Sūkta 43
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Medhyātithi Kāṇva
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (1, 2, 4, 5); nicṛdgāyatrī (3, 6)
2nd set of styles gāyatrī
-
Ṛk 1
यो अत्य॑ इव मृ॒ज्यते॒ गोभि॒र्मदा॑य हर्य॒तः ।
तं गी॒र्भिर्वा॑सयामसि ॥यो अत्य इव मृज्यते गोभिर् मदाय हर्यतः |
तं गीर्भिर् वासयामसि ||yó átya iva mṛjyáte góbhirmádāya haryatáḥ ǀ
tám gīrbhírvāsayāmasi ǁyo atya iva mṛjyate gobhir madāya haryataḥ |
taṃ gīrbhir vāsayāmasi ||यः । अत्यः॑ऽइव । मृ॒ज्यते॑ । गोभिः॑ । मदा॑य । ह॒र्य॒तः ।
तम् । गीः॒ऽभिः । वा॒स॒या॒म॒सि॒ ॥यः । अत्यःऽइव । मृज्यते । गोभिः । मदाय । हर्यतः ।
तम् । गीःऽभिः । वासयामसि ॥yáḥ ǀ átyaḥ-iva ǀ mṛjyáte ǀ góbhiḥ ǀ mádāya ǀ haryatáḥ ǀ
tám ǀ gīḥ-bhíḥ ǀ vāsayāmasi ǁyaḥ ǀ atyaḥ-iva ǀ mṛjyate ǀ gobhiḥ ǀ madāya ǀ haryataḥ ǀ
tam ǀ gīḥ-bhiḥ ǀ vāsayāmasi ǁ9.43.1 Aṣṭaka 6.8.33.1Anuvāka 9.2.109
-
Ṛk 2
तं नो॒ विश्वा॑ अव॒स्युवो॒ गिरः॑ शुंभंति पू॒र्वथा॑ ।
इंदु॒मिंद्रा॑य पी॒तये॑ ॥तं नो विश्वा अवस्युवो गिरः शुम्भन्ति पूर्वथा |
इन्दुम् इन्द्राय पीतये ||tám no víśvā avasyúvo gíraḥ śumbhanti pūrváthā ǀ
índumíndrāya pītáye ǁtaṃ no viśvā avasyuvo giraḥ śumbhanti pūrvathā |
indum indrāya pītaye ||तम् । नः॒ । विश्वाः॑ । अ॒व॒स्युवः॑ । गिरः॑ । शु॒म्भ॒न्ति॒ । पू॒र्वऽथा॑ ।
इन्दु॑म् । इन्द्रा॑य । पी॒तये॑ ॥तम् । नः । विश्वाः । अवस्युवः । गिरः । शुम्भन्ति । पूर्वऽथा ।
इन्दुम् । इन्द्राय । पीतये ॥tám ǀ naḥ ǀ víśvāḥ ǀ avasyúvaḥ ǀ gíraḥ ǀ śumbhanti ǀ pūrvá-thā ǀ
índum ǀ índrāya ǀ pītáye ǁtam ǀ naḥ ǀ viśvāḥ ǀ avasyuvaḥ ǀ giraḥ ǀ śumbhanti ǀ pūrva-thā ǀ
indum ǀ indrāya ǀ pītaye ǁ9.43.2 Aṣṭaka 6.8.33.2Anuvāka 9.2.110
-
Ṛk 3
पु॒ना॒नो या॑ति हर्य॒तः सोमो॑ गी॒र्भिः परि॑ष्कृतः ।
विप्र॑स्य॒ मेध्या॑तिथेः ॥पुनानो याति हर्यतः सोमो गीर्भिः परिष्कृतः |
विप्रस्य मेध्यातिथेः ||punānó yāti haryatáḥ sómo gīrbhíḥ páriṣkṛtaḥ ǀ
víprasya médhyātitheḥ ǁpunāno yāti haryataḥ somo gīrbhiḥ pariṣkṛtaḥ |
viprasya medhyātitheḥ ||पु॒ना॒नः । या॒ति॒ । ह॒र्य॒तः । सोमः॑ । गीः॒ऽभिः । परि॑ऽकृतः ।
विप्र॑स्य । मेध्य॑ऽअतिथेः ॥पुनानः । याति । हर्यतः । सोमः । गीःऽभिः । परिऽकृतः ।
विप्रस्य । मेध्यऽअतिथेः ॥punānáḥ ǀ yāti ǀ haryatáḥ ǀ sómaḥ ǀ gīḥ-bhíḥ ǀ pári-kṛtaḥ ǀ
víprasya ǀ médhya-atitheḥ ǁpunānaḥ ǀ yāti ǀ haryataḥ ǀ somaḥ ǀ gīḥ-bhiḥ ǀ pari-kṛtaḥ ǀ
