Sūkta 80
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Vasu Bhāradvāja
- Chandas छन्दस्
- Jagatī
Metres by ṛk
1st set of styles jagatī (1, 4); virāḍjagatī (2, 5); nicṛjjagatī (3)
2nd set of styles jagatī
-
Ṛk 1
सोम॑स्य॒ धारा॑ पवते नृ॒चक्ष॑स ऋ॒तेन॑ दे॒वान्ह॑वते दि॒वस्परि॑ ।
बृह॒स्पते॑ र॒वथे॑ना॒ वि दि॑द्युते समु॒द्रासो॒ न सव॑नानि विव्यचुः ॥सोमस्य धारा पवते नृचक्षस ऋतेन देवान् हवते दिवस् परि |
बृहस्पते रवथेना वि दिद्युते समुद्रासो न सवनानि विव्यचुः ||sómasya dhā́rā pavate nṛcákṣasa ṛténa devā́nhavate diváspári ǀ
bṛ́haspáte raváthenā ví didyute samudrā́so ná sávanāni vivyacuḥ ǁsomasya dhārā pavate nṛcakṣasa ṛtena devān havate divas pari |
bṛhaspate ravathenā vi didyute samudrāso na savanāni vivyacuḥ ||सोम॑स्य । धारा॑ । प॒व॒ते॒ । नृ॒ऽचक्ष॑सः । ऋ॒तेन॑ । दे॒वान् । ह॒व॒ते॒ । दि॒वः । परि॑ ।
बृह॒स्पतेः॑ । र॒वथे॑न । वि । दि॒द्यु॒ते॒ । स॒मु॒द्रासः॑ । न । सव॑नानि । वि॒व्य॒चुः॒ ॥सोमस्य । धारा । पवते । नृऽचक्षसः । ऋतेन । देवान् । हवते । दिवः । परि ।
बृहस्पतेः । रवथेन । वि । दिद्युते । समुद्रासः । न । सवनानि । विव्यचुः ॥sómasya ǀ dhā́rā ǀ pavate ǀ nṛ-cákṣasaḥ ǀ ṛténa ǀ devā́n ǀ havate ǀ diváḥ ǀ pári ǀ
bṛ́haspáteḥ ǀ raváthena ǀ ví ǀ didyute ǀ samudrā́saḥ ǀ ná ǀ sávanāni ǀ vivyacuḥ ǁsomasya ǀ dhārā ǀ pavate ǀ nṛ-cakṣasaḥ ǀ ṛtena ǀ devān ǀ havate ǀ divaḥ ǀ pari ǀ
bṛhaspateḥ ǀ ravathena ǀ vi ǀ didyute ǀ samudrāsaḥ ǀ na ǀ savanāni ǀ vivyacuḥ ǁ9.80.1 Aṣṭaka 7.3.5.1Anuvāka 9.4.92
-
Ṛk 2
यं त्वा॑ वाजिन्न॒घ्न्या अ॒भ्यनू॑ष॒तायो॑हतं॒ योनि॒मा रो॑हसि द्यु॒मान् ।
म॒घोना॒मायुः॑ प्रति॒रन्महि॒ श्रव॒ इंद्रा॑य सोम पवसे॒ वृषा॒ मदः॑ ॥यं त्वा वाजिन्न् अघ्न्या अभ्य् अनूषतायोहतं योनिम् आ रोहसि द्युमान् |
मघोनाम् आयुः प्रतिरन् महि श्रव इन्द्राय सोम पवसे वृषा मदः ||yám tvā vājinnaghnyā́ abhyánūṣatā́yohatam yónimā́ rohasi dyumā́n ǀ
maghónāmā́yuḥ pratiránmáhi śráva índrāya soma pavase vṛ́ṣā mádaḥ ǁyaṃ tvā vājinn aghnyā abhy anūṣatāyohataṃ yonim ā rohasi dyumān |
maghonām āyuḥ pratiran mahi śrava indrāya soma pavase vṛṣā madaḥ ||यम् । त्वा॒ । वा॒जि॒न् । अ॒घ्न्याः । अ॒भि । अनू॑षत । अयः॑ऽहतम् । योनि॑म् । आ । रो॒ह॒सि॒ । द्यु॒ऽमान् ।
म॒घोना॑म् । आयुः॑ । प्र॒ऽति॒रन् । महि॑ । श्रवः॑ । इन्द्रा॑य । सो॒म॒ । प॒व॒से॒ । वृषा॑ । मदः॑ ॥यम् । त्वा । वाजिन् । अघ्न्याः । अभि । अनूषत । अयःऽहतम् । योनिम् । आ । रोहसि । द्युऽमान् ।
