Ṛk 9.61.16
Saṃhitā
पव॑मानो अजीजनद्दि॒वश्चि॒त्रं न त॑न्य॒तुं ।
ज्योति॑र्वैश्वान॒रं बृ॒हत् ॥
पवमानो अजीजनद् दिवश् चित्रं न तन्यतुम् |
ज्योतिर् वैश्वानरम् बृहत् ||
pávamāno ajījanaddiváścitrám ná tanyatúm ǀ
jyótirvaiśvānarám bṛhát ǁ
pavamāno ajījanad divaś citraṃ na tanyatum |
jyotir vaiśvānaram bṛhat ||
Padapāṭha
पव॑मानः । अ॒जी॒ज॒न॒त् । दि॒वः । चि॒त्रम् । न । त॒न्य॒तुम् ।
ज्योतिः॑ । वै॒श्वा॒न॒रम् । बृ॒हत् ॥
पवमानः । अजीजनत् । दिवः । चित्रम् । न । तन्यतुम् ।
ज्योतिः । वैश्वानरम् । बृहत् ॥
pávamānaḥ ǀ ajījanat ǀ diváḥ ǀ citrám ǀ ná ǀ tanyatúm ǀ
jyótiḥ ǀ vaiśvānarám ǀ bṛhát ǁ
pavamānaḥ ǀ ajījanat ǀ divaḥ ǀ citram ǀ na ǀ tanyatum ǀ
jyotiḥ ǀ vaiśvānaram ǀ bṛhat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.061.16
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.1.21.01
- Maṇḍala · Anuvāka · Ṛk
- 09.03.016
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Amahīyu Āṅgirasa
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.