Ṛgveda · Maṇḍala 9

Sūkta 61

Soma Pavamāna · Amahīyu Āṅgirasa · 30 ṛks

Link
Devatā देवता
Soma Pavamāna
Ṛṣi ऋषि
Amahīyu Āṅgirasa
Chandas छन्दस्
Gāyatrī
Metres by ṛk

1st set of styles gāyatrī (2, 3, 6, 7, 9, 13, 14, 16, 17, 20, 21, 26-28); nicṛdgāyatrī (1, 4, 5, 8, 10, 12, 15, 18, 22-24, 29, 30); virāḍgāyatrī (11, 19); kakummatīgāyatrī (25)

2nd set of styles gāyatrī

  1. Ṛk 1

    अ॒या वी॒ती परि॑ स्रव॒ यस्त॑ इंदो॒ मदे॒ष्वा ।
    अ॒वाह॑न्नव॒तीर्नव॑ ॥

    अया वीती परि स्रव यस् त इन्दो मदेष्व् आ |
    अवाहन् नवतीर् नव ||

    ayā́ vītī́ pári srava yásta indo mádeṣvā́ ǀ
    avā́hannavatī́rnáva ǁ

    ayā vītī pari srava yas ta indo madeṣv ā |
    avāhan navatīr nava ||

    अ॒या । वी॒ती । परि॑ । स्र॒व॒ । यः । ते॒ । इ॒न्दो॒ इति॑ । मदे॑षु । आ ।
    अ॒व॒ऽअह॑न् । न॒व॒तीः । नव॑ ॥

    अया । वीती । परि । स्रव । यः । ते । इन्दो इति । मदेषु । आ ।
    अवऽअहन् । नवतीः । नव ॥

    ayā́ ǀ vītī́ ǀ pári ǀ srava ǀ yáḥ ǀ te ǀ indo íti ǀ mádeṣu ǀ ā́ ǀ
    ava-áhan ǀ navatī́ḥ ǀ náva ǁ

    ayā ǀ vītī ǀ pari ǀ srava ǀ yaḥ ǀ te ǀ indo iti ǀ madeṣu ǀ ā ǀ
    ava-ahan ǀ navatīḥ ǀ nava ǁ

    9.61.1 Aṣṭaka 7.1.18.1Anuvāka 9.3.1

  2. Ṛk 2

    पुरः॑ स॒द्य इ॒त्थाधि॑ये॒ दिवो॑दासाय॒ शंब॑रं ।
    अध॒ त्यं तु॒र्वशं॒ यदुं॑ ॥

    पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम् |
    अध त्यं तुर्वशं यदुम् ||

    púraḥ sadyá itthā́dhiye dívodāsāya śámbaram ǀ
    ádha tyám turváśam yádum ǁ

    puraḥ sadya itthādhiye divodāsāya śambaram |
    adha tyaṃ turvaśaṃ yadum ||

    पुरः॑ । स॒द्यः । इ॒त्थाऽधि॑ये । दिवः॑ऽदासाय । शम्ब॑रम् ।
    अध॑ । त्यम् । तु॒र्वश॑म् । यदु॑म् ॥

    पुरः । सद्यः । इत्थाऽधिये । दिवःऽदासाय । शम्बरम् ।
    अध । त्यम् । तुर्वशम् । यदुम् ॥

    púraḥ ǀ sadyáḥ ǀ itthā́-dhiye ǀ dívaḥ-dāsāya ǀ śámbaram ǀ
    ádha ǀ tyám ǀ turváśam ǀ yádum ǁ

    puraḥ ǀ sadyaḥ ǀ itthā-dhiye ǀ divaḥ-dāsāya ǀ śambaram ǀ
    adha ǀ tyam ǀ turvaśam ǀ yadum ǁ

    9.61.2 Aṣṭaka 7.1.18.2Anuvāka 9.3.2

  3. Ṛk 3

    परि॑ णो॒ अश्व॑मश्व॒विद्गोम॑दिंदो॒ हिर॑ण्यवत् ।
    क्षरा॑ सह॒स्रिणी॒रिषः॑ ॥

    परि णो अश्वम् अश्वविद् गोमद् इन्दो हिरण्यवत् |
    क्षरा सहस्रिणीर् इषः ||

    pári ṇo áśvamaśvavídgómadindo híraṇyavat ǀ
    kṣárā sahasríṇīríṣaḥ ǁ

    pari ṇo aśvam aśvavid gomad indo hiraṇyavat |
    kṣarā sahasriṇīr iṣaḥ ||

    परि॑ । नः॒ । अश्व॑म् । अ॒श्व॒ऽवित् । गोऽम॑त् । इ॒न्दो॒ इति॑ । हिर॑ण्यऽवत् ।
    क्षर॑ । स॒ह॒स्रिणीः॑ । इषः॑ ॥

    परि । नः । अश्वम् । अश्वऽवित् । गोऽमत् । इन्दो इति । हिरण्यऽवत् ।
    क्षर । सहस्रिणीः । इषः ॥

    pári ǀ naḥ ǀ áśvam ǀ aśva-vít ǀ gó-mat ǀ indo íti ǀ híraṇya-vat ǀ
    kṣára ǀ sahasríṇīḥ ǀ íṣaḥ ǁ

    pari ǀ naḥ ǀ aśvam ǀ aśva-vit ǀ go-mat ǀ indo iti ǀ hiraṇya-vat ǀ
    kṣara ǀ sahasriṇīḥ ǀ iṣaḥ ǁ

    9.61.3 Aṣṭaka 7.1.18.3Anuvāka 9.3.3

  4. Ṛk 4

    पव॑मानस्य ते व॒यं प॒वित्र॑मभ्युंद॒तः ।
    स॒खि॒त्वमा वृ॑णीमहे ॥

    पवमानस्य ते वयम् पवित्रम् अभ्युन्दतः |
    सखित्वम् आ वृणीमहे ||

    pávamānasya te vayám pavítramabhyundatáḥ ǀ
    sakhitvámā́ vṛṇīmahe ǁ

    pavamānasya te vayam pavitram abhyundataḥ |
    sakhitvam ā vṛṇīmahe ||

    पव॑मानस्य । ते॒ । व॒यम् । प॒वित्र॑म् । अ॒भि॒ऽउ॒न्द॒तः ।
    स॒खि॒ऽत्वम् । आ । वृ॒णी॒म॒हे॒ ॥

    पवमानस्य । ते । वयम् । पवित्रम् । अभिऽउन्दतः ।
    सखिऽत्वम् । आ । वृणीमहे ॥

    pávamānasya ǀ te ǀ vayám ǀ pavítram ǀ abhi-undatáḥ ǀ
    sakhi-tvám ǀ ā́ ǀ vṛṇīmahe ǁ

    pavamānasya ǀ te ǀ vayam ǀ pavitram ǀ abhi-undataḥ ǀ
    sakhi-tvam ǀ ā ǀ vṛṇīmahe ǁ