viprasya ǀ medhya-atitheḥ ǁ9.43.3 Aṣṭaka 6.8.33.3Anuvāka 9.2.111
-
Ṛk 4
पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम सु॒श्रियं॑ ।
इंदो॑ स॒हस्र॑वर्चसं ॥पवमान विदा रयिम् अस्मभ्यं सोम सुश्रियम् |
इन्दो सहस्रवर्चसम् ||pávamāna vidā́ rayímasmábhyam soma suśríyam ǀ
índo sahásravarcasam ǁpavamāna vidā rayim asmabhyaṃ soma suśriyam |
indo sahasravarcasam ||पव॑मान । वि॒दाः । र॒यिम् । अ॒स्मभ्य॑म् । सो॒म॒ । सु॒ऽश्रिय॑म् ।
इन्दो॒ इति॑ । स॒हस्र॑ऽवर्चसम् ॥पवमान । विदाः । रयिम् । अस्मभ्यम् । सोम । सुऽश्रियम् ।
इन्दो इति । सहस्रऽवर्चसम् ॥pávamāna ǀ vidā́ḥ ǀ rayím ǀ asmábhyam ǀ soma ǀ su-śríyam ǀ
índo íti ǀ sahásra-varcasam ǁpavamāna ǀ vidāḥ ǀ rayim ǀ asmabhyam ǀ soma ǀ su-śriyam ǀ
indo iti ǀ sahasra-varcasam ǁ9.43.4 Aṣṭaka 6.8.33.4Anuvāka 9.2.112
-
Ṛk 5
इंदु॒रत्यो॒ न वा॑ज॒सृत्कनि॑क्रंति प॒वित्र॒ आ ।
यदक्षा॒रति॑ देव॒युः ॥इन्दुर् अत्यो न वाजसृत् कनिक्रन्ति पवित्र आ |
यद् अक्षार् अति देवयुः ||índurátyo ná vājasṛ́tkánikranti pavítra ā́ ǀ
yádákṣāráti devayúḥ ǁindur atyo na vājasṛt kanikranti pavitra ā |
yad akṣār ati devayuḥ ||इन्दुः॑ । अत्यः॑ । न । वा॒ज॒ऽसृत् । कनि॑क्रन्ति । प॒वित्रे॑ । आ ।
यत् । अक्षाः॑ । अति॑ । दे॒व॒ऽयुः ॥इन्दुः । अत्यः । न । वाजऽसृत् । कनिक्रन्ति । पवित्रे । आ ।
यत् । अक्षाः । अति । देवऽयुः ॥índuḥ ǀ átyaḥ ǀ ná ǀ vāja-sṛ́t ǀ kánikranti ǀ pavítre ǀ ā́ ǀ
yát ǀ ákṣāḥ ǀ áti ǀ deva-yúḥ ǁinduḥ ǀ atyaḥ ǀ na ǀ vāja-sṛt ǀ kanikranti ǀ pavitre ǀ ā ǀ
yat ǀ akṣāḥ ǀ ati ǀ deva-yuḥ ǁ9.43.5 Aṣṭaka 6.8.33.5Anuvāka 9.2.113
-
Ṛk 6
पव॑स्व॒ वाज॑सातये॒ विप्र॑स्य गृण॒तो वृ॒धे ।
सोम॒ रास्व॑ सु॒वीर्यं॑ ॥पवस्व वाजसातये विप्रस्य गृणतो वृधे |
सोम रास्व सुवीर्यम् ||pávasva vā́jasātaye víprasya gṛṇató vṛdhé ǀ
sóma rā́sva suvī́ryam ǁpavasva vājasātaye viprasya gṛṇato vṛdhe |
soma rāsva suvīryam ||पव॑स्व । वाज॑ऽसातये । विप्र॑स्य । गृ॒ण॒तः । वृ॒धे ।
सोम॑ । रास्व॑ । सु॒ऽवीर्य॑म् ॥पवस्व । वाजऽसातये । विप्रस्य । गृणतः । वृधे ।
सोम । रास्व । सुऽवीर्यम् ॥pávasva ǀ vā́ja-sātaye ǀ víprasya ǀ gṛṇatáḥ ǀ vṛdhé ǀ
sóma ǀ rā́sva ǀ su-vī́ryam ǁpavasva ǀ vāja-sātaye ǀ viprasya ǀ gṛṇataḥ ǀ vṛdhe ǀ
soma ǀ rāsva ǀ su-vīryam ǁ9.43.6 Aṣṭaka 6.8.33.6Anuvāka 9.2.114
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.