Ṛk 9.80.5
Saṃhitā
तं त्वा॑ ह॒स्तिनो॒ मधु॑मंत॒मद्रि॑भिर्दु॒हंत्य॒प्सु वृ॑ष॒भं दश॒ क्षिपः॑ ।
इंद्रं॑ सोम मा॒दयं॒दैव्यं॒ जनं॒ सिंधो॑रिवो॒र्मिः पव॑मानो अर्षसि ॥
तं त्वा हस्तिनो मधुमन्तम् अद्रिभिर् दुहन्त्य् अप्सु वृषभं दश क्षिपः |
इन्द्रं सोम मादयन् दैव्यं जनं सिन्धोर् इवोर्मिः पवमानो अर्षसि ||
tám tvā hastíno mádhumantamádribhirduhántyapsú vṛṣabhám dáśa kṣípaḥ ǀ
índram soma mādáyandáivyam jánam síndhorivormíḥ pávamāno arṣasi ǁ
taṃ tvā hastino madhumantam adribhir duhanty apsu vṛṣabhaṃ daśa kṣipaḥ |
indraṃ soma mādayan daivyaṃ janaṃ sindhor ivormiḥ pavamāno arṣasi ||
Padapāṭha
तम् । त्वा॒ । ह॒स्तिनः॑ । मधु॑ऽमन्तम् । अद्रि॑ऽभिः । दु॒हन्ति॑ । अ॒प्ऽसु । वृ॒ष॒भम् । दश॑ । क्षिपः॑ ।
इन्द्र॑म् । सो॒म॒ । मा॒दय॑न् । दैव्य॑म् । जन॑म् । सिन्धोः॑ऽइव । ऊ॒र्मिः । पव॑मानः । अ॒र्ष॒सि॒ ॥
तम् । त्वा । हस्तिनः । मधुऽमन्तम् । अद्रिऽभिः । दुहन्ति । अप्ऽसु । वृषभम् । दश । क्षिपः ।
इन्द्रम् । सोम । मादयन् । दैव्यम् । जनम् । सिन्धोःऽइव । ऊर्मिः । पवमानः । अर्षसि ॥
tám ǀ tvā ǀ hastínaḥ ǀ mádhu-mantam ǀ ádri-bhiḥ ǀ duhánti ǀ ap-sú ǀ vṛṣabhám ǀ dáśa ǀ kṣípaḥ ǀ
índram ǀ soma ǀ mādáyan ǀ dáivyam ǀ jánam ǀ síndhoḥ-iva ǀ ūrmíḥ ǀ pávamānaḥ ǀ arṣasi ǁ
tam ǀ tvā ǀ hastinaḥ ǀ madhu-mantam ǀ adri-bhiḥ ǀ duhanti ǀ ap-su ǀ vṛṣabham ǀ daśa ǀ kṣipaḥ ǀ
indram ǀ soma ǀ mādayan ǀ daivyam ǀ janam ǀ sindhoḥ-iva ǀ ūrmiḥ ǀ pavamānaḥ ǀ arṣasi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.080.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.3.05.05
- Maṇḍala · Anuvāka · Ṛk
- 09.04.096
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Vasu Bhāradvāja
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.