Sūkta 39
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Bṛhanmati Āṅgirasa
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles nicṛdgāyatrī (1, 4, 6); gāyatrī (2, 3, 5)
2nd set of styles gāyatrī
-
Ṛk 1
आ॒शुर॑र्ष बृहन्मते॒ परि॑ प्रि॒येण॒ धाम्ना॑ ।
यत्र॑ दे॒वा इति॒ ब्रव॑न् ॥आशुर् अर्ष बृहन्मते परि प्रियेण धाम्ना |
यत्र देवा इति ब्रवन् ||āśúrarṣa bṛhanmate pári priyéṇa dhā́mnā ǀ
yátra devā́ íti brávan ǁāśur arṣa bṛhanmate pari priyeṇa dhāmnā |
yatra devā iti bravan ||आ॒शुः । अ॒र्ष॒ । बृ॒ह॒त्ऽम॒ते॒ । परि॑ । प्रि॒येण॑ । धाम्ना॑ ।
यत्र॑ । दे॒वाः । इति॑ । ब्रव॑न् ॥आशुः । अर्ष । बृहत्ऽमते । परि । प्रियेण । धाम्ना ।
यत्र । देवाः । इति । ब्रवन् ॥āśúḥ ǀ arṣa ǀ bṛhat-mate ǀ pári ǀ priyéṇa ǀ dhā́mnā ǀ
yátra ǀ devā́ḥ ǀ íti ǀ brávan ǁāśuḥ ǀ arṣa ǀ bṛhat-mate ǀ pari ǀ priyeṇa ǀ dhāmnā ǀ
yatra ǀ devāḥ ǀ iti ǀ bravan ǁ9.39.1 Aṣṭaka 6.8.29.1Anuvāka 9.2.85
-
Ṛk 2
प॒रि॒ष्कृ॒ण्वन्ननि॑ष्कृतं॒ जना॑य या॒तय॒न्निषः॑ ।
वृ॒ष्टिं दि॒वः परि॑ स्रव ॥परिष्कृण्वन्न् अनिष्कृतं जनाय यातयन्न् इषः |
वृष्टिं दिवः परि स्रव ||pariṣkṛṇvánnániṣkṛtam jánāya yātáyanníṣaḥ ǀ
vṛṣṭím diváḥ pári srava ǁpariṣkṛṇvann aniṣkṛtaṃ janāya yātayann iṣaḥ |
vṛṣṭiṃ divaḥ pari srava ||प॒रि॒ऽकृ॒ण्वन् । अनिः॑ऽकृतम् । जना॑य । या॒तय॑न् । इषः॑ ।
वृ॒ष्टिम् । दि॒वः । परि॑ । स्र॒व॒ ॥परिऽकृण्वन् । अनिःऽकृतम् । जनाय । यातयन् । इषः ।
वृष्टिम् । दिवः । परि । स्रव ॥pari-kṛṇván ǀ ániḥ-kṛtam ǀ jánāya ǀ yātáyan ǀ íṣaḥ ǀ
vṛṣṭím ǀ diváḥ ǀ pári ǀ srava ǁpari-kṛṇvan ǀ aniḥ-kṛtam ǀ janāya ǀ yātayan ǀ iṣaḥ ǀ
vṛṣṭim ǀ divaḥ ǀ pari ǀ srava ǁ9.39.2 Aṣṭaka 6.8.29.2Anuvāka 9.2.86
-
Ṛk 3
सु॒त ए॑ति प॒वित्र॒ आ त्विषिं॒ दधा॑न॒ ओज॑सा ।
वि॒चक्षा॑णो विरो॒चय॑न् ॥सुत एति पवित्र आ त्विषिं दधान ओजसा |
विचक्षाणो विरोचयन् ||sutá eti pavítra ā́ tvíṣim dádhāna ójasā ǀ
vicákṣāṇo virocáyan ǁsuta eti pavitra ā tviṣiṃ dadhāna ojasā |
vicakṣāṇo virocayan ||सु॒तः । ए॒ति॒ । प॒वित्रे॑ । आ । त्विषि॑म् । दधा॑नः । ओज॑सा ।
वि॒ऽचक्षा॑णः । वि॒ऽरो॒चय॑न् ॥सुतः । एति । पवित्रे । आ । त्विषिम् । दधानः । ओजसा ।
विऽचक्षाणः । विऽरोचयन् ॥sutáḥ ǀ eti ǀ pavítre ǀ ā́ ǀ tvíṣim ǀ dádhānaḥ ǀ ójasā ǀ
vi-cákṣāṇaḥ ǀ vi-rocáyan ǁsutaḥ ǀ eti ǀ pavitre ǀ ā ǀ tviṣim ǀ dadhānaḥ ǀ ojasā ǀ
