श्मिम् ॥दिव्यः । सुऽपर्णः । अव । चक्षि । सोम । पिन्वन् । धाराः । कर्मणा । देवऽवीतौ ।
आ । इन्दो इति । विश । कलशम् । सोमऽधानम् । क्रन्दन् । इहि । सूर्यस्य । उप । रश्मिम् ॥divyáḥ ǀ su-parṇáḥ ǀ áva ǀ cakṣi ǀ soma ǀ pínvan ǀ dhā́rāḥ ǀ kármaṇā ǀ devá-vītau ǀ
ā́ ǀ indo íti ǀ viśa ǀ kaláśam ǀ soma-dhā́nam ǀ krándan ǀ ihi ǀ sū́ryasya ǀ úpa ǀ raśmím ǁdivyaḥ ǀ su-parṇaḥ ǀ ava ǀ cakṣi ǀ soma ǀ pinvan ǀ dhārāḥ ǀ karmaṇā ǀ deva-vītau ǀ
ā ǀ indo iti ǀ viśa ǀ kalaśam ǀ soma-dhānam ǀ krandan ǀ ihi ǀ sūryasya ǀ upa ǀ raśmim ǁ9.97.33 Aṣṭaka 7.4.17.3Anuvāka 9.6.33
-
Ṛk 34
ति॒स्रो वाच॑ ईरयति॒ प्र वह्नि॑र्ऋ॒तस्य॑ धी॒तिं ब्रह्म॑णो मनी॒षां ।
गावो॑ यंति॒ गोप॑तिं पृ॒च्छमा॑नाः॒ सोमं॑ यंति म॒तयो॑ वावशा॒नाः ॥तिस्रो वाच ईरयति प्र वह्निर् ऋतस्य धीतिम् ब्रह्मणो मनीषाम् |
गावो यन्ति गोपतिम् पृच्छमानाः सोमं यन्ति मतयो वावशानाः ||tisró vā́ca īrayati prá váhnirṛtásya dhītím bráhmaṇo manīṣā́m ǀ
gā́vo yanti gópatim pṛcchámānāḥ sómam yanti matáyo vāvaśānā́ḥ ǁtisro vāca īrayati pra vahnir ṛtasya dhītim brahmaṇo manīṣām |
gāvo yanti gopatim pṛcchamānāḥ somaṃ yanti matayo vāvaśānāḥ ||ति॒स्रः । वाचः॑ । ई॒र॒य॒ति॒ । प्र । वह्निः॑ । ऋ॒तस्य॑ । धी॒तिम् । ब्रह्म॑णः । म॒नी॒षाम् ।
गावः॑ । य॒न्ति॒ । गोऽप॑तिम् । पृ॒च्छमा॑नाः । सोम॑म् । य॒न्ति॒ । म॒तयः॑ । वा॒व॒शा॒नाः ॥तिस्रः । वाचः । ईरयति । प्र । वह्निः । ऋतस्य । धीतिम् । ब्रह्मणः । मनीषाम् ।
गावः । यन्ति । गोऽपतिम् । पृच्छमानाः । सोमम् । यन्ति । मतयः । वावशानाः ॥tisráḥ ǀ vā́caḥ ǀ īrayati ǀ prá ǀ váhniḥ ǀ ṛtásya ǀ dhītím ǀ bráhmaṇaḥ ǀ manīṣā́m ǀ
gā́vaḥ ǀ yanti ǀ gó-patim ǀ pṛcchámānāḥ ǀ sómam ǀ yanti ǀ matáyaḥ ǀ vāvaśānā́ḥ ǁtisraḥ ǀ vācaḥ ǀ īrayati ǀ pra ǀ vahniḥ ǀ ṛtasya ǀ dhītim ǀ brahmaṇaḥ ǀ manīṣām ǀ
gāvaḥ ǀ yanti ǀ go-patim ǀ pṛcchamānāḥ ǀ somam ǀ yanti ǀ matayaḥ ǀ vāvaśānāḥ ǁ9.97.34 Aṣṭaka 7.4.17.4Anuvāka 9.6.34
-
Ṛk 35
सोमं॒ गावो॑ धे॒नवो॑ वावशा॒नाः सोमं॒ विप्रा॑ म॒तिभिः॑ पृ॒च्छमा॑नाः ।
सोमः॑ सु॒तः पू॑यते अ॒ज्यमा॑नः॒ सोमे॑ अ॒र्कास्त्रि॒ष्टुभः॒ सं न॑वंते ॥सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः |
सोमः सुतः पूयते अज्यमानः सोमे अर्कास् त्रिष्टुभः सं नवन्ते ||sómam gā́vo dhenávo vāvaśānā́ḥ sómam víprā matíbhiḥ pṛcchámānāḥ ǀ
sómaḥ sutáḥ pūyate ajyámānaḥ sóme arkā́striṣṭúbhaḥ sám navante ǁsomaṃ gāvo dhenavo vāvaśānāḥ somaṃ viprā matibhiḥ pṛcchamānāḥ |
somaḥ sutaḥ pūyate ajyamānaḥ some arkās triṣṭubhaḥ saṃ navante ||सोम॑म् । गावः॑ । धे॒नवः॑ । वा॒व॒शा॒नाः । सोम॑म् । विप्राः॑ । म॒तिऽभिः॑ । पृ॒च्छमा॑नाः ।
सोमः॑ । सु॒तः । पू॒य॒ते॒ । अ॒ज्यमा॑नः । सोमे॑ । अ॒र्काः । त्रि॒ऽस्तुभः॑ । सम् । न॒व॒न्ते॒ ॥सोमम् । गावः । धेनवः । वावशानाः । सोमम् । विप्राः । मतिऽभिः । पृच्छमानाः ।
सोमः । सुतः । पूयते । अज्यमानः । सोमे । अर्काः । त्रिऽस्तुभः । सम् । नवन्ते ॥sómam ǀ gā́vaḥ ǀ dhenávaḥ ǀ vāvaśānā́ḥ ǀ sómam ǀ víprāḥ ǀ matí-bhiḥ ǀ pṛcchámānāḥ ǀ
sómaḥ ǀ sutáḥ ǀ pūyate ǀ ajyámānaḥ ǀ sóme ǀ arkā́ḥ ǀ tri-stúbhaḥ ǀ sám ǀ navante ǁsomam ǀ gāvaḥ ǀ dhenavaḥ ǀ vāvaśānāḥ ǀ somam ǀ viprāḥ ǀ mati-bhiḥ ǀ pṛcchamānāḥ ǀ
somaḥ ǀ sutaḥ ǀ pūyate ǀ ajyamānaḥ ǀ some ǀ arkāḥ ǀ tri-stubhaḥ ǀ sam ǀ navante ǁ9.97.35 Aṣṭaka 7.4.17.5Anuvāka 9.6.35
-
Ṛk 36
ए॒वा नः॑ सोम परिषि॒च्यमा॑न॒ आ प॑वस्व पू॒यमा॑नः स्व॒स्ति ।
इंद्र॒मा वि॑श बृह॒ता रवे॑ण व॒र्धया॒ वाचं॑ ज॒नया॒ पुरं॑धिं ॥एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति |
इन्द्रम् आ विश बृहता रवेण वर्धया वाचं जनया पुरन्धिम् ||evā́ naḥ soma pariṣicyámāna ā́ pavasva pūyámānaḥ svastí ǀ
índramā́ viśa bṛhatā́ ráveṇa vardháyā vā́cam janáyā púraṃdhim ǁevā naḥ soma pariṣicyamāna ā pavasva pūyamānaḥ svasti |
indram ā viśa bṛhatā raveṇa vardhayā vācaṃ janayā purandhim ||ए॒व । नः॒ । सो॒म॒ । प॒रि॒ऽसि॒च्यमा॑नः । आ । प॒व॒स्व॒ । पू॒यमा॑नः । स्व॒स्ति ।
इन्द्र॑म् । आ । वि॒श॒ । बृ॒ह॒ता । रवे॑ण । व॒र्धय॑ । वाच॑म् । ज॒नय॑ । पुर॑म्ऽधिम् ॥एव । नः । सोम । परिऽसिच्यमानः । आ । पवस्व । पूयमानः । स्वस्ति ।
इन्द्रम् । आ । विश । बृहता । रवेण । वर्धय । वाचम् । जनय । पुरम्ऽधिम् ॥evá ǀ naḥ ǀ soma ǀ pari-sicyámānaḥ ǀ ā́ ǀ pavasva ǀ pūyámānaḥ ǀ svastí ǀ