मघोनाम् । आयुः । प्रऽतिरन् । महि । श्रवः । इन्द्राय । सोम । पवसे । वृषा । मदः ॥yám ǀ tvā ǀ vājin ǀ aghnyā́ḥ ǀ abhí ǀ ánūṣata ǀ áyaḥ-hatam ǀ yónim ǀ ā́ ǀ rohasi ǀ dyu-mā́n ǀ
maghónām ǀ ā́yuḥ ǀ pra-tirán ǀ máhi ǀ śrávaḥ ǀ índrāya ǀ soma ǀ pavase ǀ vṛ́ṣā ǀ mádaḥ ǁyam ǀ tvā ǀ vājin ǀ aghnyāḥ ǀ abhi ǀ anūṣata ǀ ayaḥ-hatam ǀ yonim ǀ ā ǀ rohasi ǀ dyu-mān ǀ
maghonām ǀ āyuḥ ǀ pra-tiran ǀ mahi ǀ śravaḥ ǀ indrāya ǀ soma ǀ pavase ǀ vṛṣā ǀ madaḥ ǁ9.80.2 Aṣṭaka 7.3.5.2Anuvāka 9.4.93
-
Ṛk 3
एंद्र॑स्य कु॒क्षा प॑वते म॒दिंत॑म॒ ऊर्जं॒ वसा॑नः॒ श्रव॑से सुमं॒गलः॑ ।
प्र॒त्यङ्स विश्वा॒ भुव॑ना॒भि प॑प्रथे॒ क्रीळ॒न्हरि॒रत्यः॑ स्यंदते॒ वृषा॑ ॥एन्द्रस्य कुक्षा पवते मदिन्तम ऊर्जं वसानः श्रवसे सुमङ्गलः |
प्रत्यङ् स विश्वा भुवनाभि पप्रथे क्रीऌअन् हरिर् अत्यः स्यन्दते वृषा ||éndrasya kukṣā́ pavate madíntama ū́rjam vásānaḥ śrávase sumaṅgálaḥ ǀ
pratyáṅsá víśvā bhúvanābhí paprathe krī́ḷanhárirátyaḥ syandate vṛ́ṣā ǁendrasya kukṣā pavate madintama ūrjaṃ vasānaḥ śravase sumaṅgalaḥ |
pratyaṅ sa viśvā bhuvanābhi paprathe krīḷan harir atyaḥ syandate vṛṣā ||आ । इन्द्र॑स्य । कु॒क्षा । प॒व॒ते॒ । म॒दिन्ऽत॑मः । ऊर्ज॑म् । वसा॑नः । श्रव॑से । सु॒ऽम॒ङ्गलः॑ ।
प्र॒त्यङ् । सः । विश्वा॑ । भुव॑ना । अ॒भि । प॒प्र॒थे॒ । क्रीळ॑न् । हरिः॑ । अत्यः॑ । स्य॒न्द॒ते॒ । वृषा॑ ॥आ । इन्द्रस्य । कुक्षा । पवते । मदिन्ऽतमः । ऊर्जम् । वसानः । श्रवसे । सुऽमङ्गलः ।
प्रत्यङ् । सः । विश्वा । भुवना । अभि । पप्रथे । क्रीळन् । हरिः । अत्यः । स्यन्दते । वृषा ॥ā́ ǀ índrasya ǀ kukṣā́ ǀ pavate ǀ madín-tamaḥ ǀ ū́rjam ǀ vásānaḥ ǀ śrávase ǀ su-maṅgálaḥ ǀ
pratyáṅ ǀ sáḥ ǀ víśvā ǀ bhúvanā ǀ abhí ǀ paprathe ǀ krī́ḷan ǀ háriḥ ǀ átyaḥ ǀ syandate ǀ vṛ́ṣā ǁā ǀ indrasya ǀ kukṣā ǀ pavate ǀ madin-tamaḥ ǀ ūrjam ǀ vasānaḥ ǀ śravase ǀ su-maṅgalaḥ ǀ
pratyaṅ ǀ saḥ ǀ viśvā ǀ bhuvanā ǀ abhi ǀ paprathe ǀ krīḷan ǀ hariḥ ǀ atyaḥ ǀ syandate ǀ vṛṣā ǁ9.80.3 Aṣṭaka 7.3.5.3Anuvāka 9.4.94
-
Ṛk 4
तं त्वा॑ दे॒वेभ्यो॒ मधु॑मत्तमं॒ नरः॑ स॒हस्र॑धारं दुहते॒ दश॒ क्षिपः॑ ।
नृभिः॑ सोम॒ प्रच्यु॑तो॒ ग्राव॑भिः सु॒तो विश्वां॑दे॒वाँ आ प॑वस्वा सहस्रजित् ॥तं त्वा देवेभ्यो मधुमत्तमं नरः सहस्रधारं दुहते दश क्षिपः |
नृभिः सोम प्रच्युतो ग्रावभिः सुतो विश्वान् देवां आ पवस्वा सहस्रजित् ||tám tvā devébhyo mádhumattamam náraḥ sahásradhāram duhate dáśa kṣípaḥ ǀ
nṛ́bhiḥ soma prácyuto grā́vabhiḥ sutó víśvāndevā́m̐ ā́ pavasvā sahasrajit ǁtaṃ tvā devebhyo madhumattamaṃ naraḥ sahasradhāraṃ duhate daśa kṣipaḥ |
