Sūkta 92
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Kaśyapa Mārīca
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (2, 4, 5); bhuriktriṣṭup (1); virāṭtrisṭup (3); triṣṭup (6)
2nd set of styles triṣṭubh
-
Ṛk 1
परि॑ सुवा॒नो हरि॑रं॒शुः प॒वित्रे॒ रथो॒ न स॑र्जि स॒नये॑ हिया॒नः ।
आप॒च्छ्लोक॑मिंद्रि॒यं पू॒यमा॑नः॒ प्रति॑ दे॒वाँ अ॑जुषत॒ प्रयो॑भिः ॥परि सुवानो हरिर् अंशुः पवित्रे रथो न सर्जि सनये हियानः |
आपच् छ्लोकम् इन्द्रियम् पूयमानः प्रति देवां अजुषत प्रयोभिः ||pári suvānó háriraṃśúḥ pavítre rátho ná sarji sanáye hiyānáḥ ǀ
ā́pacchlókamindriyám pūyámānaḥ práti devā́m̐ ajuṣata práyobhiḥ ǁpari suvāno harir aṃśuḥ pavitre ratho na sarji sanaye hiyānaḥ |
āpac chlokam indriyam pūyamānaḥ prati devāṃ ajuṣata prayobhiḥ ||परि॑ । सु॒वा॒नः । हरिः॑ । अं॒शुः । प॒वित्रे॑ । रथः॑ । न । स॒र्जि॒ । स॒नये॑ । हि॒या॒नः ।
आप॑त् । श्लोक॑म् । इ॒न्द्रि॒यम् । पू॒यमा॑नः । प्रति॑ । दे॒वान् । अ॒जु॒ष॒त॒ । प्रयः॑ऽभिः ॥परि । सुवानः । हरिः । अंशुः । पवित्रे । रथः । न । सर्जि । सनये । हियानः ।
आपत् । श्लोकम् । इन्द्रियम् । पूयमानः । प्रति । देवान् । अजुषत । प्रयःऽभिः ॥pári ǀ suvānáḥ ǀ háriḥ ǀ aṃśúḥ ǀ pavítre ǀ ráthaḥ ǀ ná ǀ sarji ǀ sanáye ǀ hiyānáḥ ǀ
ā́pat ǀ ślókam ǀ indriyám ǀ pūyámānaḥ ǀ práti ǀ devā́n ǀ ajuṣata ǀ práyaḥ-bhiḥ ǁpari ǀ suvānaḥ ǀ hariḥ ǀ aṃśuḥ ǀ pavitre ǀ rathaḥ ǀ na ǀ sarji ǀ sanaye ǀ hiyānaḥ ǀ
āpat ǀ ślokam ǀ indriyam ǀ pūyamānaḥ ǀ prati ǀ devān ǀ ajuṣata ǀ prayaḥ-bhiḥ ǁ9.92.1 Aṣṭaka 7.4.2.1Anuvāka 9.5.85
-
Ṛk 2
अच्छा॑ नृ॒चक्षा॑ असरत्प॒वित्रे॒ नाम॒ दधा॑नः क॒विर॑स्य॒ योनौ॑ ।
सीद॒न्होते॑व॒ सद॑ने च॒मूषूपे॑मग्म॒न्नृष॑यः स॒प्त विप्राः॑ ॥अच्छा नृचक्षा असरत् पवित्रे नाम दधानः कविर् अस्य योनौ |
सीदन् होतेव सदने चमूषूपेम् अग्मन्न् ऋषयः सप्त विप्राः ||ácchā nṛcákṣā asaratpavítre nā́ma dádhānaḥ kavírasya yónau ǀ
sī́danhóteva sádane camū́ṣū́pemagmannṛ́ṣayaḥ saptá víprāḥ ǁacchā nṛcakṣā asarat pavitre nāma dadhānaḥ kavir asya yonau |