    9.61.4 Aṣṭaka 7.1.18.4Anuvāka 9.3.4

  5. Ṛk 5

    ये ते॑ प॒वित्र॑मू॒र्मयो॑ऽभि॒क्षरं॑ति॒ धार॑या ।
    तेभि॑र्नः सोम मृळय ॥

    ये ते पवित्रम् ऊर्मयो ऽभिक्षरन्ति धारया |
    तेभिर् नः सोम मृऌअय ||

    yé te pavítramūrmáyo’bhikṣáranti dhā́rayā ǀ
    tébhirnaḥ soma mṛḷaya ǁ

    ye te pavitram ūrmayo 'bhikṣaranti dhārayā |
    tebhir naḥ soma mṛḷaya ||

    ये । ते॒ । प॒वित्र॑म् । ऊ॒र्मयः॑ । अ॒भि॒ऽक्षर॑न्ति । धार॑या ।
    तेभिः॑ । नः॒ । सो॒म॒ । मृ॒ळ॒य॒ ॥

    ये । ते । पवित्रम् । ऊर्मयः । अभिऽक्षरन्ति । धारया ।
    तेभिः । नः । सोम । मृळय ॥

    yé ǀ te ǀ pavítram ǀ ūrmáyaḥ ǀ abhi-kṣáranti ǀ dhā́rayā ǀ
    tébhiḥ ǀ naḥ ǀ soma ǀ mṛḷaya ǁ

    ye ǀ te ǀ pavitram ǀ ūrmayaḥ ǀ abhi-kṣaranti ǀ dhārayā ǀ
    tebhiḥ ǀ naḥ ǀ soma ǀ mṛḷaya ǁ

    9.61.5 Aṣṭaka 7.1.18.5Anuvāka 9.3.5

  6. Ṛk 6

    स नः॑ पुना॒न आ भ॑र र॒यिं वी॒रव॑ती॒मिषं॑ ।
    ईशा॑नः सोम वि॒श्वतः॑ ॥

    स नः पुनान आ भर रयिं वीरवतीम् इषम् |
    ईशानः सोम विश्वतः ||

    sá naḥ punāná ā́ bhara rayím vīrávatīmíṣam ǀ
    ī́śānaḥ soma viśvátaḥ ǁ

    sa naḥ punāna ā bhara rayiṃ vīravatīm iṣam |
    īśānaḥ soma viśvataḥ ||

    सः । नः॒ । पु॒ना॒नः । आ । भ॒र॒ । र॒यिम् । वी॒रऽव॑तीम् । इष॑म् ।
    ईशा॑नः । सो॒म॒ । वि॒श्वतः॑ ॥

    सः । नः । पुनानः । आ । भर । रयिम् । वीरऽवतीम् । इषम् ।
    ईशानः । सोम । विश्वतः ॥

    sáḥ ǀ naḥ ǀ punānáḥ ǀ ā́ ǀ bhara ǀ rayím ǀ vīrá-vatīm ǀ íṣam ǀ
    ī́śānaḥ ǀ soma ǀ viśvátaḥ ǁ

    saḥ ǀ naḥ ǀ punānaḥ ǀ ā ǀ bhara ǀ rayim ǀ vīra-vatīm ǀ iṣam ǀ
    īśānaḥ ǀ soma ǀ viśvataḥ ǁ

    9.61.6 Aṣṭaka 7.1.19.1Anuvāka 9.3.6

  7. Ṛk 7

    ए॒तमु॒ त्यं दश॒ क्षिपो॑ मृ॒जंति॒ सिंधु॑मातरं ।
    समा॑दि॒त्येभि॑रख्यत ॥

    एतम् उ त्यं दश क्षिपो मृजन्ति सिन्धुमातरम् |
    सम् आदित्येभिर् अख्यत ||

    etámu tyám dáśa kṣípo mṛjánti síndhumātaram ǀ
    sámādityébhirakhyata ǁ

    etam u tyaṃ daśa kṣipo mṛjanti sindhumātaram |
    sam ādityebhir akhyata ||

    ए॒तम् । ऊं॒ इति॑ । त्यम् । दश॑ । क्षिपः॑ । मृ॒जन्ति॑ । सिन्धु॑ऽमातरम् ।
    सम् । आ॒दि॒त्येभिः॑ । अ॒ख्य॒त॒ ॥

    एतम् । ऊं इति । त्यम् । दश । क्षिपः । मृजन्ति । सिन्धुऽमातरम् ।
    सम् । आदित्येभिः । अख्यत ॥

    etám ǀ ūṃ íti ǀ tyám ǀ dáśa ǀ kṣípaḥ ǀ mṛjánti ǀ síndhu-mātaram ǀ
    sám ǀ ādityébhiḥ ǀ akhyata ǁ

    etam ǀ ūṃ iti ǀ tyam ǀ daśa ǀ kṣipaḥ ǀ mṛjanti ǀ sindhu-mātaram ǀ
    sam ǀ ādityebhiḥ ǀ akhyata ǁ

    9.61.7 Aṣṭaka 7.1.19.2Anuvāka 9.3.7

  8. Ṛk 8

    समिंद्रे॑णो॒त वा॒युना॑ सु॒त ए॑ति प॒वित्र॒ आ ।
    सं सूर्य॑स्य र॒श्मिभिः॑ ॥

    सम् इन्द्रेणोत वायुना सुत एति पवित्र आ |
    सं सूर्यस्य रश्मिभिः ||

    sámíndreṇotá vāyúnā sutá eti pavítra ā́ ǀ
    sám sū́ryasya raśmíbhiḥ ǁ

    sam indreṇota vāyunā suta eti pavitra ā |
    saṃ sūryasya raśmibhiḥ ||

    सम् । इन्द्रे॑ण । उ॒त । वा॒युना॑ । सु॒तः । ए॒ति॒ । प॒वित्रे॑ । आ ।
    सम् । सूर्य॑स्य । र॒श्मिऽभिः॑ ॥

    सम् । इन्द्रेण । उत । वायुना । सुतः । एति । पवित्रे । आ ।
    सम् । सूर्यस्य । रश्मिऽभिः ॥

    sám ǀ índreṇa ǀ utá ǀ vāyúnā ǀ sutáḥ ǀ eti ǀ pavítre ǀ ā́ ǀ
    sám ǀ sū́ryasya ǀ raśmí-bhiḥ ǁ

    sam ǀ indreṇa ǀ uta ǀ vāyunā ǀ sutaḥ ǀ eti ǀ pavitre ǀ ā ǀ
    sam ǀ sūryasya ǀ raśmi-bhiḥ ǁ