nṛbhiḥ soma pracyuto grāvabhiḥ suto viśvān devāṃ ā pavasvā sahasrajit ||तम् । त्वा॒ । दे॒वेभ्यः॑ । मधु॑मत्ऽतमम् । नरः॑ । स॒हस्र॑ऽधारम् । दु॒ह॒ते॒ । दश॑ । क्षिपः॑ ।
नृऽभिः॑ । सो॒म॒ । प्रऽच्यु॑तः । ग्राव॑ऽभिः । सु॒तः । विश्वा॑न् । दे॒वान् । आ । प॒व॒स्व॒ । स॒ह॒स्र॒ऽजि॒त् ॥तम् । त्वा । देवेभ्यः । मधुमत्ऽतमम् । नरः । सहस्रऽधारम् । दुहते । दश । क्षिपः ।
नृऽभिः । सोम । प्रऽच्युतः । ग्रावऽभिः । सुतः । विश्वान् । देवान् । आ । पवस्व । सहस्रऽजित् ॥tám ǀ tvā ǀ devébhyaḥ ǀ mádhumat-tamam ǀ náraḥ ǀ sahásra-dhāram ǀ duhate ǀ dáśa ǀ kṣípaḥ ǀ
nṛ́-bhiḥ ǀ soma ǀ prá-cyutaḥ ǀ grā́va-bhiḥ ǀ sutáḥ ǀ víśvān ǀ devā́n ǀ ā́ ǀ pavasva ǀ sahasra-jit ǁtam ǀ tvā ǀ devebhyaḥ ǀ madhumat-tamam ǀ naraḥ ǀ sahasra-dhāram ǀ duhate ǀ daśa ǀ kṣipaḥ ǀ
nṛ-bhiḥ ǀ soma ǀ pra-cyutaḥ ǀ grāva-bhiḥ ǀ sutaḥ ǀ viśvān ǀ devān ǀ ā ǀ pavasva ǀ sahasra-jit ǁ9.80.4 Aṣṭaka 7.3.5.4Anuvāka 9.4.95
-
Ṛk 5
तं त्वा॑ ह॒स्तिनो॒ मधु॑मंत॒मद्रि॑भिर्दु॒हंत्य॒प्सु वृ॑ष॒भं दश॒ क्षिपः॑ ।
इंद्रं॑ सोम मा॒दयं॒दैव्यं॒ जनं॒ सिंधो॑रिवो॒र्मिः पव॑मानो अर्षसि ॥तं त्वा हस्तिनो मधुमन्तम् अद्रिभिर् दुहन्त्य् अप्सु वृषभं दश क्षिपः |
इन्द्रं सोम मादयन् दैव्यं जनं सिन्धोर् इवोर्मिः पवमानो अर्षसि ||tám tvā hastíno mádhumantamádribhirduhántyapsú vṛṣabhám dáśa kṣípaḥ ǀ
índram soma mādáyandáivyam jánam síndhorivormíḥ pávamāno arṣasi ǁtaṃ tvā hastino madhumantam adribhir duhanty apsu vṛṣabhaṃ daśa kṣipaḥ |
indraṃ soma mādayan daivyaṃ janaṃ sindhor ivormiḥ pavamāno arṣasi ||तम् । त्वा॒ । ह॒स्तिनः॑ । मधु॑ऽमन्तम् । अद्रि॑ऽभिः । दु॒हन्ति॑ । अ॒प्ऽसु । वृ॒ष॒भम् । दश॑ । क्षिपः॑ ।
इन्द्र॑म् । सो॒म॒ । मा॒दय॑न् । दैव्य॑म् । जन॑म् । सिन्धोः॑ऽइव । ऊ॒र्मिः । पव॑मानः । अ॒र्ष॒सि॒ ॥तम् । त्वा । हस्तिनः । मधुऽमन्तम् । अद्रिऽभिः । दुहन्ति । अप्ऽसु । वृषभम् । दश । क्षिपः ।
इन्द्रम् । सोम । मादयन् । दैव्यम् । जनम् । सिन्धोःऽइव । ऊर्मिः । पवमानः । अर्षसि ॥tám ǀ tvā ǀ hastínaḥ ǀ mádhu-mantam ǀ ádri-bhiḥ ǀ duhánti ǀ ap-sú ǀ vṛṣabhám ǀ dáśa ǀ kṣípaḥ ǀ
índram ǀ soma ǀ mādáyan ǀ dáivyam ǀ jánam ǀ síndhoḥ-iva ǀ ūrmíḥ ǀ pávamānaḥ ǀ arṣasi ǁtam ǀ tvā ǀ hastinaḥ ǀ madhu-mantam ǀ adri-bhiḥ ǀ duhanti ǀ ap-su ǀ vṛṣabham ǀ daśa ǀ kṣipaḥ ǀ
indram ǀ soma ǀ mādayan ǀ daivyam ǀ janam ǀ sindhoḥ-iva ǀ ūrmiḥ ǀ pavamānaḥ ǀ arṣasi ǁ9.80.5 Aṣṭaka 7.3.5.5Anuvāka 9.4.96
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.