sīdan hoteva sadane camūṣūpem agmann ṛṣayaḥ sapta viprāḥ ||अच्छ॑ । नृ॒ऽचक्षाः॑ । अ॒स॒र॒त् । प॒वित्रे॑ । नाम॑ । दधा॑नः । क॒विः । अ॒स्य॒ । योनौ॑ ।
सीद॑न् । होता॑ऽइव । सद॑ने । च॒मूषु॑ । उप॑ । ई॒म् । अ॒ग्म॒न् । ऋष॑यः । स॒प्त । विप्राः॑ ॥अच्छ । नृऽचक्षाः । असरत् । पवित्रे । नाम । दधानः । कविः । अस्य । योनौ ।
सीदन् । होताऽइव । सदने । चमूषु । उप । ईम् । अग्मन् । ऋषयः । सप्त । विप्राः ॥áccha ǀ nṛ-cákṣāḥ ǀ asarat ǀ pavítre ǀ nā́ma ǀ dádhānaḥ ǀ kavíḥ ǀ asya ǀ yónau ǀ
sī́dan ǀ hótā-iva ǀ sádane ǀ camū́ṣu ǀ úpa ǀ īm ǀ agman ǀ ṛ́ṣayaḥ ǀ saptá ǀ víprāḥ ǁaccha ǀ nṛ-cakṣāḥ ǀ asarat ǀ pavitre ǀ nāma ǀ dadhānaḥ ǀ kaviḥ ǀ asya ǀ yonau ǀ
sīdan ǀ hotā-iva ǀ sadane ǀ camūṣu ǀ upa ǀ īm ǀ agman ǀ ṛṣayaḥ ǀ sapta ǀ viprāḥ ǁ9.92.2 Aṣṭaka 7.4.2.2Anuvāka 9.5.86
-
Ṛk 3
प्र सु॑मे॒धा गा॑तु॒विद्वि॒श्वदे॑वः॒ सोमः॑ पुना॒नः सद॑ एति॒ नित्यं॑ ।
भुव॒द्विश्वे॑षु॒ काव्ये॑षु॒ रंतानु॒ जना॑न्यतते॒ पंच॒ धीरः॑ ॥प्र सुमेधा गातुविद् विश्वदेवः सोमः पुनानः सद एति नित्यम् |
भुवद् विश्वेषु काव्येषु रन्तानु जनान् यतते पञ्च धीरः ||prá sumedhā́ gātuvídviśvádevaḥ sómaḥ punānáḥ sáda eti nítyam ǀ
bhúvadvíśveṣu kā́vyeṣu rántā́nu jánānyatate páñca dhī́raḥ ǁpra sumedhā gātuvid viśvadevaḥ somaḥ punānaḥ sada eti nityam |
bhuvad viśveṣu kāvyeṣu rantānu janān yatate pañca dhīraḥ ||प्र । सु॒ऽमे॒धाः । गा॒तु॒ऽवित् । वि॒श्वऽदे॑वः । सोमः॑ । पु॒ना॒नः । सदः॑ । ए॒ति॒ । नित्य॑म् ।
भुव॑त् । विश्वे॑षु । काव्ये॑षु । रन्ता॑ । अनु॑ । जना॑न् । य॒त॒ते॒ । पञ्च॑ । धीरः॑ ॥प्र । सुऽमेधाः । गातुऽवित् । विश्वऽदेवः । सोमः । पुनानः । सदः । एति । नित्यम् ।
भुवत् । विश्वेषु । काव्येषु । रन्ता । अनु । जनान् । यतते । पञ्च । धीरः ॥prá ǀ su-medhā́ḥ ǀ gātu-vít ǀ viśvá-devaḥ ǀ sómaḥ ǀ punānáḥ ǀ sádaḥ ǀ eti ǀ nítyam ǀ
bhúvat ǀ víśveṣu ǀ kā́vyeṣu ǀ rántā ǀ ánu ǀ jánān ǀ yatate ǀ páñca ǀ dhī́raḥ ǁpra ǀ su-medhāḥ ǀ gātu-vit ǀ viśva-devaḥ ǀ somaḥ ǀ punānaḥ ǀ sadaḥ ǀ eti ǀ nityam ǀ