    9.61.8 Aṣṭaka 7.1.19.3Anuvāka 9.3.8

  9. Ṛk 9

    स नो॒ भगा॑य वा॒यवे॑ पू॒ष्णे प॑वस्व॒ मधु॑मान् ।
    चारु॑र्मि॒त्रे वरु॑णे च ॥

    स नो भगाय वायवे पूष्णे पवस्व मधुमान् |
    चारुर् मित्रे वरुणे च ||

    sá no bhágāya vāyáve pūṣṇé pavasva mádhumān ǀ
    cā́rurmitré váruṇe ca ǁ

    sa no bhagāya vāyave pūṣṇe pavasva madhumān |
    cārur mitre varuṇe ca ||

    सः । नः॒ । भगा॑य । वा॒यवे॑ । पू॒ष्णे । प॒व॒स्व॒ । मधु॑ऽमान् ।
    चारुः॑ । मि॒त्रे । वरु॑णे । च॒ ॥

    सः । नः । भगाय । वायवे । पूष्णे । पवस्व । मधुऽमान् ।
    चारुः । मित्रे । वरुणे । च ॥

    sáḥ ǀ naḥ ǀ bhágāya ǀ vāyáve ǀ pūṣṇé ǀ pavasva ǀ mádhu-mān ǀ
    cā́ruḥ ǀ mitré ǀ váruṇe ǀ ca ǁ

    saḥ ǀ naḥ ǀ bhagāya ǀ vāyave ǀ pūṣṇe ǀ pavasva ǀ madhu-mān ǀ
    cāruḥ ǀ mitre ǀ varuṇe ǀ ca ǁ

    9.61.9 Aṣṭaka 7.1.19.4Anuvāka 9.3.9

  10. Ṛk 10

    उ॒च्चा ते॑ जा॒तमंध॑सो दि॒वि षद्भूम्या द॑दे ।
    उ॒ग्रं शर्म॒ महि॒ श्रवः॑ ॥

    उच्चा ते जातम् अन्धसो दिवि षद् भूम्य् आ ददे |
    उग्रं शर्म महि श्रवः ||

    uccā́ te jātámándhaso diví ṣádbhū́myā́ dade ǀ
    ugrám śárma máhi śrávaḥ ǁ

    uccā te jātam andhaso divi ṣad bhūmy ā dade |
    ugraṃ śarma mahi śravaḥ ||

    उ॒च्चा । ते॒ । जा॒तम् । अन्ध॑सः । दि॒वि । सत् । भूमिः॑ । आ । द॒दे॒ ।
    उ॒ग्रम् । शर्म॑ । महि॑ । श्रवः॑ ॥

    उच्चा । ते । जातम् । अन्धसः । दिवि । सत् । भूमिः । आ । ददे ।
    उग्रम् । शर्म । महि । श्रवः ॥

    uccā́ ǀ te ǀ jātám ǀ ándhasaḥ ǀ diví ǀ sát ǀ bhū́miḥ ǀ ā́ ǀ dade ǀ
    ugrám ǀ śárma ǀ máhi ǀ śrávaḥ ǁ

    uccā ǀ te ǀ jātam ǀ andhasaḥ ǀ divi ǀ sat ǀ bhūmiḥ ǀ ā ǀ dade ǀ
    ugram ǀ śarma ǀ mahi ǀ śravaḥ ǁ

    9.61.10 Aṣṭaka 7.1.19.5Anuvāka 9.3.10

  11. Ṛk 11

    ए॒ना विश्वा॑न्य॒र्य आ द्यु॒म्नानि॒ मानु॑षाणां ।
    सिषा॑संतो वनामहे ॥

    एना विश्वान्य् अर्य आ द्युम्नानि मानुषाणाम् |
    सिषासन्तो वनामहे ||

    enā́ víśvānyaryá ā́ dyumnā́ni mā́nuṣāṇām ǀ
    síṣāsanto vanāmahe ǁ

    enā viśvāny arya ā dyumnāni mānuṣāṇām |
    siṣāsanto vanāmahe ||

    ए॒ना । विश्वा॑नि । अ॒र्यः । आ । द्यु॒म्नानि॑ । मानु॑षाणाम् ।
    सिसा॑सन्तः । व॒ना॒म॒हे॒ ॥

    एना । विश्वानि । अर्यः । आ । द्युम्नानि । मानुषाणाम् ।
    सिसासन्तः । वनामहे ॥

    enā́ ǀ víśvāni ǀ aryáḥ ǀ ā́ ǀ dyumnā́ni ǀ mā́nuṣāṇām ǀ
    sísāsantaḥ ǀ vanāmahe ǁ

    enā ǀ viśvāni ǀ aryaḥ ǀ ā ǀ dyumnāni ǀ mānuṣāṇām ǀ
    sisāsantaḥ ǀ vanāmahe ǁ

    9.61.11 Aṣṭaka 7.1.20.1Anuvāka 9.3.11

  12. Ṛk 12

    स न॒ इंद्रा॑य॒ यज्य॑वे॒ वरु॑णाय म॒रुद्भ्यः॑ ।
    व॒रि॒वो॒वित्परि॑ स्रव ॥

    स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः |
    वरिवोवित् परि स्रव ||

    sá na índrāya yájyave váruṇāya marúdbhyaḥ ǀ
    varivovítpári srava ǁ

    sa na indrāya yajyave varuṇāya marudbhyaḥ |
    varivovit pari srava ||

    सः । नः॒ । इन्द्रा॑य । यज्य॑वे । वरु॑णाय । म॒रुत्ऽभ्यः॑ ।
    व॒रि॒वः॒ऽवित् । परि॑ । स्र॒व॒ ॥

    सः । नः । इन्द्राय । यज्यवे । वरुणाय । मरुत्ऽभ्यः ।
    वरिवःऽवित् । परि । स्रव ॥

    sáḥ ǀ naḥ ǀ índrāya ǀ yájyave ǀ váruṇāya ǀ marút-bhyaḥ ǀ
    varivaḥ-vít ǀ pári ǀ srava ǁ

    saḥ ǀ naḥ ǀ indrāya ǀ yajyave ǀ varuṇāya ǀ marut-bhyaḥ ǀ
    varivaḥ-vit ǀ pari ǀ srava ǁ

