Sūkta 94
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Kaṇva Ghaura
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (2, 3, 5); nicṛttriṣṭup (1); triṣṭup (4)
2nd set of styles triṣṭubh
-
Ṛk 1
अधि॒ यद॑स्मिन्वा॒जिनी॑व॒ शुभः॒ स्पर्धं॑ते॒ धियः॒ सूर्ये॒ न विशः॑ ।
अ॒पो वृ॑णा॒नः प॑वते कवी॒यन्व्र॒जं न प॑शु॒वर्ध॑नाय॒ मन्म॑ ॥अधि यद् अस्मिन् वाजिनीव शुभ स्पर्धन्ते धियः सूर्ये न विशः |
अपो वृणानः पवते कवीयन् व्रजं न पशुवर्धनाय मन्म ||ádhi yádasminvājínīva śúbhaḥ spárdhante dhíyaḥ sū́rye ná víśaḥ ǀ
apó vṛṇānáḥ pavate kavīyánvrajám ná paśuvárdhanāya mánma ǁadhi yad asmin vājinīva śubha spardhante dhiyaḥ sūrye na viśaḥ |
apo vṛṇānaḥ pavate kavīyan vrajaṃ na paśuvardhanāya manma ||अधि॑ । यत् । अ॒स्मि॒न् । वा॒जिनि॑ऽइव । शुभः॑ । स्पर्ध॑न्ते । धियः॑ । सूर्ये॑ । न । विशः॑ ।
अ॒पः । वृ॒णा॒नः । प॒व॒ते॒ । क॒वि॒ऽयन् । व्र॒जम् । न । प॒शु॒ऽवर्ध॑नाय । मन्म॑ ॥अधि । यत् । अस्मिन् । वाजिनिऽइव । शुभः । स्पर्धन्ते । धियः । सूर्ये । न । विशः ।
अपः । वृणानः । पवते । कविऽयन् । व्रजम् । न । पशुऽवर्धनाय । मन्म ॥ádhi ǀ yát ǀ asmin ǀ vājíni-iva ǀ śúbhaḥ ǀ spárdhante ǀ dhíyaḥ ǀ sū́rye ǀ ná ǀ víśaḥ ǀ
apáḥ ǀ vṛṇānáḥ ǀ pavate ǀ kavi-yán ǀ vrajám ǀ ná ǀ paśu-várdhanāya ǀ mánma ǁadhi ǀ yat ǀ asmin ǀ vājini-iva ǀ śubhaḥ ǀ spardhante ǀ dhiyaḥ ǀ sūrye ǀ na ǀ viśaḥ ǀ
apaḥ ǀ vṛṇānaḥ ǀ pavate ǀ kavi-yan ǀ vrajam ǀ na ǀ paśu-vardhanāya ǀ manma ǁ9.94.1 Aṣṭaka 7.4.4.1Anuvāka 9.5.96
-
Ṛk 2
द्वि॒ता व्यू॒र्ण्वन्न॒मृत॑स्य॒ धाम॑ स्व॒र्विदे॒ भुव॑नानि प्रथंत ।
धियः॑ पिन्वा॒नाः स्वस॑रे॒ न गाव॑ ऋता॒यंती॑र॒भि वा॑वश्र॒ इंदुं॑ ॥द्विता व्यूर्ण्वन्न् अमृतस्य धाम स्वर्विदे भुवनानि प्रथन्त |
धियः पिन्वानाः स्वसरे न गाव ऋतायन्तीर् अभि वावश्र इन्दुम् ||dvitā́ vyūrṇvánnamṛ́tasya dhā́ma svarvíde bhúvanāni prathanta ǀ
dhíyaḥ pinvānā́ḥ svásare ná gā́va ṛtāyántīrabhí vāvaśra índum ǁdvitā vyūrṇvann amṛtasya dhāma svarvide bhuvanāni prathanta |
dhiyaḥ pinvānāḥ svasare na gāva ṛtāyantīr abhi vāvaśra indum ||द्वि॒ता । वि॒ऽऊ॒र्ण्वन् । अ॒मृत॑स्य । धाम॑ । स्वः॒ऽविदे॑ । भुव॑नानि । प्र॒थ॒न्त॒ ।
धियः॑ । पि॒न्वा॒नाः । स्वस॑रे । न । गावः॑ । ऋ॒त॒ऽयन्तीः॑ । अ॒भि । वा॒व॒श्रे॒ । इन्दु॑म् ॥द्विता । विऽऊर्ण्वन् । अमृतस्य । धाम । स्वःऽविदे । भुवनानि । प्रथन्त ।