índram ǀ ā́ ǀ viśa ǀ bṛhatā́ ǀ ráveṇa ǀ vardháya ǀ vā́cam ǀ janáya ǀ púram-dhim ǁeva ǀ naḥ ǀ soma ǀ pari-sicyamānaḥ ǀ ā ǀ pavasva ǀ pūyamānaḥ ǀ svasti ǀ
indram ǀ ā ǀ viśa ǀ bṛhatā ǀ raveṇa ǀ vardhaya ǀ vācam ǀ janaya ǀ puram-dhim ǁ9.97.36 Aṣṭaka 7.4.18.1Anuvāka 9.6.36
-
Ṛk 37
आ जागृ॑वि॒र्विप्र॑ ऋ॒ता म॑ती॒नां सोमः॑ पुना॒नो अ॑सदच्च॒मूषु॑ ।
सपं॑ति॒ यं मि॑थु॒नासो॒ निका॑मा अध्व॒र्यवो॑ रथि॒रासः॑ सु॒हस्ताः॑ ॥आ जागृविर् विप्र ऋता मतीनां सोमः पुनानो असदच् चमूषु |
सपन्ति यम् मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ||ā́ jā́gṛvirvípra ṛtā́ matīnā́m sómaḥ punānó asadaccamū́ṣu ǀ
sápanti yám mithunā́so níkāmā adhvaryávo rathirā́saḥ suhástāḥ ǁā jāgṛvir vipra ṛtā matīnāṃ somaḥ punāno asadac camūṣu |
sapanti yam mithunāso nikāmā adhvaryavo rathirāsaḥ suhastāḥ ||आ । जागृ॑विः । विप्रः॑ । ऋ॒ता । म॒ती॒नाम् । सोमः॑ । पु॒ना॒नः । अ॒स॒द॒त् । च॒मूषु॑ ।
सप॑न्ति । यम् । मि॒थु॒नासः॑ । निऽका॑माः । अ॒ध्व॒र्यवः॑ । र॒थि॒रासः॑ । सु॒ऽहस्ताः॑ ॥आ । जागृविः । विप्रः । ऋता । मतीनाम् । सोमः । पुनानः । असदत् । चमूषु ।
सपन्ति । यम् । मिथुनासः । निऽकामाः । अध्वर्यवः । रथिरासः । सुऽहस्ताः ॥ā́ ǀ jā́gṛviḥ ǀ vípraḥ ǀ ṛtā́ ǀ matīnā́m ǀ sómaḥ ǀ punānáḥ ǀ asadat ǀ camū́ṣu ǀ
sápanti ǀ yám ǀ mithunā́saḥ ǀ ní-kāmāḥ ǀ adhvaryávaḥ ǀ rathirā́saḥ ǀ su-hástāḥ ǁā ǀ jāgṛviḥ ǀ vipraḥ ǀ ṛtā ǀ matīnām ǀ somaḥ ǀ punānaḥ ǀ asadat ǀ camūṣu ǀ
sapanti ǀ yam ǀ mithunāsaḥ ǀ ni-kāmāḥ ǀ adhvaryavaḥ ǀ rathirāsaḥ ǀ su-hastāḥ ǁ9.97.37 Aṣṭaka 7.4.18.2Anuvāka 9.6.37
-
Ṛk 38
स पु॑ना॒न उप॒ सूरे॒ न धातोभे अ॑प्रा॒ रोद॑सी॒ वि ष आ॑वः ।
प्रि॒या चि॒द्यस्य॑ प्रिय॒सास॑ ऊ॒ती स तू धनं॑ का॒रिणे॒ न प्र यं॑सत् ॥स पुनान उप सूरे न धातोभे अप्रा रोदसी वि ष आवः |
प्रिया चिद् यस्य प्रियसास ऊती स तू धनं कारिणे न प्र यंसत् ||sá punāná úpa sū́re ná dhā́tóbhé aprā ródasī ví ṣá āvaḥ ǀ
priyā́ cidyásya priyasā́sa ūtī́ sá tū́ dhánam kāríṇe ná prá yaṃsat ǁsa punāna upa sūre na dhātobhe aprā rodasī vi ṣa āvaḥ |
priyā cid yasya priyasāsa ūtī sa tū dhanaṃ kāriṇe na pra yaṃsat ||सः । पु॒ना॒नः । उप॑ । सूरे॑ । न । धाता॑ । आ । उ॒भे इति॑ । अ॒प्राः॒ । रोद॑सी॒ इति॑ । वि । सः । आ॒व॒रित्या॑वः ।
प्रि॒या । चि॒त् । यस्य॑ । प्रि॒य॒सासः॑ । ऊ॒ती । सः । तु । धन॑म् । का॒रिणे॑ । न । प्र । यं॒स॒त् ॥सः । पुनानः । उप । सूरे । न । धाता । आ । उभे इति । अप्राः । रोदसी इति । वि । सः । आवरित्यावः ।
प्रिया । चित् । यस्य । प्रियसासः । ऊती । सः । तु । धनम् । कारिणे । न । प्र । यंसत् ॥sáḥ ǀ punānáḥ ǀ úpa ǀ sū́re ǀ ná ǀ dhā́tā ǀ ā́ ǀ ubhé íti ǀ aprāḥ ǀ ródasī íti ǀ ví ǀ sáḥ ǀ āvarítyāvaḥ ǀ
priyā́ ǀ cit ǀ yásya ǀ priyasā́saḥ ǀ ūtī́ ǀ sáḥ ǀ tú ǀ dhánam ǀ kāríṇe ǀ ná ǀ prá ǀ yaṃsat ǁsaḥ ǀ punānaḥ ǀ upa ǀ sūre ǀ na ǀ dhātā ǀ ā ǀ ubhe iti ǀ aprāḥ ǀ rodasī iti ǀ vi ǀ saḥ ǀ āvarityāvaḥ ǀ
priyā ǀ cit ǀ yasya ǀ priyasāsaḥ ǀ ūtī ǀ saḥ ǀ tu ǀ dhanam ǀ kāriṇe ǀ na ǀ pra ǀ yaṃsat ǁ9.97.38 Aṣṭaka 7.4.18.3Anuvāka 9.6.38
-
Ṛk 39
स व॑र्धि॒ता वर्ध॑नः पू॒यमा॑नः॒ सोमो॑ मी॒ढ्वाँ अ॒भि नो॒ ज्योति॑षावीत् ।
येना॑ नः॒ पूर्वे॑ पि॒तरः॑ पद॒ज्ञाः स्व॒र्विदो॑ अ॒भि गा अद्रि॑मु॒ष्णन् ॥स वर्धिता वर्धनः पूयमानः सोमो मीढ्वां अभि नो ज्योतिषावीत् |
येना नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिम् उष्णन् ||sá vardhitā́ várdhanaḥ pūyámānaḥ sómo mīḍhvā́m̐ abhí no jyótiṣāvīt ǀ
yénā naḥ pū́rve pitáraḥ padajñā́ḥ svarvído abhí gā́ ádrimuṣṇán ǁsa vardhitā vardhanaḥ pūyamānaḥ somo mīḍhvāṃ abhi no jyotiṣāvīt |
yenā naḥ pūrve pitaraḥ padajñāḥ svarvido abhi gā adrim uṣṇan ||सः । व॒र्धि॒ता । वर्ध॑नः । पू॒यमा॑नः । सोमः॑ । मी॒ढ्वान् । अ॒भि । नः॒ । ज्योति॑षा । आ॒वी॒त् ।
येन॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । प॒द॒ऽज्ञाः । स्वः॒ऽविदः॑ । अ॒भि । गाः । अद्रि॑म् । उ॒ष्णन् ॥सः । वर्धिता । वर्धनः । पूयमानः । सोमः । मीढ्वान् । अभि । नः । ज्योतिषा । आवीत् ।
येन । नः । पूर्वे । पितरः । पदऽज्ञाः । स्वःऽविदः । अभि । गाः । अद्रिम् । उष्णन् ॥sáḥ ǀ vardhitā́ ǀ várdhanaḥ ǀ pūyámānaḥ ǀ sómaḥ ǀ mīḍhvā́n ǀ abhí ǀ naḥ ǀ jyótiṣā ǀ āvīt ǀ