    9.61.12 Aṣṭaka 7.1.20.2Anuvāka 9.3.12

  13. Ṛk 13

    उपो॒ षु जा॒तम॒प्तुरं॒ गोभि॑र्भं॒गं परि॑ष्कृतं ।
    इंदुं॑ दे॒वा अ॑यासिषुः ॥

    उपो षु जातम् अप्तुरं गोभिर् भङ्गम् परिष्कृतम् |
    इन्दुं देवा अयासिषुः ||

    úpo ṣú jātámaptúram góbhirbhaṅgám páriṣkṛtam ǀ
    índum devā́ ayāsiṣuḥ ǁ

    upo ṣu jātam apturaṃ gobhir bhaṅgam pariṣkṛtam |
    induṃ devā ayāsiṣuḥ ||

    उपो॒ इति॑ । सु । जा॒तम् । अ॒प्ऽतुर॑म् । गोभिः॑ । भ॒ङ्गम् । परि॑ऽकृतम् ।
    इन्दु॑म् । दे॒वाः । अ॒या॒सि॒षुः॒ ॥

    उपो इति । सु । जातम् । अप्ऽतुरम् । गोभिः । भङ्गम् । परिऽकृतम् ।
    इन्दुम् । देवाः । अयासिषुः ॥

    úpo íti ǀ sú ǀ jātám ǀ ap-túram ǀ góbhiḥ ǀ bhaṅgám ǀ pári-kṛtam ǀ
    índum ǀ devā́ḥ ǀ ayāsiṣuḥ ǁ

    upo iti ǀ su ǀ jātam ǀ ap-turam ǀ gobhiḥ ǀ bhaṅgam ǀ pari-kṛtam ǀ
    indum ǀ devāḥ ǀ ayāsiṣuḥ ǁ

    9.61.13 Aṣṭaka 7.1.20.3Anuvāka 9.3.13

  14. Ṛk 14

    तमिद्व॑र्धंतु नो॒ गिरो॑ व॒त्सं सं॒शिश्व॑रीरिव ।
    य इंद्र॑स्य हृदं॒सनिः॑ ॥

    तम् इद् वर्धन्तु नो गिरो वत्सं संशिश्वरीर् इव |
    य इन्द्रस्य हृदंसनिः ||

    támídvardhantu no gíro vatsám saṃśíśvarīriva ǀ
    yá índrasya hṛdaṃsániḥ ǁ

    tam id vardhantu no giro vatsaṃ saṃśiśvarīr iva |
    ya indrasya hṛdaṃsaniḥ ||

    तम् । इत् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ । व॒त्सम् । सं॒शिश्व॑रीःऽइव ।
    यः । इन्द्र॑स्य । हृ॒द॒म्ऽसनिः॑ ॥

    तम् । इत् । वर्धन्तु । नः । गिरः । वत्सम् । संशिश्वरीःऽइव ।
    यः । इन्द्रस्य । हृदम्ऽसनिः ॥

    tám ǀ ít ǀ vardhantu ǀ naḥ ǀ gíraḥ ǀ vatsám ǀ saṃśíśvarīḥ-iva ǀ
    yáḥ ǀ índrasya ǀ hṛdam-sániḥ ǁ

    tam ǀ it ǀ vardhantu ǀ naḥ ǀ giraḥ ǀ vatsam ǀ saṃśiśvarīḥ-iva ǀ
    yaḥ ǀ indrasya ǀ hṛdam-saniḥ ǁ

    9.61.14 Aṣṭaka 7.1.20.4Anuvāka 9.3.14

  15. Ṛk 15

    अर्षा॑ णः सोम॒ शं गवे॑ धु॒क्षस्व॑ पि॒प्युषी॒मिषं॑ ।
    वर्धा॑ समु॒द्रमु॒क्थ्यं॑ ॥

    अर्षा णः सोम शं गवे धुक्षस्व पिप्युषीम् इषम् |
    वर्धा समुद्रम् उक्थ्यम् ||

    árṣā ṇaḥ soma śám gáve dhukṣásva pipyúṣīmíṣam ǀ
    várdhā samudrámukthyám ǁ

    arṣā ṇaḥ soma śaṃ gave dhukṣasva pipyuṣīm iṣam |
    vardhā samudram ukthyam ||

    अर्ष॑ । नः॒ । सो॒म॒ । शम् । गवे॑ । धु॒क्षस्व॑ । पि॒प्युषी॑म् । इष॑म् ।
    वर्ध॑ । स॒मु॒द्रम् । उ॒क्थ्य॑म् ॥

    अर्ष । नः । सोम । शम् । गवे । धुक्षस्व । पिप्युषीम् । इषम् ।
    वर्ध । समुद्रम् । उक्थ्यम् ॥

    árṣa ǀ naḥ ǀ soma ǀ śám ǀ gáve ǀ dhukṣásva ǀ pipyúṣīm ǀ íṣam ǀ
    várdha ǀ samudrám ǀ ukthyám ǁ

    arṣa ǀ naḥ ǀ soma ǀ śam ǀ gave ǀ dhukṣasva ǀ pipyuṣīm ǀ iṣam ǀ
    vardha ǀ samudram ǀ ukthyam ǁ

    9.61.15 Aṣṭaka 7.1.20.5Anuvāka 9.3.15

  16. Ṛk 16

    पव॑मानो अजीजनद्दि॒वश्चि॒त्रं न त॑न्य॒तुं ।
    ज्योति॑र्वैश्वान॒रं बृ॒हत् ॥

    पवमानो अजीजनद् दिवश् चित्रं न तन्यतुम् |
    ज्योतिर् वैश्वानरम् बृहत् ||

    pávamāno ajījanaddiváścitrám ná tanyatúm ǀ
    jyótirvaiśvānarám bṛhát ǁ

    pavamāno ajījanad divaś citraṃ na tanyatum |
    jyotir vaiśvānaram bṛhat ||

    पव॑मानः । अ॒जी॒ज॒न॒त् । दि॒वः । चि॒त्रम् । न । त॒न्य॒तुम् ।
    ज्योतिः॑ । वै॒श्वा॒न॒रम् । बृ॒हत् ॥

    पवमानः । अजीजनत् । दिवः । चित्रम् । न । तन्यतुम् ।
    ज्योतिः । वैश्वानरम् । बृहत् ॥

    pávamānaḥ ǀ ajījanat ǀ diváḥ ǀ citrám ǀ ná ǀ tanyatúm ǀ
    jyótiḥ ǀ vaiśvānarám ǀ bṛhát ǁ

    pavamānaḥ ǀ ajījanat ǀ divaḥ ǀ citram ǀ na ǀ tanyatum ǀ
    jyotiḥ ǀ vaiśvānaram ǀ bṛhat ǁ