bhuvat ǀ viśveṣu ǀ kāvyeṣu ǀ rantā ǀ anu ǀ janān ǀ yatate ǀ pañca ǀ dhīraḥ ǁ9.92.3 Aṣṭaka 7.4.2.3Anuvāka 9.5.87
-
Ṛk 4
तव॒ त्ये सो॑म पवमान नि॒ण्ये विश्वे॑ दे॒वास्त्रय॑ एकाद॒शासः॑ ।
दश॑ स्व॒धाभि॒रधि॒ सानो॒ अव्ये॑ मृ॒जंति॑ त्वा न॒द्यः॑ स॒प्त य॒ह्वीः ॥तव त्ये सोम पवमान निण्ये विश्वे देवास् त्रय एकादशासः |
दश स्वधाभिर् अधि सानो अव्ये मृजन्ति त्वा नद्यः सप्त यह्वीः ||táva tyé soma pavamāna niṇyé víśve devā́stráya ekādaśā́saḥ ǀ
dáśa svadhā́bhirádhi sā́no ávye mṛjánti tvā nadyáḥ saptá yahvī́ḥ ǁtava tye soma pavamāna niṇye viśve devās traya ekādaśāsaḥ |
daśa svadhābhir adhi sāno avye mṛjanti tvā nadyaḥ sapta yahvīḥ ||तव॑ । त्ये । सो॒म॒ । प॒व॒मा॒न॒ । नि॒ण्ये । विश्वे॑ । दे॒वाः । त्रयः॑ । ए॒का॒द॒शासः॑ ।
दश॑ । स्व॒धाभिः॑ । अधि॑ । सानौ॑ । अव्ये॑ । मृ॒जन्ति॑ । त्वा॒ । न॒द्यः॑ । स॒प्त । य॒ह्वीः ॥तव । त्ये । सोम । पवमान । निण्ये । विश्वे । देवाः । त्रयः । एकादशासः ।
दश । स्वधाभिः । अधि । सानौ । अव्ये । मृजन्ति । त्वा । नद्यः । सप्त । यह्वीः ॥táva ǀ tyé ǀ soma ǀ pavamāna ǀ niṇyé ǀ víśve ǀ devā́ḥ ǀ tráyaḥ ǀ ekādaśā́saḥ ǀ
dáśa ǀ svadhā́bhiḥ ǀ ádhi ǀ sā́nau ǀ ávye ǀ mṛjánti ǀ tvā ǀ nadyáḥ ǀ saptá ǀ yahvī́ḥ ǁtava ǀ tye ǀ soma ǀ pavamāna ǀ niṇye ǀ viśve ǀ devāḥ ǀ trayaḥ ǀ ekādaśāsaḥ ǀ
daśa ǀ svadhābhiḥ ǀ adhi ǀ sānau ǀ avye ǀ mṛjanti ǀ tvā ǀ nadyaḥ ǀ sapta ǀ yahvīḥ ǁ9.92.4 Aṣṭaka 7.4.2.4Anuvāka 9.5.88
-
Ṛk 5
तन्नु स॒त्यं पव॑मानस्यास्तु॒ यत्र॒ विश्वे॑ का॒रवः॑ सं॒नसं॑त ।
ज्योति॒र्यदह्ने॒ अकृ॑णोदु लो॒कं प्राव॒न्मनुं॒ दस्य॑वे कर॒भीकं॑ ॥तन् नु सत्यम् पवमानस्यास्तु यत्र विश्वे कारवः संनसन्त |
ज्योतिर् यद् अह्ने अकृणोद् उ लोकम् प्रावन् मनुं दस्यवे कर् अभीकम् ||tánnú satyám pávamānasyāstu yátra víśve kārávaḥ saṃnásanta ǀ
jyótiryádáhne ákṛṇodu lokám prā́vanmánum dásyave karabhī́kam ǁtan nu satyam pavamānasyāstu yatra viśve kāravaḥ saṃnasanta |
jyotir yad ahne akṛṇod u lokam prāvan manuṃ dasyave kar abhīkam ||तत् । नु । स॒त्यम् । पव॑मानस्य । अ॒स्तु॒ । यत्र॑ । विश्वे॑ । का॒रवः॑ । स॒म्ऽनस॑न्त ।