yéna ǀ naḥ ǀ pū́rve ǀ pitáraḥ ǀ pada-jñā́ḥ ǀ svaḥ-vídaḥ ǀ abhí ǀ gā́ḥ ǀ ádrim ǀ uṣṇán ǁsaḥ ǀ vardhitā ǀ vardhanaḥ ǀ pūyamānaḥ ǀ somaḥ ǀ mīḍhvān ǀ abhi ǀ naḥ ǀ jyotiṣā ǀ āvīt ǀ
yena ǀ naḥ ǀ pūrve ǀ pitaraḥ ǀ pada-jñāḥ ǀ svaḥ-vidaḥ ǀ abhi ǀ gāḥ ǀ adrim ǀ uṣṇan ǁ9.97.39 Aṣṭaka 7.4.18.4Anuvāka 9.6.39
-
Ṛk 40
अक्रा॑न्त्समु॒द्रः प्र॑थ॒मे विध॑र्मंज॒नय॑न्प्र॒जा भुव॑नस्य॒ राजा॑ ।
वृषा॑ प॒वित्रे॒ अधि॒ सानो॒ अव्ये॑ बृ॒हत्सोमो॑ वावृधे सुवा॒न इंदुः॑ ॥अक्रान् समुद्रः प्रथमे विधर्मञ् जनयन् प्रजा भुवनस्य राजा |
वृषा पवित्रे अधि सानो अव्ये बृहत् सोमो वावृधे सुवान इन्दुः ||ákrāntsamudráḥ prathamé vídharmañjanáyanprajā́ bhúvanasya rā́jā ǀ
vṛ́ṣā pavítre ádhi sā́no ávye bṛhátsómo vāvṛdhe suvāná índuḥ ǁakrān samudraḥ prathame vidharmañ janayan prajā bhuvanasya rājā |
vṛṣā pavitre adhi sāno avye bṛhat somo vāvṛdhe suvāna induḥ ||अक्रा॑न् । स॒मु॒द्रः । प्र॒थ॒मे । विऽध॑र्मन् । ज॒नय॑न् । प्र॒ऽजाः । भुव॑नस्य । राजा॑ ।
वृषा॑ । प॒वित्रे॑ । अधि॑ । सानौ॑ । अव्ये॑ । बृ॒हत् । सोमः॑ । व॒वृ॒धे॒ । सु॒वा॒नः । इन्दुः॑ ॥अक्रान् । समुद्रः । प्रथमे । विऽधर्मन् । जनयन् । प्रऽजाः । भुवनस्य । राजा ।
वृषा । पवित्रे । अधि । सानौ । अव्ये । बृहत् । सोमः । ववृधे । सुवानः । इन्दुः ॥ákrān ǀ samudráḥ ǀ prathamé ǀ ví-dharman ǀ janáyan ǀ pra-jā́ḥ ǀ bhúvanasya ǀ rā́jā ǀ
vṛ́ṣā ǀ pavítre ǀ ádhi ǀ sā́nau ǀ ávye ǀ bṛhát ǀ sómaḥ ǀ vavṛdhe ǀ suvānáḥ ǀ índuḥ ǁakrān ǀ samudraḥ ǀ prathame ǀ vi-dharman ǀ janayan ǀ pra-jāḥ ǀ bhuvanasya ǀ rājā ǀ
vṛṣā ǀ pavitre ǀ adhi ǀ sānau ǀ avye ǀ bṛhat ǀ somaḥ ǀ vavṛdhe ǀ suvānaḥ ǀ induḥ ǁ9.97.40 Aṣṭaka 7.4.18.5Anuvāka 9.6.40
-
Ṛk 41
म॒हत्तत्सोमो॑ महि॒षश्च॑कारा॒पां यद्गर्भोऽवृ॑णीत दे॒वान् ।
अद॑धा॒दिंद्रे॒ पव॑मान॒ ओजोऽज॑नय॒त्सूर्ये॒ ज्योति॒रिंदुः॑ ॥महत् तत् सोमो महिषश् चकारापां यद् गर्भो ऽवृणीत देवान् |
अदधाद् इन्द्रे पवमान ओजो ऽजनयत् सूर्ये ज्योतिर् इन्दुः ||maháttátsómo mahiṣáścakārāpā́m yádgárbhó’vṛṇīta devā́n ǀ
ádadhādíndre pávamāna ójó’janayatsū́rye jyótirínduḥ ǁmahat tat somo mahiṣaś cakārāpāṃ yad garbho 'vṛṇīta devān |
adadhād indre pavamāna ojo 'janayat sūrye jyotir induḥ ||म॒हत् । तत् । सोमः॑ । म॒हि॒षः । च॒का॒र॒ । अ॒पाम् । यत् । गर्भः॑ । अवृ॑णीत । दे॒वान् ।
अद॑धात् । इन्द्रे॑ । पव॑मानः । ओजः॑ । अज॑नयत् । सूर्ये॑ । ज्योतिः॑ । इन्दुः॑ ॥महत् । तत् । सोमः । महिषः । चकार । अपाम् । यत् । गर्भः । अवृणीत । देवान् ।
अदधात् । इन्द्रे । पवमानः । ओजः । अजनयत् । सूर्ये । ज्योतिः । इन्दुः ॥mahát ǀ tát ǀ sómaḥ ǀ mahiṣáḥ ǀ cakāra ǀ apā́m ǀ yát ǀ gárbhaḥ ǀ ávṛṇīta ǀ devā́n ǀ
ádadhāt ǀ índre ǀ pávamānaḥ ǀ ójaḥ ǀ ájanayat ǀ sū́rye ǀ jyótiḥ ǀ índuḥ ǁmahat ǀ tat ǀ somaḥ ǀ mahiṣaḥ ǀ cakāra ǀ apām ǀ yat ǀ garbhaḥ ǀ avṛṇīta ǀ devān ǀ
adadhāt ǀ indre ǀ pavamānaḥ ǀ ojaḥ ǀ ajanayat ǀ sūrye ǀ jyotiḥ ǀ induḥ ǁ9.97.41 Aṣṭaka 7.4.19.1Anuvāka 9.6.41
-
Ṛk 42
मत्सि॑ वा॒युमि॒ष्टये॒ राध॑से च॒ मत्सि॑ मि॒त्रावरु॑णा पू॒यमा॑नः ।
मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान्मत्सि॒ द्यावा॑पृथि॒वी दे॑व सोम ॥मत्सि वायुम् इष्टये राधसे च मत्सि मित्रावरुणा पूयमानः |
मत्सि शर्धो मारुतम् मत्सि देवान् मत्सि द्यावापृथिवी देव सोम ||mátsi vāyúmiṣṭáye rā́dhase ca mátsi mitrā́váruṇā pūyámānaḥ ǀ
mátsi śárdho mā́rutam mátsi devā́nmátsi dyā́vāpṛthivī́ deva soma ǁmatsi vāyum iṣṭaye rādhase ca matsi mitrāvaruṇā pūyamānaḥ |
matsi śardho mārutam matsi devān matsi dyāvāpṛthivī deva soma ||मत्सि॑ । वा॒युम् । इ॒ष्टये॑ । राध॑से । च॒ । मत्सि॑ । मि॒त्रावरु॑णा । पू॒यमा॑नः ।
मत्सि॑ । शर्धः॑ । मारु॑तम् । मत्सि॑ । दे॒वान् । मत्सि॑ । द्यावा॑पृथि॒वी इति॑ । दे॒व॒ । सो॒म॒ ॥मत्सि । वायुम् । इष्टये । राधसे । च । मत्सि । मित्रावरुणा । पूयमानः ।
मत्सि । शर्धः । मारुतम् । मत्सि । देवान् । मत्सि । द्यावापृथिवी इति । देव । सोम ॥mátsi ǀ vāyúm ǀ iṣṭáye ǀ rā́dhase ǀ ca ǀ mátsi ǀ mitrā́váruṇā ǀ pūyámānaḥ ǀ
mátsi ǀ śárdhaḥ ǀ mā́rutam ǀ mátsi ǀ devā́n ǀ mátsi ǀ dyā́vāpṛthivī́ íti ǀ deva ǀ soma ǁmatsi ǀ vāyum ǀ iṣṭaye ǀ rādhase ǀ ca ǀ matsi ǀ mitrāvaruṇā ǀ pūyamānaḥ ǀ
matsi ǀ śardhaḥ ǀ mārutam ǀ matsi ǀ devān ǀ matsi ǀ dyāvāpṛthivī iti ǀ deva ǀ soma ǁ9.97.42 Aṣṭaka 7.4.19.2Anuvāka 9.6.42
-
Ṛk 43