    9.61.16 Aṣṭaka 7.1.21.1Anuvāka 9.3.16

  17. Ṛk 17

    पव॑मानस्य ते॒ रसो॒ मदो॑ राजन्नदुच्छु॒नः ।
    वि वार॒मव्य॑मर्षति ॥

    पवमानस्य ते रसो मदो राजन्न् अदुच्छुनः |
    वि वारम् अव्यम् अर्षति ||

    pávamānasya te ráso mádo rājannaducchunáḥ ǀ
    ví vā́ramávyamarṣati ǁ

    pavamānasya te raso mado rājann aducchunaḥ |
    vi vāram avyam arṣati ||

    पव॑मानस्य । ते॒ । रसः॑ । मदः॑ । रा॒ज॒न् । अ॒दु॒च्छु॒नः ।
    वि । वार॑म् । अव्य॑म् । अ॒र्ष॒ति॒ ॥

    पवमानस्य । ते । रसः । मदः । राजन् । अदुच्छुनः ।
    वि । वारम् । अव्यम् । अर्षति ॥

    pávamānasya ǀ te ǀ rásaḥ ǀ mádaḥ ǀ rājan ǀ aducchunáḥ ǀ
    ví ǀ vā́ram ǀ ávyam ǀ arṣati ǁ

    pavamānasya ǀ te ǀ rasaḥ ǀ madaḥ ǀ rājan ǀ aducchunaḥ ǀ
    vi ǀ vāram ǀ avyam ǀ arṣati ǁ

    9.61.17 Aṣṭaka 7.1.21.2Anuvāka 9.3.17

  18. Ṛk 18

    पव॑मान॒ रस॒स्तव॒ दक्षो॒ वि रा॑जति द्यु॒मान् ।
    ज्योति॒र्विश्वं॒ स्व॑र्दृ॒शे ॥

    पवमान रसस् तव दक्षो वि राजति द्युमान् |
    ज्योतिर् विश्वं स्वर् दृशे ||

    pávamāna rásastáva dákṣo ví rājati dyumā́n ǀ
    jyótirvíśvam svárdṛśé ǁ

    pavamāna rasas tava dakṣo vi rājati dyumān |
    jyotir viśvaṃ svar dṛśe ||

    पव॑मान । रसः॑ । तव॑ । दक्षः॑ । वि । रा॒ज॒ति॒ । द्यु॒ऽमान् ।
    ज्योतिः॑ । विश्व॑म् । स्वः॑ । दृ॒शे ॥

    पवमान । रसः । तव । दक्षः । वि । राजति । द्युऽमान् ।
    ज्योतिः । विश्वम् । स्वः । दृशे ॥

    pávamāna ǀ rásaḥ ǀ táva ǀ dákṣaḥ ǀ ví ǀ rājati ǀ dyu-mā́n ǀ
    jyótiḥ ǀ víśvam ǀ sváḥ ǀ dṛśé ǁ

    pavamāna ǀ rasaḥ ǀ tava ǀ dakṣaḥ ǀ vi ǀ rājati ǀ dyu-mān ǀ
    jyotiḥ ǀ viśvam ǀ svaḥ ǀ dṛśe ǁ

    9.61.18 Aṣṭaka 7.1.21.3Anuvāka 9.3.18

  19. Ṛk 19

    यस्ते॒ मदो॒ वरे॑ण्य॒स्तेना॑ पव॒स्वांध॑सा ।
    दे॒वा॒वीर॑घशंस॒हा ॥

    यस् ते मदो वरेण्यस् तेना पवस्वान्धसा |
    देवावीर् अघशंसहा ||

    yáste mádo váreṇyasténā pavasvā́ndhasā ǀ
    devāvī́raghaśaṃsahā́ ǁ

    yas te mado vareṇyas tenā pavasvāndhasā |
    devāvīr aghaśaṃsahā ||

    यः । ते॒ । मदः॑ । वरे॑ण्यः । तेन॑ । प॒व॒स्व॒ । अन्ध॑सा ।
    दे॒व॒ऽअ॒वीः । अ॒घ॒शं॒स॒ऽहा ॥

    यः । ते । मदः । वरेण्यः । तेन । पवस्व । अन्धसा ।
    देवऽअवीः । अघशंसऽहा ॥

    yáḥ ǀ te ǀ mádaḥ ǀ váreṇyaḥ ǀ téna ǀ pavasva ǀ ándhasā ǀ
    deva-avī́ḥ ǀ aghaśaṃsa-hā́ ǁ

    yaḥ ǀ te ǀ madaḥ ǀ vareṇyaḥ ǀ tena ǀ pavasva ǀ andhasā ǀ
    deva-avīḥ ǀ aghaśaṃsa-hā ǁ

    9.61.19 Aṣṭaka 7.1.21.4Anuvāka 9.3.19

  20. Ṛk 20

    जघ्नि॑र्वृ॒त्रम॑मि॒त्रियं॒ सस्नि॒र्वाजं॑ दि॒वेदि॑वे ।
    गो॒षा उ॑ अश्व॒सा अ॑सि ॥

    जघ्निर् वृत्रम् अमित्रियं सस्निर् वाजं दिवे-दिवे |
    गोषा उ अश्वसा असि ||

    jághnirvṛtrámamitríyam sásnirvā́jam divédive ǀ
    goṣā́ u aśvasā́ asi ǁ

    jaghnir vṛtram amitriyaṃ sasnir vājaṃ dive-dive |
    goṣā u aśvasā asi ||

    जघ्निः॑ । वृ॒त्रम् । अ॒मि॒त्रिय॑म् । सस्निः॑ । वाज॑म् । दि॒वेऽदि॑वे ।
    गो॒ऽसाः । ऊं॒ इति॑ । अ॒श्व॒ऽसाः । अ॒सि॒ ॥

    जघ्निः । वृत्रम् । अमित्रियम् । सस्निः । वाजम् । दिवेऽदिवे ।
    गोऽसाः । ऊं इति । अश्वऽसाः । असि ॥

    jághniḥ ǀ vṛtrám ǀ amitríyam ǀ sásniḥ ǀ vā́jam ǀ divé-dive ǀ
    go-sā́ḥ ǀ ūṃ íti ǀ aśva-sā́ḥ ǀ asi ǁ

    jaghniḥ ǀ vṛtram ǀ amitriyam ǀ sasniḥ ǀ vājam ǀ dive-dive ǀ
    go-sāḥ ǀ ūṃ iti ǀ aśva-sāḥ ǀ asi ǁ