धियः । पिन्वानाः । स्वसरे । न । गावः । ऋतऽयन्तीः । अभि । वावश्रे । इन्दुम् ॥dvitā́ ǀ vi-ūrṇván ǀ amṛ́tasya ǀ dhā́ma ǀ svaḥ-víde ǀ bhúvanāni ǀ prathanta ǀ
dhíyaḥ ǀ pinvānā́ḥ ǀ svásare ǀ ná ǀ gā́vaḥ ǀ ṛta-yántīḥ ǀ abhí ǀ vāvaśre ǀ índum ǁdvitā ǀ vi-ūrṇvan ǀ amṛtasya ǀ dhāma ǀ svaḥ-vide ǀ bhuvanāni ǀ prathanta ǀ
dhiyaḥ ǀ pinvānāḥ ǀ svasare ǀ na ǀ gāvaḥ ǀ ṛta-yantīḥ ǀ abhi ǀ vāvaśre ǀ indum ǁ9.94.2 Aṣṭaka 7.4.4.2Anuvāka 9.5.97
-
Ṛk 3
परि॒ यत्क॒विः काव्या॒ भर॑ते॒ शूरो॒ न रथो॒ भुव॑नानि॒ विश्वा॑ ।
दे॒वेषु॒ यशो॒ मर्ता॑य॒ भूषं॒दक्षा॑य रा॒यः पु॑रु॒भूषु॒ नव्यः॑ ॥परि यत् कविः काव्या भरते शूरो न रथो भुवनानि विश्वा |
देवेषु यशो मर्ताय भूषन् दक्षाय रायः पुरुभूषु नव्यः ||pári yátkavíḥ kā́vyā bhárate śū́ro ná rátho bhúvanāni víśvā ǀ
devéṣu yáśo mártāya bhū́ṣandákṣāya rāyáḥ purubhū́ṣu návyaḥ ǁpari yat kaviḥ kāvyā bharate śūro na ratho bhuvanāni viśvā |
deveṣu yaśo martāya bhūṣan dakṣāya rāyaḥ purubhūṣu navyaḥ ||परि॑ । यत् । क॒विः । काव्या॑ । भर॑ते । शूरः॑ । न । रथः॑ । भुव॑नानि । विश्वा॑ ।
दे॒वेषु॑ । यशः॑ । मर्ता॑य । भूष॑न् । दक्षा॑य । रा॒यः । पु॒रु॒ऽभूषु॑ । नव्यः॑ ॥परि । यत् । कविः । काव्या । भरते । शूरः । न । रथः । भुवनानि । विश्वा ।
देवेषु । यशः । मर्ताय । भूषन् । दक्षाय । रायः । पुरुऽभूषु । नव्यः ॥pári ǀ yát ǀ kavíḥ ǀ kā́vyā ǀ bhárate ǀ śū́raḥ ǀ ná ǀ ráthaḥ ǀ bhúvanāni ǀ víśvā ǀ
devéṣu ǀ yáśaḥ ǀ mártāya ǀ bhū́ṣan ǀ dákṣāya ǀ rāyáḥ ǀ puru-bhū́ṣu ǀ návyaḥ ǁpari ǀ yat ǀ kaviḥ ǀ kāvyā ǀ bharate ǀ śūraḥ ǀ na ǀ rathaḥ ǀ bhuvanāni ǀ viśvā ǀ
deveṣu ǀ yaśaḥ ǀ martāya ǀ bhūṣan ǀ dakṣāya ǀ rāyaḥ ǀ puru-bhūṣu ǀ navyaḥ ǁ9.94.3 Aṣṭaka 7.4.4.3Anuvāka 9.5.98
-
Ṛk 4
श्रि॒ये जा॒तः श्रि॒य आ निरि॑याय॒ श्रियं॒ वयो॑ जरि॒तृभ्यो॑ दधाति ।
श्रियं॒ वसा॑ना अमृत॒त्वमा॑य॒न्भवं॑ति स॒त्या स॑मि॒था मि॒तद्रौ॑ ॥श्रिये जातः श्रिय आ निर् इयाय श्रियं वयो जरितृभ्यो दधाति |
श्रियं वसाना अमृतत्वम् आयन् भवन्ति सत्या समिथा मितद्रौ ||śriyé jātáḥ śriyá ā́ níriyāya śríyam váyo jaritṛ́bhyo dadhāti ǀ
śríyam vásānā amṛtatvámāyanbhávanti satyā́ samithā́ mitádrau ǁśriye jātaḥ śriya ā nir iyāya śriyaṃ vayo jaritṛbhyo dadhāti |