ऋ॒जुः प॑वस्व वृजि॒नस्य॑ हं॒तापामी॑वां॒ बाध॑मानो॒ मृध॑श्च ।
अ॒भि॒श्री॒णन्पयः॒ पय॑सा॒भि गोना॒मिंद्र॑स्य॒ त्वं तव॑ व॒यं सखा॑यः ॥ऋजुः पवस्व वृजिनस्य हन्तापामीवाम् बाधमानो मृधश् च |
अभिश्रीणन् पयः पयसाभि गोनाम् इन्द्रस्य त्वं तव वयं सखायः ||ṛjúḥ pavasva vṛjinásya hantā́pā́mīvām bā́dhamāno mṛ́dhaśca ǀ
abhiśrīṇánpáyaḥ páyasābhí gónāmíndrasya tvám táva vayám sákhāyaḥ ǁṛjuḥ pavasva vṛjinasya hantāpāmīvām bādhamāno mṛdhaś ca |
abhiśrīṇan payaḥ payasābhi gonām indrasya tvaṃ tava vayaṃ sakhāyaḥ ||ऋ॒जुः । प॒व॒स्व॒ । वृ॒जि॒नस्य॑ । ह॒न्ता । अप॑ । अमी॑वाम् । बाध॑मानः । मृधः॑ । च॒ ।
अ॒भि॒ऽश्री॒णन् । पयः॑ । पय॑सा । अ॒भि । गोना॑म् । इन्द्र॑स्य । त्वम् । तव॑ । व॒यम् । सखा॑यः ॥ऋजुः । पवस्व । वृजिनस्य । हन्ता । अप । अमीवाम् । बाधमानः । मृधः । च ।
अभिऽश्रीणन् । पयः । पयसा । अभि । गोनाम् । इन्द्रस्य । त्वम् । तव । वयम् । सखायः ॥ṛjúḥ ǀ pavasva ǀ vṛjinásya ǀ hantā́ ǀ ápa ǀ ámīvām ǀ bā́dhamānaḥ ǀ mṛ́dhaḥ ǀ ca ǀ
abhi-śrīṇán ǀ páyaḥ ǀ páyasā ǀ abhí ǀ gónām ǀ índrasya ǀ tvám ǀ táva ǀ vayám ǀ sákhāyaḥ ǁṛjuḥ ǀ pavasva ǀ vṛjinasya ǀ hantā ǀ apa ǀ amīvām ǀ bādhamānaḥ ǀ mṛdhaḥ ǀ ca ǀ
abhi-śrīṇan ǀ payaḥ ǀ payasā ǀ abhi ǀ gonām ǀ indrasya ǀ tvam ǀ tava ǀ vayam ǀ sakhāyaḥ ǁ9.97.43 Aṣṭaka 7.4.19.3Anuvāka 9.6.43
-
Ṛk 44
मध्वः॒ सूदं॑ पवस्व॒ वस्व॒ उत्सं॑ वी॒रं च॑ न॒ आ प॑वस्वा॒ भगं॑ च ।
स्वद॒स्वेंद्रा॑य॒ पव॑मान इंदो र॒यिं च॑ न॒ आ प॑वस्वा समु॒द्रात् ॥मध्वः सूदम् पवस्व वस्व उत्सं वीरं च न आ पवस्वा भगं च |
स्वदस्वेन्द्राय पवमान इन्दो रयिं च न आ पवस्वा समुद्रात् ||mádhvaḥ sū́dam pavasva vásva útsam vīrám ca na ā́ pavasvā bhágam ca ǀ
svádasvéndrāya pávamāna indo rayím ca na ā́ pavasvā samudrā́t ǁmadhvaḥ sūdam pavasva vasva utsaṃ vīraṃ ca na ā pavasvā bhagaṃ ca |
svadasvendrāya pavamāna indo rayiṃ ca na ā pavasvā samudrāt ||मध्वः॑ । सूद॑म् । प॒व॒स्व॒ । वस्वः॑ । उत्स॑म् । वी॒रम् । च॒ । नः॒ । आ । प॒व॒स्व॒ । भग॑म् । च॒ ।
स्वद॑स्व । इन्द्रा॑य । पव॑मानः । इ॒न्दो॒ इति॑ । र॒यिम् । च॒ । नः॒ । आ । प॒व॒स्व॒ । स॒मु॒द्रात् ॥मध्वः । सूदम् । पवस्व । वस्वः । उत्सम् । वीरम् । च । नः । आ । पवस्व । भगम् । च ।
स्वदस्व । इन्द्राय । पवमानः । इन्दो इति । रयिम् । च । नः । आ । पवस्व । समुद्रात् ॥mádhvaḥ ǀ sū́dam ǀ pavasva ǀ vásvaḥ ǀ útsam ǀ vīrám ǀ ca ǀ naḥ ǀ ā́ ǀ pavasva ǀ bhágam ǀ ca ǀ
svádasva ǀ índrāya ǀ pávamānaḥ ǀ indo íti ǀ rayím ǀ ca ǀ naḥ ǀ ā́ ǀ pavasva ǀ samudrā́t ǁmadhvaḥ ǀ sūdam ǀ pavasva ǀ vasvaḥ ǀ utsam ǀ vīram ǀ ca ǀ naḥ ǀ ā ǀ pavasva ǀ bhagam ǀ ca ǀ
svadasva ǀ indrāya ǀ pavamānaḥ ǀ indo iti ǀ rayim ǀ ca ǀ naḥ ǀ ā ǀ pavasva ǀ samudrāt ǁ9.97.44 Aṣṭaka 7.4.19.4Anuvāka 9.6.44
-
Ṛk 45
सोमः॑ सु॒तो धार॒यात्यो॒ न हित्वा॒ सिंधु॒र्न नि॒म्नम॒भि वा॒ज्य॑क्षाः ।
आ योनिं॒ वन्य॑मसदत्पुना॒नः समिंदु॒र्गोभि॑रसर॒त्सम॒द्भिः ॥सोमः सुतो धारयात्यो न हित्वा सिन्धुर् न निम्नम् अभि वाज्य् अक्षाः |
आ योनिं वन्यम् असदत् पुनानः सम् इन्दुर् गोभिर् असरत् सम् अद्भिः ||sómaḥ sutó dhā́rayā́tyo ná hítvā síndhurná nimnámabhí vājyákṣāḥ ǀ
ā́ yónim ványamasadatpunānáḥ sámíndurgóbhirasaratsámadbhíḥ ǁsomaḥ suto dhārayātyo na hitvā sindhur na nimnam abhi vājy akṣāḥ |
ā yoniṃ vanyam asadat punānaḥ sam indur gobhir asarat sam adbhiḥ ||सोमः॑ । सु॒तः । धार॑या । अत्यः॑ । न । हित्वा॑ । सिन्धुः॑ । न । नि॒म्नम् । अ॒भि । वा॒जी । अ॒क्षा॒रिति॑ ।
आ । योनि॑म् । वन्य॑म् । अ॒स॒द॒त् । पु॒ना॒नः । सम् । इन्दुः॑ । गोभिः॑ । अ॒स॒र॒त् । सम् । अ॒त्ऽभिः ॥सोमः । सुतः । धारया । अत्यः । न । हित्वा । सिन्धुः । न । निम्नम् । अभि । वाजी । अक्षारिति ।
आ । योनिम् । वन्यम् । असदत् । पुनानः । सम् । इन्दुः । गोभिः । असरत् । सम् । अत्ऽभिः ॥sómaḥ ǀ sutáḥ ǀ dhā́rayā ǀ átyaḥ ǀ ná ǀ hítvā ǀ síndhuḥ ǀ ná ǀ nimnám ǀ abhí ǀ vājī́ ǀ akṣāríti ǀ
ā́ ǀ yónim ǀ ványam ǀ asadat ǀ punānáḥ ǀ sám ǀ índuḥ ǀ góbhiḥ ǀ asarat ǀ sám ǀ at-bhíḥ ǁsomaḥ ǀ sutaḥ ǀ dhārayā ǀ atyaḥ ǀ na ǀ hitvā ǀ sindhuḥ ǀ na ǀ nimnam ǀ abhi ǀ vājī ǀ akṣāriti ǀ
ā ǀ yonim ǀ vanyam ǀ asadat ǀ punānaḥ ǀ sam ǀ induḥ ǀ gobhiḥ ǀ asarat ǀ sam ǀ at-bhiḥ ǁ9.97.45 Aṣṭaka 7.4.19.5Anuvāka 9.6.45
-
Ṛk 46
ए॒ष स्य ते॑ पवत इंद्र॒ सोम॑श्च॒मूषु॒ धीर॑ उश॒ते तव॑स्वान् ।