    9.61.20 Aṣṭaka 7.1.21.5Anuvāka 9.3.20

  21. Ṛk 21

    सम्मि॑श्लो अरु॒षो भ॑व सूप॒स्थाभि॒र्न धे॒नुभिः॑ ।
    सीदं॑छ्ये॒नो न योनि॒मा ॥

    सम्मिश्लो अरुषो भव सूपस्थाभिर् न धेनुभिः |
    सीदञ् छ्येनो न योनिम् आ ||

    sámmiślo aruṣó bhava sūpasthā́bhirná dhenúbhiḥ ǀ
    sī́dañchyenó ná yónimā́ ǁ

    sammiślo aruṣo bhava sūpasthābhir na dhenubhiḥ |
    sīdañ chyeno na yonim ā ||

    सम्ऽमि॑श्लः । अ॒रु॒षः । भ॒व॒ । सु॒ऽउ॒प॒स्थाभिः॑ । न । धे॒नुऽभिः॑ ।
    सीद॑न् । श्ये॒नः । न । योनि॑म् । आ ॥

    सम्ऽमिश्लः । अरुषः । भव । सुऽउपस्थाभिः । न । धेनुऽभिः ।
    सीदन् । श्येनः । न । योनिम् । आ ॥

    sám-miślaḥ ǀ aruṣáḥ ǀ bhava ǀ su-upasthā́bhiḥ ǀ ná ǀ dhenú-bhiḥ ǀ
    sī́dan ǀ śyenáḥ ǀ ná ǀ yónim ǀ ā́ ǁ

    sam-miślaḥ ǀ aruṣaḥ ǀ bhava ǀ su-upasthābhiḥ ǀ na ǀ dhenu-bhiḥ ǀ
    sīdan ǀ śyenaḥ ǀ na ǀ yonim ǀ ā ǁ

    9.61.21 Aṣṭaka 7.1.22.1Anuvāka 9.3.21

  22. Ṛk 22

    स प॑वस्व॒ य आवि॒थेंद्रं॑ वृ॒त्राय॒ हंत॑वे ।
    व॒व्रि॒वांसं॑ म॒हीर॒पः ॥

    स पवस्व य आविथेन्द्रं वृत्राय हन्तवे |
    वव्रिवांसम् महीर् अपः ||

    sá pavasva yá ā́vithéndram vṛtrā́ya hántave ǀ
    vavrivā́ṃsam mahī́rapáḥ ǁ

    sa pavasva ya āvithendraṃ vṛtrāya hantave |
    vavrivāṃsam mahīr apaḥ ||

    सः । प॒व॒स्व॒ । यः । आवि॑थ । इन्द्र॑म् । वृ॒त्राय॑ । हन्त॑वे ।
    व॒व्रि॒ऽवांस॑म् । म॒हीः । अ॒पः ॥

    सः । पवस्व । यः । आविथ । इन्द्रम् । वृत्राय । हन्तवे ।
    वव्रिऽवांसम् । महीः । अपः ॥

    sáḥ ǀ pavasva ǀ yáḥ ǀ ā́vitha ǀ índram ǀ vṛtrā́ya ǀ hántave ǀ
    vavri-vā́ṃsam ǀ mahī́ḥ ǀ apáḥ ǁ

    saḥ ǀ pavasva ǀ yaḥ ǀ āvitha ǀ indram ǀ vṛtrāya ǀ hantave ǀ
    vavri-vāṃsam ǀ mahīḥ ǀ apaḥ ǁ

    9.61.22 Aṣṭaka 7.1.22.2Anuvāka 9.3.22

  23. Ṛk 23

    सु॒वीरा॑सो व॒यं धना॒ जये॑म सोम मीढ्वः ।
    पु॒ना॒नो व॑र्ध नो॒ गिरः॑ ॥

    सुवीरासो वयं धना जयेम सोम मीढ्वः |
    पुनानो वर्ध नो गिरः ||

    suvī́rāso vayám dhánā jáyema soma mīḍhvaḥ ǀ
    punānó vardha no gíraḥ ǁ

    suvīrāso vayaṃ dhanā jayema soma mīḍhvaḥ |
    punāno vardha no giraḥ ||

    सु॒ऽवीरा॑सः । व॒यम् । धना॑ । जये॑म । सो॒म॒ । मी॒ढ्वः॒ ।
    पु॒ना॒नः । व॒र्ध॒ । नः॒ । गिरः॑ ॥

    सुऽवीरासः । वयम् । धना । जयेम । सोम । मीढ्वः ।
    पुनानः । वर्ध । नः । गिरः ॥

    su-vī́rāsaḥ ǀ vayám ǀ dhánā ǀ jáyema ǀ soma ǀ mīḍhvaḥ ǀ
    punānáḥ ǀ vardha ǀ naḥ ǀ gíraḥ ǁ

    su-vīrāsaḥ ǀ vayam ǀ dhanā ǀ jayema ǀ soma ǀ mīḍhvaḥ ǀ
    punānaḥ ǀ vardha ǀ naḥ ǀ giraḥ ǁ

    9.61.23 Aṣṭaka 7.1.22.3Anuvāka 9.3.23

  24. Ṛk 24

    त्वोता॑स॒स्तवाव॑सा॒ स्याम॑ व॒न्वंत॑ आ॒मुरः॑ ।
    सोम॑ व्र॒तेषु॑ जागृहि ॥

    त्वोतासस् तवावसा स्याम वन्वन्त आमुरः |
    सोम व्रतेषु जागृहि ||

    tvótāsastávā́vasā syā́ma vanvánta āmúraḥ ǀ
    sóma vratéṣu jāgṛhi ǁ

    tvotāsas tavāvasā syāma vanvanta āmuraḥ |
    soma vrateṣu jāgṛhi ||

    त्वाऽऊ॑तासः । तव॑ । अव॑सा । स्याम॑ । व॒न्वन्तः॑ । आ॒ऽमुरः॑ ।
    सोम॑ । व्र॒तेषु॑ । जा॒गृ॒हि॒ ॥

    त्वाऽऊतासः । तव । अवसा । स्याम । वन्वन्तः । आऽमुरः ।
    सोम । व्रतेषु । जागृहि ॥

    tvā́-ūtāsaḥ ǀ táva ǀ ávasā ǀ syā́ma ǀ vanvántaḥ ǀ ā-múraḥ ǀ
    sóma ǀ vratéṣu ǀ jāgṛhi ǁ

    tvā-ūtāsaḥ ǀ tava ǀ avasā ǀ syāma ǀ vanvantaḥ ǀ ā-muraḥ ǀ
    soma ǀ vrateṣu ǀ jāgṛhi ǁ