ज्योतिः॑ । यत् । अह्ने॑ । अकृ॑णोत् । ऊं॒ इति॑ । लो॒कम् । प्र । आ॒व॒त् । मनु॑म् । दस्य॑वे । कः॒ । अ॒भीक॑म् ॥तत् । नु । सत्यम् । पवमानस्य । अस्तु । यत्र । विश्वे । कारवः । सम्ऽनसन्त ।
ज्योतिः । यत् । अह्ने । अकृणोत् । ऊं इति । लोकम् । प्र । आवत् । मनुम् । दस्यवे । कः । अभीकम् ॥tát ǀ nú ǀ satyám ǀ pávamānasya ǀ astu ǀ yátra ǀ víśve ǀ kārávaḥ ǀ sam-násanta ǀ
jyótiḥ ǀ yát ǀ áhne ǀ ákṛṇot ǀ ūṃ íti ǀ lokám ǀ prá ǀ āvat ǀ mánum ǀ dásyave ǀ kaḥ ǀ abhī́kam ǁtat ǀ nu ǀ satyam ǀ pavamānasya ǀ astu ǀ yatra ǀ viśve ǀ kāravaḥ ǀ sam-nasanta ǀ
jyotiḥ ǀ yat ǀ ahne ǀ akṛṇot ǀ ūṃ iti ǀ lokam ǀ pra ǀ āvat ǀ manum ǀ dasyave ǀ kaḥ ǀ abhīkam ǁ9.92.5 Aṣṭaka 7.4.2.5Anuvāka 9.5.89
-
Ṛk 6
परि॒ सद्मे॑व पशु॒मांति॒ होता॒ राजा॒ न स॒त्यः समि॑तीरिया॒नः ।
सोमः॑ पुना॒नः क॒लशाँ॑ अयासी॒त्सीद॑न्मृ॒गो न म॑हि॒षो वने॑षु ॥परि सद्मेव पशुमान्ति होता राजा न सत्यः समितीर् इयानः |
सोमः पुनानः कलशां अयासीत् सीदन् मृगो न महिषो वनेषु ||pári sádmeva paśumā́nti hótā rā́jā ná satyáḥ sámitīriyānáḥ ǀ
sómaḥ punānáḥ kaláśām̐ ayāsītsī́danmṛgó ná mahiṣó váneṣu ǁpari sadmeva paśumānti hotā rājā na satyaḥ samitīr iyānaḥ |
somaḥ punānaḥ kalaśāṃ ayāsīt sīdan mṛgo na mahiṣo vaneṣu ||परि॑ । सद्म॑ऽइव । प॒शु॒ऽमन्ति॑ । होता॑ । राजा॑ । न । स॒त्यः । सम्ऽइ॑तीः । इ॒या॒नः ।
सोमः॑ । पु॒ना॒नः । क॒लशा॑न् । अ॒या॒सी॒त् । सीद॑न् । मृ॒गः । न । म॒हि॒षः । वने॑षु ॥परि । सद्मऽइव । पशुऽमन्ति । होता । राजा । न । सत्यः । सम्ऽइतीः । इयानः ।
सोमः । पुनानः । कलशान् । अयासीत् । सीदन् । मृगः । न । महिषः । वनेषु ॥pári ǀ sádma-iva ǀ paśu-mánti ǀ hótā ǀ rā́jā ǀ ná ǀ satyáḥ ǀ sám-itīḥ ǀ iyānáḥ ǀ
sómaḥ ǀ punānáḥ ǀ kaláśān ǀ ayāsīt ǀ sī́dan ǀ mṛgáḥ ǀ ná ǀ mahiṣáḥ ǀ váneṣu ǁpari ǀ sadma-iva ǀ paśu-manti ǀ hotā ǀ rājā ǀ na ǀ satyaḥ ǀ sam-itīḥ ǀ iyānaḥ ǀ
somaḥ ǀ punānaḥ ǀ kalaśān ǀ ayāsīt ǀ sīdan ǀ mṛgaḥ ǀ na ǀ mahiṣaḥ ǀ vaneṣu ǁ9.92.6 Aṣṭaka 7.4.2.6Anuvāka 9.5.90
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.