स्व॑र्चक्षा रथि॒रः स॒त्यशु॑ष्मः॒ कामो॒ न यो दे॑वय॒तामस॑र्जि ॥एष स्य ते पवत इन्द्र सोमश् चमूषु धीर उशते तवस्वान् |
स्वर्चक्षा रथिरः सत्यशुष्मः कामो न यो देवयताम् असर्जि ||eṣá syá te pavata indra sómaścamū́ṣu dhī́ra uśaté távasvān ǀ
svárcakṣā rathiráḥ satyáśuṣmaḥ kā́mo ná yó devayatā́másarji ǁeṣa sya te pavata indra somaś camūṣu dhīra uśate tavasvān |
svarcakṣā rathiraḥ satyaśuṣmaḥ kāmo na yo devayatām asarji ||ए॒षः । स्यः । ते॒ । प॒व॒ते॒ । इ॒न्द्र॒ । सोमः॑ । च॒मूषु॑ । धीरः॑ । उ॒श॒ते । तव॑स्वान् ।
स्वः॑ऽचक्षाः । र॒थि॒रः । स॒त्यऽशु॑ष्मः । कामः॑ । न । यः । दे॒व॒ऽय॒ताम् । अस॑र्जि ॥एषः । स्यः । ते । पवते । इन्द्र । सोमः । चमूषु । धीरः । उशते । तवस्वान् ।
स्वःऽचक्षाः । रथिरः । सत्यऽशुष्मः । कामः । न । यः । देवऽयताम् । असर्जि ॥eṣáḥ ǀ syáḥ ǀ te ǀ pavate ǀ indra ǀ sómaḥ ǀ camū́ṣu ǀ dhī́raḥ ǀ uśaté ǀ távasvān ǀ
sváḥ-cakṣāḥ ǀ rathiráḥ ǀ satyá-śuṣmaḥ ǀ kā́maḥ ǀ ná ǀ yáḥ ǀ deva-yatā́m ǀ ásarji ǁeṣaḥ ǀ syaḥ ǀ te ǀ pavate ǀ indra ǀ somaḥ ǀ camūṣu ǀ dhīraḥ ǀ uśate ǀ tavasvān ǀ
svaḥ-cakṣāḥ ǀ rathiraḥ ǀ satya-śuṣmaḥ ǀ kāmaḥ ǀ na ǀ yaḥ ǀ deva-yatām ǀ asarji ǁ9.97.46 Aṣṭaka 7.4.20.1Anuvāka 9.6.46
-
Ṛk 47
ए॒ष प्र॒त्नेन॒ वय॑सा पुना॒नस्ति॒रो वर्पां॑सि दुहि॒तुर्दधा॑नः ।
वसा॑नः॒ शर्म॑ त्रि॒वरू॑थम॒प्सु होते॑व याति॒ सम॑नेषु॒ रेभ॑न् ॥एष प्रत्नेन वयसा पुनानस् तिरो वर्पांसि दुहितुर् दधानः |
वसानः शर्म त्रिवरूथम् अप्सु होतेव याति समनेषु रेभन् ||eṣá pratnéna váyasā punānástiró várpāṃsi duhitúrdádhānaḥ ǀ
vásānaḥ śárma trivárūthamapsú hóteva yāti sámaneṣu rébhan ǁeṣa pratnena vayasā punānas tiro varpāṃsi duhitur dadhānaḥ |
vasānaḥ śarma trivarūtham apsu hoteva yāti samaneṣu rebhan ||ए॒षः । प्र॒त्नेन॑ । वय॑सा । पु॒ना॒नः । ति॒रः । वर्पां॑सि । दु॒हि॒तुः । दधा॑नः ।
वसा॑नः । शर्म॑ । त्रि॒ऽवरू॑थम् । अ॒प्ऽसु । होता॑ऽइव । या॒ति॒ । सम॑नेषु । रेभ॑न् ॥एषः । प्रत्नेन । वयसा । पुनानः । तिरः । वर्पांसि । दुहितुः । दधानः ।
वसानः । शर्म । त्रिऽवरूथम् । अप्ऽसु । होताऽइव । याति । समनेषु । रेभन् ॥eṣáḥ ǀ pratnéna ǀ váyasā ǀ punānáḥ ǀ tiráḥ ǀ várpāṃsi ǀ duhitúḥ ǀ dádhānaḥ ǀ
vásānaḥ ǀ śárma ǀ tri-várūtham ǀ ap-sú ǀ hótā-iva ǀ yāti ǀ sámaneṣu ǀ rébhan ǁeṣaḥ ǀ pratnena ǀ vayasā ǀ punānaḥ ǀ tiraḥ ǀ varpāṃsi ǀ duhituḥ ǀ dadhānaḥ ǀ
vasānaḥ ǀ śarma ǀ tri-varūtham ǀ ap-su ǀ hotā-iva ǀ yāti ǀ samaneṣu ǀ rebhan ǁ9.97.47 Aṣṭaka 7.4.20.2Anuvāka 9.6.47
-
Ṛk 48
नू न॒स्त्वं र॑थि॒रो दे॑व सोम॒ परि॑ स्रव च॒म्वोः॑ पू॒यमा॑नः ।
अ॒प्सु स्वादि॑ष्ठो॒ मधु॑माँ ऋ॒तावा॑ दे॒वो न यः स॑वि॒ता स॒त्यम॑न्मा ॥नू नस् त्वं रथिरो देव सोम परि स्रव चम्वोः पूयमानः |
अप्सु स्वादिष्ठो मधुमां ऋतावा देवो न यः सविता सत्यमन्मा ||nū́ nastvám rathiró deva soma pári srava camvóḥ pūyámānaḥ ǀ
apsú svā́diṣṭho mádhumām̐ ṛtā́vā devó ná yáḥ savitā́ satyámanmā ǁnū nas tvaṃ rathiro deva soma pari srava camvoḥ pūyamānaḥ |
apsu svādiṣṭho madhumāṃ ṛtāvā devo na yaḥ savitā satyamanmā ||नु । नः॒ । त्वम् । र॒थि॒रः । दे॒व॒ । सो॒म॒ । परि॑ । स्र॒व॒ । च॒म्वोः॑ । पू॒यमा॑नः ।
अ॒प्ऽसु । स्वादि॑ष्ठः । मधु॑ऽमान् । ऋ॒तऽवा॑ । दे॒वः । न । यः । स॒वि॒ता । स॒त्यऽम॑न्मा ॥नु । नः । त्वम् । रथिरः । देव । सोम । परि । स्रव । चम्वोः । पूयमानः ।
अप्ऽसु । स्वादिष्ठः । मधुऽमान् । ऋतऽवा । देवः । न । यः । सविता । सत्यऽमन्मा ॥nú ǀ naḥ ǀ tvám ǀ rathiráḥ ǀ deva ǀ soma ǀ pári ǀ srava ǀ camvóḥ ǀ pūyámānaḥ ǀ
ap-sú ǀ svā́diṣṭhaḥ ǀ mádhu-mān ǀ ṛtá-vā ǀ deváḥ ǀ ná ǀ yáḥ ǀ savitā́ ǀ satyá-manmā ǁnu ǀ naḥ ǀ tvam ǀ rathiraḥ ǀ deva ǀ soma ǀ pari ǀ srava ǀ camvoḥ ǀ pūyamānaḥ ǀ
ap-su ǀ svādiṣṭhaḥ ǀ madhu-mān ǀ ṛta-vā ǀ devaḥ ǀ na ǀ yaḥ ǀ savitā ǀ satya-manmā ǁ9.97.48 Aṣṭaka 7.4.20.3Anuvāka 9.6.48
-
Ṛk 49
अ॒भि वा॒युं वी॒त्य॑र्षा गृणा॒नो॒३॒॑ऽभि मि॒त्रावरु॑णा पू॒यमा॑नः ।
अ॒भी नरं॑ धी॒जव॑नं रथे॒ष्ठाम॒भींद्रं॒ वृष॑णं॒ वज्र॑बाहुं ॥अभि वायुं वीत्य् अर्षा गृणानो ऽभि मित्रावरुणा पूयमानः |
अभी नरं धीजवनं रथेष्ठाम् अभीन्द्रं वृषणं वज्रबाहुम् ||abhí vāyúm vītyárṣā gṛṇānó’bhí mitrā́váruṇā pūyámānaḥ ǀ
abhī́ náram dhījávanam ratheṣṭhā́mabhī́ndram vṛ́ṣaṇam vájrabāhum ǁabhi vāyuṃ vīty arṣā gṛṇāno 'bhi mitrāvaruṇā pūyamānaḥ |