    9.61.24 Aṣṭaka 7.1.22.4Anuvāka 9.3.24

  25. Ṛk 25

    अ॒प॒घ्नन्प॑वते॒ मृधोऽप॒ सोमो॒ अरा॑व्णः ।
    गच्छ॒न्निंद्र॑स्य निष्कृ॒तं ॥

    अपघ्नन् पवते मृधो ऽप सोमो अराव्णः |
    गच्छन्न् इन्द्रस्य निष्कृतम् ||

    apaghnánpavate mṛ́dhó’pa sómo árāvṇaḥ ǀ
    gácchanníndrasya niṣkṛtám ǁ

    apaghnan pavate mṛdho 'pa somo arāvṇaḥ |
    gacchann indrasya niṣkṛtam ||

    अ॒प॒ऽघ्नन् । प॒व॒ते॒ । मृधः॑ । अप॑ । सोमः॑ । अरा॑व्णः ।
    गच्छ॑न् । इन्द्र॑स्य । निः॒ऽकृ॒तम् ॥

    अपऽघ्नन् । पवते । मृधः । अप । सोमः । अराव्णः ।
    गच्छन् । इन्द्रस्य । निःऽकृतम् ॥

    apa-ghnán ǀ pavate ǀ mṛ́dhaḥ ǀ ápa ǀ sómaḥ ǀ árāvṇaḥ ǀ
    gácchan ǀ índrasya ǀ niḥ-kṛtám ǁ

    apa-ghnan ǀ pavate ǀ mṛdhaḥ ǀ apa ǀ somaḥ ǀ arāvṇaḥ ǀ
    gacchan ǀ indrasya ǀ niḥ-kṛtam ǁ

    9.61.25 Aṣṭaka 7.1.22.5Anuvāka 9.3.25

  26. Ṛk 26

    म॒हो नो॑ रा॒य आ भ॑र॒ पव॑मान ज॒ही मृधः॑ ।
    रास्वें॑दो वी॒रव॒द्यशः॑ ॥

    महो नो राय आ भर पवमान जही मृधः |
    रास्वेन्दो वीरवद् यशः ||

    mahó no rāyá ā́ bhara pávamāna jahī́ mṛ́dhaḥ ǀ
    rā́svendo vīrávadyáśaḥ ǁ

    maho no rāya ā bhara pavamāna jahī mṛdhaḥ |
    rāsvendo vīravad yaśaḥ ||

    म॒हः । नः॒ । रा॒यः । आ । भ॒र॒ । पव॑मान । ज॒हि । मृधः॑ ।
    रास्व॑ । इ॒न्दो॒ इति॑ । वी॒रऽव॑त् । यशः॑ ॥

    महः । नः । रायः । आ । भर । पवमान । जहि । मृधः ।
    रास्व । इन्दो इति । वीरऽवत् । यशः ॥

    maháḥ ǀ naḥ ǀ rāyáḥ ǀ ā́ ǀ bhara ǀ pávamāna ǀ jahí ǀ mṛ́dhaḥ ǀ
    rā́sva ǀ indo íti ǀ vīrá-vat ǀ yáśaḥ ǁ

    mahaḥ ǀ naḥ ǀ rāyaḥ ǀ ā ǀ bhara ǀ pavamāna ǀ jahi ǀ mṛdhaḥ ǀ
    rāsva ǀ indo iti ǀ vīra-vat ǀ yaśaḥ ǁ

    9.61.26 Aṣṭaka 7.1.23.1Anuvāka 9.3.26

  27. Ṛk 27

    न त्वा॑ श॒तं च॒न ह्रुतो॒ राधो॒ दित्सं॑त॒मा मि॑नन् ।
    यत्पु॑ना॒नो म॑ख॒स्यसे॑ ॥

    न त्वा शतं चन ह्रुतो राधो दित्सन्तम् आ मिनन् |
    यत् पुनानो मखस्यसे ||

    ná tvā śatám caná hrúto rā́dho dítsantamā́ minan ǀ
    yátpunānó makhasyáse ǁ

    na tvā śataṃ cana hruto rādho ditsantam ā minan |
    yat punāno makhasyase ||

    न । त्वा॒ । श॒तम् । च॒न । ह्रुतः॑ । राधः॑ । दित्स॑न्तम् । आ । मि॒न॒न् ।
    यत् । पु॒ना॒नः । म॒ख॒स्यसे॑ ॥

    न । त्वा । शतम् । चन । ह्रुतः । राधः । दित्सन्तम् । आ । मिनन् ।
    यत् । पुनानः । मखस्यसे ॥

    ná ǀ tvā ǀ śatám ǀ caná ǀ hrútaḥ ǀ rā́dhaḥ ǀ dítsantam ǀ ā́ ǀ minan ǀ
    yát ǀ punānáḥ ǀ makhasyáse ǁ

    na ǀ tvā ǀ śatam ǀ cana ǀ hrutaḥ ǀ rādhaḥ ǀ ditsantam ǀ ā ǀ minan ǀ
    yat ǀ punānaḥ ǀ makhasyase ǁ

    9.61.27 Aṣṭaka 7.1.23.2Anuvāka 9.3.27

  28. Ṛk 28

    पव॑स्वेंदो॒ वृषा॑ सु॒तः कृ॒धी नो॑ य॒शसो॒ जने॑ ।
    विश्वा॒ अप॒ द्विषो॑ जहि ॥

    पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने |
    विश्वा अप द्विषो जहि ||

    pávasvendo vṛ́ṣā sutáḥ kṛdhī́ no yaśáso jáne ǀ
    víśvā ápa dvíṣo jahi ǁ

    pavasvendo vṛṣā sutaḥ kṛdhī no yaśaso jane |
    viśvā apa dviṣo jahi ||

    पव॑स्व । इ॒न्दो॒ इति॑ । वृषा॑ । सु॒तः । कृ॒धि । नः॒ । य॒शसः॑ । जने॑ ।
    विश्वाः॑ । अप॑ । द्विषः॑ । ज॒हि॒ ॥

    पवस्व । इन्दो इति । वृषा । सुतः । कृधि । नः । यशसः । जने ।
    विश्वाः । अप । द्विषः । जहि ॥

    pávasva ǀ indo íti ǀ vṛ́ṣā ǀ sutáḥ ǀ kṛdhí ǀ naḥ ǀ yaśásaḥ ǀ jáne ǀ
    víśvāḥ ǀ ápa ǀ dvíṣaḥ ǀ jahi ǁ

    pavasva ǀ indo iti ǀ vṛṣā ǀ sutaḥ ǀ kṛdhi ǀ naḥ ǀ yaśasaḥ ǀ jane ǀ
    viśvāḥ ǀ apa ǀ dviṣaḥ ǀ jahi ǁ