vi-cakṣāṇaḥ ǀ vi-rocayan ǁ9.39.3 Aṣṭaka 6.8.29.3Anuvāka 9.2.87
-
Ṛk 4
अ॒यं स यो दि॒वस्परि॑ रघु॒यामा॑ प॒वित्र॒ आ ।
सिंधो॑रू॒र्मा व्यक्ष॑रत् ॥अयं स यो दिवस् परि रघुयामा पवित्र आ |
सिन्धोर् ऊर्मा व्य् अक्षरत् ||ayám sá yó diváspári raghuyā́mā pavítra ā́ ǀ
síndhorūrmā́ vyákṣarat ǁayaṃ sa yo divas pari raghuyāmā pavitra ā |
sindhor ūrmā vy akṣarat ||अ॒यम् । सः । यः । दि॒वः । परि॑ । र॒घु॒ऽयामा॑ । प॒वित्रे॑ । आ ।
सिन्धोः॑ । ऊ॒र्मा । वि । अक्ष॑रत् ॥अयम् । सः । यः । दिवः । परि । रघुऽयामा । पवित्रे । आ ।
सिन्धोः । ऊर्मा । वि । अक्षरत् ॥ayám ǀ sáḥ ǀ yáḥ ǀ diváḥ ǀ pári ǀ raghu-yā́mā ǀ pavítre ǀ ā́ ǀ
síndhoḥ ǀ ūrmā́ ǀ ví ǀ ákṣarat ǁayam ǀ saḥ ǀ yaḥ ǀ divaḥ ǀ pari ǀ raghu-yāmā ǀ pavitre ǀ ā ǀ
sindhoḥ ǀ ūrmā ǀ vi ǀ akṣarat ǁ9.39.4 Aṣṭaka 6.8.29.4Anuvāka 9.2.88
-
Ṛk 5
आ॒विवा॑सन्परा॒वतो॒ अथो॑ अर्वा॒वतः॑ सु॒तः ।
इंद्रा॑य सिच्यते॒ मधु॑ ॥आविवासन् परावतो अथो अर्वावतः सुतः |
इन्द्राय सिच्यते मधु ||āvívāsanparāváto átho arvāvátaḥ sutáḥ ǀ
índrāya sicyate mádhu ǁāvivāsan parāvato atho arvāvataḥ sutaḥ |
indrāya sicyate madhu ||आ॒ऽविवा॑सन् । प॒रा॒ऽवतः॑ । अथो॒ इति॑ । अ॒र्वा॒ऽवतः॑ । सु॒तः ।
इन्द्रा॑य । सि॒च्य॒ते॒ । मधु॑ ॥आऽविवासन् । पराऽवतः । अथो इति । अर्वाऽवतः । सुतः ।
इन्द्राय । सिच्यते । मधु ॥ā-vívāsan ǀ parā-vátaḥ ǀ átho íti ǀ arvā-vátaḥ ǀ sutáḥ ǀ
índrāya ǀ sicyate ǀ mádhu ǁā-vivāsan ǀ parā-vataḥ ǀ atho iti ǀ arvā-vataḥ ǀ sutaḥ ǀ
indrāya ǀ sicyate ǀ madhu ǁ9.39.5 Aṣṭaka 6.8.29.5Anuvāka 9.2.89
-
Ṛk 6
स॒मी॒ची॒ना अ॑नूषत॒ हरिं॑ हिन्वं॒त्यद्रि॑भिः ।
योना॑वृ॒तस्य॑ सीदत ॥समीचीना अनूषत हरिं हिन्वन्त्य् अद्रिभिः |
योनाव् ऋतस्य सीदत ||samīcīnā́ anūṣata hárim hinvantyádribhiḥ ǀ
yónāvṛtásya sīdata ǁsamīcīnā anūṣata hariṃ hinvanty adribhiḥ |
yonāv ṛtasya sīdata ||स॒म्ऽई॒ची॒नाः । अ॒नू॒ष॒त॒ । हरि॑म् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः ।
योनौ॑ । ऋ॒तस्य॑ । सी॒द॒त॒ ॥सम्ऽईचीनाः । अनूषत । हरिम् । हिन्वन्ति । अद्रिऽभिः ।
योनौ । ऋतस्य । सीदत ॥sam-īcīnā́ḥ ǀ anūṣata ǀ hárim ǀ hinvanti ǀ ádri-bhiḥ ǀ
yónau ǀ ṛtásya ǀ sīdata ǁsam-īcīnāḥ ǀ anūṣata ǀ harim ǀ hinvanti ǀ adri-bhiḥ ǀ
yonau ǀ ṛtasya ǀ sīdata ǁ9.39.6 Aṣṭaka 6.8.29.6Anuvāka 9.2.90
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.