abhī naraṃ dhījavanaṃ ratheṣṭhām abhīndraṃ vṛṣaṇaṃ vajrabāhum ||अ॒भि । वा॒युम् । वी॒ती । अ॒र्ष॒ । गृ॒णा॒नः । अ॒भि । मि॒त्रावरु॑णा । पू॒यमा॑नः ।
अ॒भि । नर॑म् । धी॒ऽजव॑नम् । र॒थे॒ऽस्थाम् । अ॒भि । इन्द्र॑म् । वृष॑णम् । वज्र॑ऽबाहुम् ॥अभि । वायुम् । वीती । अर्ष । गृणानः । अभि । मित्रावरुणा । पूयमानः ।
अभि । नरम् । धीऽजवनम् । रथेऽस्थाम् । अभि । इन्द्रम् । वृषणम् । वज्रऽबाहुम् ॥abhí ǀ vāyúm ǀ vītī́ ǀ arṣa ǀ gṛṇānáḥ ǀ abhí ǀ mitrā́váruṇā ǀ pūyámānaḥ ǀ
abhí ǀ náram ǀ dhī-jávanam ǀ rathe-sthā́m ǀ abhí ǀ índram ǀ vṛ́ṣaṇam ǀ vájra-bāhum ǁabhi ǀ vāyum ǀ vītī ǀ arṣa ǀ gṛṇānaḥ ǀ abhi ǀ mitrāvaruṇā ǀ pūyamānaḥ ǀ
abhi ǀ naram ǀ dhī-javanam ǀ rathe-sthām ǀ abhi ǀ indram ǀ vṛṣaṇam ǀ vajra-bāhum ǁ9.97.49 Aṣṭaka 7.4.20.4Anuvāka 9.6.49
-
Ṛk 50
अ॒भि वस्त्रा॑ सुवस॒नान्य॑र्षा॒भि धे॒नूः सु॒दुघाः॑ पू॒यमा॑नः ।
अ॒भि चं॒द्रा भर्त॑वे नो॒ हिर॑ण्या॒भ्यश्वा॑न्र॒थिनो॑ देव सोम ॥अभि वस्त्रा सुवसनान्य् अर्षाभि धेनूः सुदुघाः पूयमानः |
अभि चन्द्रा भर्तवे नो हिरण्याभ्य् अश्वान् रथिनो देव सोम ||abhí vástrā suvasanā́nyarṣābhí dhenū́ḥ sudúghāḥ pūyámānaḥ ǀ
abhí candrā́ bhártave no híraṇyābhyáśvānrathíno deva soma ǁabhi vastrā suvasanāny arṣābhi dhenūḥ sudughāḥ pūyamānaḥ |
abhi candrā bhartave no hiraṇyābhy aśvān rathino deva soma ||अ॒भि । वस्त्रा॑ । सु॒ऽव॒स॒नानि॑ । अ॒र्ष॒ । अ॒भि । धे॒नूः । सु॒ऽदुघाः॑ । पू॒यमा॑नः ।
अ॒भि । च॒न्द्रा । भर्त॑वे । नः॒ । हिर॑ण्या । अ॒भि । अश्वा॑न् । र॒थिनः॑ । दे॒व॒ । सो॒म॒ ॥अभि । वस्त्रा । सुऽवसनानि । अर्ष । अभि । धेनूः । सुऽदुघाः । पूयमानः ।
अभि । चन्द्रा । भर्तवे । नः । हिरण्या । अभि । अश्वान् । रथिनः । देव । सोम ॥abhí ǀ vástrā ǀ su-vasanā́ni ǀ arṣa ǀ abhí ǀ dhenū́ḥ ǀ su-dúghāḥ ǀ pūyámānaḥ ǀ
abhí ǀ candrā́ ǀ bhártave ǀ naḥ ǀ híraṇyā ǀ abhí ǀ áśvān ǀ rathínaḥ ǀ deva ǀ soma ǁabhi ǀ vastrā ǀ su-vasanāni ǀ arṣa ǀ abhi ǀ dhenūḥ ǀ su-dughāḥ ǀ pūyamānaḥ ǀ
abhi ǀ candrā ǀ bhartave ǀ naḥ ǀ hiraṇyā ǀ abhi ǀ aśvān ǀ rathinaḥ ǀ deva ǀ soma ǁ9.97.50 Aṣṭaka 7.4.20.5Anuvāka 9.6.50
-
Ṛk 51
अ॒भी नो॑ अर्ष दि॒व्या वसू॑न्य॒भि विश्वा॒ पार्थि॑वा पू॒यमा॑नः ।
अ॒भि येन॒ द्रवि॑णम॒श्नवा॑मा॒भ्या॑र्षे॒यं ज॑मदग्नि॒वन्नः॑ ॥अभी नो अर्ष दिव्या वसून्य् अभि विश्वा पार्थिवा पूयमानः |
अभि येन द्रविणम् अश्नवामाभ्य् आर्षेयं जमदग्निवन् नः ||abhī́ no arṣa divyā́ vásūnyabhí víśvā pā́rthivā pūyámānaḥ ǀ
abhí yéna dráviṇamaśnávāmābhyā́rṣeyám jamadagnivánnaḥ ǁabhī no arṣa divyā vasūny abhi viśvā pārthivā pūyamānaḥ |
abhi yena draviṇam aśnavāmābhy ārṣeyaṃ jamadagnivan naḥ ||अ॒भि । नः॒ । अ॒र्ष॒ । दि॒व्या । वसू॑नि । अ॒भि । विश्वा॑ । पार्थि॑वा । पू॒यमा॑नः ।
अ॒भि । येन॑ । द्रवि॑णम् । अ॒श्नवा॑म । अ॒भि । आ॒र्षे॒यम् । ज॒म॒द॒ग्नि॒ऽवत् । नः॒ ॥अभि । नः । अर्ष । दिव्या । वसूनि । अभि । विश्वा । पार्थिवा । पूयमानः ।
अभि । येन । द्रविणम् । अश्नवाम । अभि । आर्षेयम् । जमदग्निऽवत् । नः ॥abhí ǀ naḥ ǀ arṣa ǀ divyā́ ǀ vásūni ǀ abhí ǀ víśvā ǀ pā́rthivā ǀ pūyámānaḥ ǀ
abhí ǀ yéna ǀ dráviṇam ǀ aśnávāma ǀ abhí ǀ ārṣeyám ǀ jamadagni-vát ǀ naḥ ǁabhi ǀ naḥ ǀ arṣa ǀ divyā ǀ vasūni ǀ abhi ǀ viśvā ǀ pārthivā ǀ pūyamānaḥ ǀ
abhi ǀ yena ǀ draviṇam ǀ aśnavāma ǀ abhi ǀ ārṣeyam ǀ jamadagni-vat ǀ naḥ ǁ9.97.51 Aṣṭaka 7.4.21.1Anuvāka 9.6.51
-
Ṛk 52
अ॒या प॒वा प॑वस्वै॒ना वसू॑नि माँश्च॒त्व इं॑दो॒ सर॑सि॒ प्र ध॑न्व ।
ब्र॒ध्नश्चि॒दत्र॒ वातो॒ न जू॒तः पु॑रु॒मेध॑श्चि॒त्तक॑वे॒ नरं॑ दात् ॥अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि प्र धन्व |
ब्रध्नश् चिद् अत्र वातो न जूतः पुरुमेधश् चित् तकवे नरं दात् ||ayā́ pavā́ pavasvainā́ vásūni mām̐ścatvá indo sárasi prá dhanva ǀ
bradhnáścidátra vā́to ná jūtáḥ purumédhaścittákave náram dāt ǁayā pavā pavasvainā vasūni māṃścatva indo sarasi pra dhanva |
bradhnaś cid atra vāto na jūtaḥ purumedhaś cit takave naraṃ dāt ||अ॒या । प॒वा । प॒व॒स्व॒ । ए॒ना । वसू॑नि । माँ॒श्च॒त्वे । इ॒न्दो॒ इति॑ । सर॑सि । प्र । ध॒न्व॒ ।
ब्र॒ध्नः । चि॒त् । अत्र॑ । वातः॑ । न । जू॒तः । पु॒रु॒ऽमेधः॑ । चि॒त् । तक॑वे । नर॑म् । दा॒त् ॥अया । पवा । पवस्व । एना । वसूनि । माँश्चत्वे । इन्दो इति । सरसि । प्र । धन्व ।