    9.61.28 Aṣṭaka 7.1.23.3Anuvāka 9.3.28

  29. Ṛk 29

    अस्य॑ ते स॒ख्ये व॒यं तवें॑दो द्यु॒म्न उ॑त्त॒मे ।
    सा॒स॒ह्याम॑ पृतन्य॒तः ॥

    अस्य ते सख्ये वयं तवेन्दो द्युम्न उत्तमे |
    सासह्याम पृतन्यतः ||

    ásya te sakhyé vayám távendo dyumná uttamé ǀ
    sāsahyā́ma pṛtanyatáḥ ǁ

    asya te sakhye vayaṃ tavendo dyumna uttame |
    sāsahyāma pṛtanyataḥ ||

    अस्य॑ । ते॒ । स॒ख्ये । व॒यम् । तव॑ । इ॒न्दो॒ इति॑ । द्यु॒म्ने । उ॒त्ऽत॒मे ।
    स॒स॒ह्याम॑ । पृ॒त॒न्य॒तः ॥

    अस्य । ते । सख्ये । वयम् । तव । इन्दो इति । द्युम्ने । उत्ऽतमे ।
    ससह्याम । पृतन्यतः ॥

    ásya ǀ te ǀ sakhyé ǀ vayám ǀ táva ǀ indo íti ǀ dyumné ǀ ut-tamé ǀ
    sasahyā́ma ǀ pṛtanyatáḥ ǁ

    asya ǀ te ǀ sakhye ǀ vayam ǀ tava ǀ indo iti ǀ dyumne ǀ ut-tame ǀ
    sasahyāma ǀ pṛtanyataḥ ǁ

    9.61.29 Aṣṭaka 7.1.23.4Anuvāka 9.3.29

  30. Ṛk 30

    या ते॑ भी॒मान्यायु॑धा ति॒ग्मानि॒ संति॒ धूर्व॑णे ।
    रक्षा॑ समस्य नो नि॒दः ॥

    या ते भीमान्य् आयुधा तिग्मानि सन्ति धूर्वणे |
    रक्षा समस्य नो निदः ||

    yā́ te bhīmā́nyā́yudhā tigmā́ni sánti dhū́rvaṇe ǀ
    rákṣā samasya no nidáḥ ǁ

    yā te bhīmāny āyudhā tigmāni santi dhūrvaṇe |
    rakṣā samasya no nidaḥ ||

    या । ते॒ । भी॒मानि॑ । आयु॑धा । ति॒ग्मानि॑ । सन्ति॑ । धूर्व॑णे ।
    रक्ष॑ । स॒म॒स्य॒ । नः॒ । नि॒दः ॥

    या । ते । भीमानि । आयुधा । तिग्मानि । सन्ति । धूर्वणे ।
    रक्ष । समस्य । नः । निदः ॥

    yā́ ǀ te ǀ bhīmā́ni ǀ ā́yudhā ǀ tigmā́ni ǀ sánti ǀ dhū́rvaṇe ǀ
    rákṣa ǀ samasya ǀ naḥ ǀ nidáḥ ǁ

    yā ǀ te ǀ bhīmāni ǀ āyudhā ǀ tigmāni ǀ santi ǀ dhūrvaṇe ǀ
    rakṣa ǀ samasya ǀ naḥ ǀ nidaḥ ǁ

    9.61.30 Aṣṭaka 7.1.23.5Anuvāka 9.3.30

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 9.61 · Soma Pavamāna

Interpretations

Ralph T. H. Griffith

Ṛk 1

FLOW onward, Indu, with this food for him who in thy wild delight Battered the nine-and-ninety down,

Ṛk 2

Smote swiftly forts, and gambara, then Yadu and that Turvaga, For pious Divodāsa's sake.

Ṛk 3

Finder of horses, pour on us horses and wealth in kine and gold, And, Indu, food in boundless store.

Ṛk 4

We seek to win thy friendly love, even Pavamana's flowing o’er The limit of the cleansing sieve.

Ṛk 5

With those same waves which in their stream oyerflow the purifying sieve, Soma; be gracious unto us.

Ṛk 6

O Soma, being purified, bring us from all sides,—for thou canst,— Riches and food with hero sons.

Ṛk 7

Him here, the Child whom streams have borne, the ten swift fingers beautify With the Ādityas is he seen.

Ṛk 8

With Indra and with Vāyu he, effused, flows onward with,the beams Of Sūrya to the cleansing sieve.

Ṛk 9

Flow rich in sweets and lovely for our Bhaga, Vāyu, Pūṣan flow For Mitra and for Varuṇa.

Ṛk 10

High is thy juice's birth: though set in heaven, on earth it hath obtained Strong sheltering power and great renown.

Ṛk 11

Striving to win, with him we gain all wealth from the ungodly man, Yea, all the glories of mankind.

Ṛk 12

Finder of room and freedom, flow for Indra whom we must adore, For Varuṇa and the Marut host.

Ṛk 13

The Gods have come to Indu well-descended, beautified with milk, The active crusher of the foe.

Ṛk 14

Even as mother cows their calf, so let our praise-songs strengthen him, Yea, him who winneth Indra's heart.

Ṛk 15

Soma, pour blessings on our kine, pour forth the food that streams with milk Increase the sea that merits laud.

Ṛk 16

From heaven hath Pavamana made, as ’twere, the marvellous thunder, and The lofty light of all mankind.

Ṛk 17

The gladdening and auspicious juice of thee, of Pavamana, King! Flows o’er the woollen straining-cloth.

Ṛk 18

Thy juice, O Pavamana, sends its rays abroad like splendid skill, Like lustre, all heaven's light, to see.

Ṛk 19

Flow onward with that juice of thine most excellent, that brings delight, Slaying the wicked, dear to Gods.

Ṛk 20

Killing the foeman and his hate, and winning booty every day, Gainer art thou of steeds and kine.

Ṛk 21

Red-hued, be blended with the milk that seems to yield its lovely breast, Falcon-like resting in thine home.

Ṛk 22

Flow onward thou who strengthenedst Indra to slaughter Vṛtra who Compassed and stayed the mighty floods.

Ṛk 23

Soma who rainest gifts, may we win riches with our hero sons: Strengthen, as thou art cleansed, our hymns.

Ṛk 24

Aided by thee, and through thy grace, may we be slayers when we war: Watch, Soma, at our solemn rites.

Ṛk 25

Chasing our foemen, driving off the godless, Soma flowcth on, Going to Indra's special place.

Ṛk 26

O Pavamana, hither bring great riches, and destroy our foes: O Indu, grant heroic fame.

Ṛk 27

A hundred obstacles have ne’er checked thee when fain to give thy boons, When, being cleansed, thou combatest.

Ṛk 28

Indu, flow on, a mighty juice; glorify us among the folk: Drive all our enemies away.

Ṛk 29

Indu, in this thy friendship most lofty and glorious may we Subdue all those who war with us.