śriyaṃ vasānā amṛtatvam āyan bhavanti satyā samithā mitadrau ||श्रि॒ये । जा॒तः । श्रि॒ये । आ । निः । इ॒या॒य॒ । श्रिय॑म् । वयः॑ । ज॒रि॒तृऽभ्यः॑ । द॒धा॒ति॒ ।
श्रिय॑म् । वसा॑नाः । अ॒मृ॒त॒ऽत्वम् । आ॒य॒न् । भव॑न्ति । स॒त्या । स॒म्ऽइ॒था । मि॒तऽद्रौ॑ ॥श्रिये । जातः । श्रिये । आ । निः । इयाय । श्रियम् । वयः । जरितृऽभ्यः । दधाति ।
श्रियम् । वसानाः । अमृतऽत्वम् । आयन् । भवन्ति । सत्या । सम्ऽइथा । मितऽद्रौ ॥śriyé ǀ jātáḥ ǀ śriyé ǀ ā́ ǀ níḥ ǀ iyāya ǀ śríyam ǀ váyaḥ ǀ jaritṛ́-bhyaḥ ǀ dadhāti ǀ
śríyam ǀ vásānāḥ ǀ amṛta-tvám ǀ āyan ǀ bhávanti ǀ satyā́ ǀ sam-ithā́ ǀ mitá-drau ǁśriye ǀ jātaḥ ǀ śriye ǀ ā ǀ niḥ ǀ iyāya ǀ śriyam ǀ vayaḥ ǀ jaritṛ-bhyaḥ ǀ dadhāti ǀ
śriyam ǀ vasānāḥ ǀ amṛta-tvam ǀ āyan ǀ bhavanti ǀ satyā ǀ sam-ithā ǀ mita-drau ǁ9.94.4 Aṣṭaka 7.4.4.4Anuvāka 9.5.99
-
Ṛk 5
इष॒मूर्ज॑म॒भ्य१॒॑र्षाश्वं॒ गामु॒रु ज्योतिः॑ कृणुहि॒ मत्सि॑ दे॒वान् ।
विश्वा॑नि॒ हि सु॒षहा॒ तानि॒ तुभ्यं॒ पव॑मान॒ बाध॑से सोम॒ शत्रू॑न् ॥इषम् ऊर्जम् अभ्य् अर्षाश्वं गाम् उरु ज्योतिः कृणुहि मत्सि देवान् |
विश्वानि हि सुषहा तानि तुभ्यम् पवमान बाधसे सोम शत्रून् ||íṣamū́rjamabhyárṣā́śvam gā́murú jyótiḥ kṛṇuhi mátsi devā́n ǀ
víśvāni hí suṣáhā tā́ni túbhyam pávamāna bā́dhase soma śátrūn ǁiṣam ūrjam abhy arṣāśvaṃ gām uru jyotiḥ kṛṇuhi matsi devān |
viśvāni hi suṣahā tāni tubhyam pavamāna bādhase soma śatrūn ||इष॑म् । ऊर्ज॑म् । अ॒भि । अ॒र्ष॒ । अश्व॑म् । गाम् । उ॒रु । ज्योतिः॑ । कृ॒णु॒हि॒ । मत्सि॑ । दे॒वान् ।
विश्वा॑नि । हि । सु॒ऽसहा॑ । तानि॑ । तुभ्य॑म् । पव॑मान । बाध॑से । सो॒म॒ । शत्रू॑न् ॥इषम् । ऊर्जम् । अभि । अर्ष । अश्वम् । गाम् । उरु । ज्योतिः । कृणुहि । मत्सि । देवान् ।
विश्वानि । हि । सुऽसहा । तानि । तुभ्यम् । पवमान । बाधसे । सोम । शत्रून् ॥íṣam ǀ ū́rjam ǀ abhí ǀ arṣa ǀ áśvam ǀ gā́m ǀ urú ǀ jyótiḥ ǀ kṛṇuhi ǀ mátsi ǀ devā́n ǀ
víśvāni ǀ hí ǀ su-sáhā ǀ tā́ni ǀ túbhyam ǀ pávamāna ǀ bā́dhase ǀ soma ǀ śátrūn ǁiṣam ǀ ūrjam ǀ abhi ǀ arṣa ǀ aśvam ǀ gām ǀ uru ǀ jyotiḥ ǀ kṛṇuhi ǀ matsi ǀ devān ǀ
viśvāni ǀ hi ǀ su-sahā ǀ tāni ǀ tubhyam ǀ pavamāna ǀ bādhase ǀ soma ǀ śatrūn ǁ9.94.5 Aṣṭaka 7.4.4.5Anuvāka 9.5.100
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.