ब्रध्नः । चित् । अत्र । वातः । न । जूतः । पुरुऽमेधः । चित् । तकवे । नरम् । दात् ॥ayā́ ǀ pavā́ ǀ pavasva ǀ enā́ ǀ vásūni ǀ mām̐ścatvé ǀ indo íti ǀ sárasi ǀ prá ǀ dhanva ǀ
bradhnáḥ ǀ cit ǀ átra ǀ vā́taḥ ǀ ná ǀ jūtáḥ ǀ puru-médhaḥ ǀ cit ǀ tákave ǀ náram ǀ dāt ǁayā ǀ pavā ǀ pavasva ǀ enā ǀ vasūni ǀ mām̐ścatve ǀ indo iti ǀ sarasi ǀ pra ǀ dhanva ǀ
bradhnaḥ ǀ cit ǀ atra ǀ vātaḥ ǀ na ǀ jūtaḥ ǀ puru-medhaḥ ǀ cit ǀ takave ǀ naram ǀ dāt ǁ9.97.52 Aṣṭaka 7.4.21.2Anuvāka 9.6.52
-
Ṛk 53
उ॒त न॑ ए॒ना प॑व॒या प॑व॒स्वाधि॑ श्रु॒ते श्र॒वाय्य॑स्य ती॒र्थे ।
ष॒ष्टिं स॒हस्रा॑ नैगु॒तो वसू॑नि वृ॒क्षं न प॒क्वं धू॑नव॒द्रणा॑य ॥उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे |
षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद् रणाय ||utá na enā́ pavayā́ pavasvā́dhi śruté śravā́yyasya tīrthé ǀ
ṣaṣṭím sahásrā naigutó vásūni vṛkṣám ná pakvám dhūnavadráṇāya ǁuta na enā pavayā pavasvādhi śrute śravāyyasya tīrthe |
ṣaṣṭiṃ sahasrā naiguto vasūni vṛkṣaṃ na pakvaṃ dhūnavad raṇāya ||उ॒त । नः॒ । ए॒ना । प॒व॒या । प॒व॒स्व॒ । अधि॑ । श्रु॒ते । श्र॒वाय्य॑स्य । ती॒र्थे ।
ष॒ष्टिम् । स॒हस्रा॑ । नै॒गु॒तः । वसू॑नि । वृ॒क्षम् । न । प॒क्वम् । धू॒न॒व॒त् । रणा॑य ॥उत । नः । एना । पवया । पवस्व । अधि । श्रुते । श्रवाय्यस्य । तीर्थे ।
षष्टिम् । सहस्रा । नैगुतः । वसूनि । वृक्षम् । न । पक्वम् । धूनवत् । रणाय ॥utá ǀ naḥ ǀ enā́ ǀ pavayā́ ǀ pavasva ǀ ádhi ǀ śruté ǀ śravā́yyasya ǀ tīrthé ǀ
ṣaṣṭím ǀ sahásrā ǀ naigutáḥ ǀ vásūni ǀ vṛkṣám ǀ ná ǀ pakvám ǀ dhūnavat ǀ ráṇāya ǁuta ǀ naḥ ǀ enā ǀ pavayā ǀ pavasva ǀ adhi ǀ śrute ǀ śravāyyasya ǀ tīrthe ǀ
ṣaṣṭim ǀ sahasrā ǀ naigutaḥ ǀ vasūni ǀ vṛkṣam ǀ na ǀ pakvam ǀ dhūnavat ǀ raṇāya ǁ9.97.53 Aṣṭaka 7.4.21.3Anuvāka 9.6.53
-
Ṛk 54
मही॒मे अ॑स्य॒ वृष॒नाम॑ शू॒षे माँश्च॑त्वे वा॒ पृश॑ने वा॒ वध॑त्रे ।
अस्वा॑पयन्नि॒गुतः॑ स्ने॒हय॒च्चापा॒मित्राँ॒ अपा॒चितो॑ अचे॒तः ॥महीमे अस्य वृषनाम शूषे मांश्चत्वे वा पृशने वा वधत्रे |
अस्वापयन् निगुतः स्नेहयच् चापामित्रां अपाचितो अचेतः ||máhīmé asya vṛ́ṣanā́ma śūṣé mā́m̐ścatve vā pṛ́śane vā vádhatre ǀ
ásvāpayannigútaḥ sneháyaccā́pāmítrām̐ ápācíto acetáḥ ǁmahīme asya vṛṣanāma śūṣe māṃścatve vā pṛśane vā vadhatre |
asvāpayan nigutaḥ snehayac cāpāmitrāṃ apācito acetaḥ ||महि॑ । इ॒मे इति॑ । अ॒स्य॒ । वृष॒नाम॑ । शू॒षे इति॑ । माँ॒श्च॑त्वे । वा॒ । पृश॑ने । वा॒ । वध॑त्रे॒ इति॑ ।
अस्वा॑पयत् । नि॒ऽगुतः॑ । स्ने॒हय॑त् । च॒ । अप॑ । अ॒मित्रा॑न् । अप॑ । अ॒चितः॑ । अ॒च॒ । इ॒तः ॥महि । इमे इति । अस्य । वृषनाम । शूषे इति । माँश्चत्वे । वा । पृशने । वा । वधत्रे इति ।
अस्वापयत् । निऽगुतः । स्नेहयत् । च । अप । अमित्रान् । अप । अचितः । अच । इतः ॥máhi ǀ imé íti ǀ asya ǀ vṛ́ṣanā́ma ǀ śūṣé íti ǀ mām̐ścátve ǀ vā ǀ pṛ́śane ǀ vā ǀ vádhatre íti ǀ
ásvāpayat ǀ ni-gútaḥ ǀ sneháyat ǀ ca ǀ ápa ǀ amítrān ǀ ápa ǀ acítaḥ ǀ aca ǀ itáḥ ǁmahi ǀ ime iti ǀ asya ǀ vṛṣanāma ǀ śūṣe iti ǀ mām̐ścatve ǀ vā ǀ pṛśane ǀ vā ǀ vadhatre iti ǀ
asvāpayat ǀ ni-gutaḥ ǀ snehayat ǀ ca ǀ apa ǀ amitrān ǀ apa ǀ acitaḥ ǀ aca ǀ itaḥ ǁ9.97.54 Aṣṭaka 7.4.21.4Anuvāka 9.6.54
-
Ṛk 55
सं त्री प॒वित्रा॒ वित॑तान्ये॒ष्यन्वेकं॑ धावसि पू॒यमा॑नः ।
असि॒ भगो॒ असि॑ दा॒त्रस्य॑ दा॒तासि॑ म॒घवा॑ म॒घव॑द्भ्य इंदो ॥सं त्री पवित्रा विततान्य् एष्य् अन्व् एकं धावसि पूयमानः |
असि भगो असि दात्रस्य दातासि मघवा मघवद्भ्य इन्दो ||sám trī́ pavítrā vítatānyeṣyánvékam dhāvasi pūyámānaḥ ǀ
ási bhágo ási dātrásya dātā́si maghávā maghávadbhya indo ǁsaṃ trī pavitrā vitatāny eṣy anv ekaṃ dhāvasi pūyamānaḥ |
asi bhago asi dātrasya dātāsi maghavā maghavadbhya indo ||सम् । त्री । प॒वित्रा॑ । विऽत॑तानि । ए॒षि॒ । अनु॑ । एक॑म् । धा॒व॒सि॒ । पू॒यमा॑नः ।
असि॑ । भगः॑ । असि॑ । दा॒त्रस्य॑ । दा॒ता । असि॑ । म॒घऽवा॑ । म॒घव॑त्ऽभ्यः । इ॒न्दो॒ इति॑ ॥सम् । त्री । पवित्रा । विऽततानि । एषि । अनु । एकम् । धावसि । पूयमानः ।
असि । भगः । असि । दात्रस्य । दाता । असि । मघऽवा । मघवत्ऽभ्यः । इन्दो इति ॥sám ǀ trī́ ǀ pavítrā ǀ ví-tatāni ǀ eṣi ǀ ánu ǀ ékam ǀ dhāvasi ǀ pūyámānaḥ ǀ
ási ǀ bhágaḥ ǀ ási ǀ dātrásya ǀ dātā́ ǀ ási ǀ maghá-vā ǀ maghávat-bhyaḥ ǀ indo íti ǁsam ǀ trī ǀ pavitrā ǀ vi-tatāni ǀ eṣi ǀ anu ǀ ekam ǀ dhāvasi ǀ pūyamānaḥ ǀ
asi ǀ bhagaḥ ǀ asi ǀ dātrasya ǀ dātā ǀ asi ǀ magha-vā ǀ maghavat-bhyaḥ ǀ indo iti ǁ9.97.55 Aṣṭaka 7.4.21.5Anuvāka 9.6.55
-
Ṛk 56
ए॒ष वि॑श्व॒वित्प॑वते मनी॒षी सोमो॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ।
द्र॒प्साँ ई॒रय॑न्वि॒दथे॒ष्विंदु॒र्वि वार॒मव्यं॑ स॒मयाति॑ याति ॥एष विश्ववित् पवते मनीषी सोमो विश्वस्य भुवनस्य राजा |
द्रप्सां ईरयन् विदथेष्व् इन्दुर् वि वारम् अव्यं समयाति याति ||eṣá viśvavítpavate manīṣī́ sómo víśvasya bhúvanasya rā́jā ǀ
drapsā́m̐ īráyanvidátheṣvíndurví vā́ramávyam samáyā́ti yāti ǁeṣa viśvavit pavate manīṣī somo viśvasya bhuvanasya rājā |
drapsāṃ īrayan vidatheṣv indur vi vāram avyaṃ samayāti yāti ||ए॒षः । वि॒श्व॒ऽवित् । प॒व॒ते॒ । म॒नी॒षी । सोमः॑ । विश्व॑स्य । भुव॑नस्य । राजा॑ ।
द्र॒प्सान् । ई॒रय॑न् । वि॒दथे॑षु । इन्दुः॑ । वि । वार॑म् । अव्य॑म् । स॒मया॑ । अति॑ । या॒ति॒ ॥एषः । विश्वऽवित् । पवते । मनीषी । सोमः । विश्वस्य । भुवनस्य । राजा ।
द्रप्सान् । ईरयन् । विदथेषु । इन्दुः । वि । वारम् । अव्यम् । समया । अति । याति ॥eṣáḥ ǀ viśva-vít ǀ pavate ǀ manīṣī́ ǀ sómaḥ ǀ víśvasya ǀ bhúvanasya ǀ rā́jā ǀ
drapsā́n ǀ īráyan ǀ vidátheṣu ǀ índuḥ ǀ ví ǀ vā́ram ǀ ávyam ǀ samáyā ǀ áti ǀ yāti ǁeṣaḥ ǀ viśva-vit ǀ pavate ǀ manīṣī ǀ somaḥ ǀ viśvasya ǀ bhuvanasya ǀ rājā ǀ
drapsān ǀ īrayan ǀ vidatheṣu ǀ induḥ ǀ vi ǀ vāram ǀ avyam ǀ samayā ǀ ati ǀ yāti ǁ9.97.56 Aṣṭaka 7.4.22.1Anuvāka 9.6.56
-
Ṛk 57
इंदुं॑ रिहंति महि॒षा अद॑ब्धाः प॒दे रे॑भंति क॒वयो॒ न गृध्राः॑ ।
हि॒न्वंति॒ धीरा॑ द॒शभिः॒ क्षिपा॑भिः॒ समं॑जते रू॒पम॒पां रसे॑न ॥इन्दुं रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न गृध्राः |
हिन्वन्ति धीरा दशभिः क्षिपाभिः सम् अञ्जते रूपम् अपां रसेन ||índum rihanti mahiṣā́ ádabdhāḥ padé rebhanti kaváyo ná gṛ́dhrāḥ ǀ
hinvánti dhī́rā daśábhiḥ kṣípābhiḥ sámañjate rūpámapā́m rásena ǁinduṃ rihanti mahiṣā adabdhāḥ pade rebhanti kavayo na gṛdhrāḥ |
hinvanti dhīrā daśabhiḥ kṣipābhiḥ sam añjate rūpam apāṃ rasena ||इन्दु॑म् । रि॒ह॒न्ति॒ । म॒हि॒षाः । अद॑ब्धाः । प॒दे । रे॒भ॒न्ति॒ । क॒वयः॑ । न । गृध्राः॑ ।
हि॒न्वन्ति॑ । धीराः॑ । द॒शऽभिः॑ । क्षिपा॑भिः । सम् । अ॒ञ्ज॒ते॒ । रू॒पम् । अ॒पाम् । रसे॑न ॥इन्दुम् । रिहन्ति । महिषाः । अदब्धाः । पदे । रेभन्ति । कवयः । न । गृध्राः ।
हिन्वन्ति । धीराः । दशऽभिः । क्षिपाभिः । सम् । अञ्जते । रूपम् । अपाम् । रसेन ॥índum ǀ rihanti ǀ mahiṣā́ḥ ǀ ádabdhāḥ ǀ padé ǀ rebhanti ǀ kaváyaḥ ǀ ná ǀ gṛ́dhrāḥ ǀ
hinvánti ǀ dhī́rāḥ ǀ daśá-bhiḥ ǀ kṣípābhiḥ ǀ sám ǀ añjate ǀ rūpám ǀ apā́m ǀ rásena ǁindum ǀ rihanti ǀ mahiṣāḥ ǀ adabdhāḥ ǀ pade ǀ rebhanti ǀ kavayaḥ ǀ na ǀ gṛdhrāḥ ǀ
hinvanti ǀ dhīrāḥ ǀ daśa-bhiḥ ǀ kṣipābhiḥ ǀ sam ǀ añjate ǀ rūpam ǀ apām ǀ rasena ǁ9.97.57 Aṣṭaka 7.4.22.2Anuvāka 9.6.57
-
Ṛk 58
त्वया॑ व॒यं पव॑मानेन सोम॒ भरे॑ कृ॒तं वि चि॑नुयाम॒ शश्व॑त् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥त्वया वयम् पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् |
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ||tváyā vayám pávamānena soma bháre kṛtám ví cinuyāma śáśvat ǀ
tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyáuḥ ǁtvayā vayam pavamānena soma bhare kṛtaṃ vi cinuyāma śaśvat |
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||त्वया॑ । व॒यम् । पव॑मानेन । सो॒म॒ । भरे॑ । कृ॒तम् । वि । चि॒नु॒या॒म॒ । शश्व॑त् ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥त्वया । वयम् । पवमानेन । सोम । भरे । कृतम् । वि । चिनुयाम । शश्वत् ।
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥tváyā ǀ vayám ǀ pávamānena ǀ soma ǀ bháre ǀ kṛtám ǀ ví ǀ cinuyāma ǀ śáśvat ǀ
tát ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ mamahantām ǀ áditiḥ ǀ síndhuḥ ǀ pṛthivī́ ǀ utá ǀ dyáuḥ ǁtvayā ǀ vayam ǀ pavamānena ǀ soma ǀ bhare ǀ kṛtam ǀ vi ǀ cinuyāma ǀ śaśvat ǀ
tat ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ mamahantām ǀ aditiḥ ǀ sindhuḥ ǀ pṛthivī ǀ uta ǀ dyauḥ ǁ9.97.58 Aṣṭaka 7.4.22.3Anuvāka 9.6.58
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.