Ṛgveda · Maṇḍala 9

Sūkta 74

Soma Pavamāna · Kakṣīvat Dairghatamasa · 9 ṛks

Link
Devatā देवता
Soma Pavamāna
Ṛṣi ऋषि
Kakṣīvat Dairghatamasa
Chandas छन्दस्
Jagatī
Metres by ṛk

1st set of styles pādanicṛjjgatī (1, 3); virāḍjagatī (2, 6); jagatī (4, 7); nicṛjjagatī (5, 9); nicṛttriṣṭup (8)

2nd set of styles jagatī

  1. Ṛk 1

    शिशु॒र्न जा॒तोऽव॑ चक्रद॒द्वने॒ स्व१॒॑र्यद्वा॒ज्य॑रु॒षः सिषा॑सति ।
    दि॒वो रेत॑सा सचते पयो॒वृधा॒ तमी॑महे सुम॒ती शर्म॑ स॒प्रथः॑ ॥

    शिशुर् न जातो ऽव चक्रदद् वने स्वर् यद् वाज्य् अरुषः सिषासति |
    दिवो रेतसा सचते पयोवृधा तम् ईमहे सुमती शर्म सप्रथः ||

    śíśurná jātó’va cakradadváne sváryádvājyáruṣáḥ síṣāsati ǀ
    divó rétasā sacate payovṛ́dhā támīmahe sumatī́ śárma sapráthaḥ ǁ

    śiśur na jāto 'va cakradad vane svar yad vājy aruṣaḥ siṣāsati |
    divo retasā sacate payovṛdhā tam īmahe sumatī śarma saprathaḥ ||

    शिशुः॑ । न । जा॒तः । अव॑ । च॒क्र॒द॒त् । वने॑ । स्वः॑ । यत् । वा॒जी । अ॒रु॒षः । सिसा॑सति ।
    दि॒वः । रेत॑सा । स॒च॒ते॒ । प॒यः॒ऽवृधा॑ । तम् । ई॒म॒हे॒ । सु॒ऽम॒ती । शर्म॑ । स॒ऽप्रथः॑ ॥

    शिशुः । न । जातः । अव । चक्रदत् । वने । स्वः । यत् । वाजी । अरुषः । सिसासति ।
    दिवः । रेतसा । सचते । पयःऽवृधा । तम् । ईमहे । सुऽमती । शर्म । सऽप्रथः ॥

    śíśuḥ ǀ ná ǀ jātáḥ ǀ áva ǀ cakradat ǀ váne ǀ sváḥ ǀ yát ǀ vājī́ ǀ aruṣáḥ ǀ sísāsati ǀ
    diváḥ ǀ rétasā ǀ sacate ǀ payaḥ-vṛ́dhā ǀ tám ǀ īmahe ǀ su-matī́ ǀ śárma ǀ sa-práthaḥ ǁ

    śiśuḥ ǀ na ǀ jātaḥ ǀ ava ǀ cakradat ǀ vane ǀ svaḥ ǀ yat ǀ vājī ǀ aruṣaḥ ǀ sisāsati ǀ
    divaḥ ǀ retasā ǀ sacate ǀ payaḥ-vṛdhā ǀ tam ǀ īmahe ǀ su-matī ǀ śarma ǀ sa-prathaḥ ǁ

    9.74.1 Aṣṭaka 7.2.31.1Anuvāka 9.4.58

  2. Ṛk 2

    दि॒वो यः स्कं॒भो ध॒रुणः॒ स्वा॑तत॒ आपू॑र्णो अं॒शुः प॒र्येति॑ वि॒श्वतः॑ ।
    सेमे म॒ही रोद॑सी यक्षदा॒वृता॑ समीची॒ने दा॑धार॒ समिषः॑ क॒विः ॥

    दिवो य स्कम्भो धरुणः स्वातत आपूर्णो अंशुः पर्येति विश्वतः |
    सेमे मही रोदसी यक्षद् आवृता समीचीने दाधार सम् इषः कविः ||

    divó yáḥ skambhó dharúṇaḥ svā́tata ā́pūrṇo aṃśúḥ paryéti viśvátaḥ ǀ
    sémé mahī́ ródasī yakṣadāvṛ́tā samīcīné dādhāra sámíṣaḥ kavíḥ ǁ

    divo ya skambho dharuṇaḥ svātata āpūrṇo aṃśuḥ paryeti viśvataḥ |
    seme mahī rodasī yakṣad āvṛtā samīcīne dādhāra sam iṣaḥ kaviḥ ||

    दि॒वः । यः । स्क॒म्भः । ध॒रुणः॑ । सुऽआ॑ततः । आऽपू॑र्णः । अं॒शुः । प॒रि॒ऽएति॑ । वि॒श्वतः॑ ।
    सः । इ॒मे इति॑ । म॒ही इति॑ । रोद॑सी॒ इति॑ । य॒क्ष॒त् । आ॒ऽवृता॑ । स॒मी॒ची॒ने इति॑ स॒म्ऽई॒ची॒ने । दा॒धा॒र॒ । सम् । इषः॑ । क॒विः ॥

    दिवः । यः । स्कम्भः । धरुणः । सुऽआततः । आऽपूर्णः । अंशुः । परिऽएति । विश्वतः ।
    सः । इमे इति । मही इति । रोदसी इति । यक्षत् । आऽवृता । समीचीने इति सम्ऽईचीने । दाधार । सम् । इषः । कविः ॥

    diváḥ ǀ yáḥ ǀ skambháḥ ǀ dharúṇaḥ ǀ sú-ātataḥ ǀ ā́-pūrṇaḥ ǀ aṃśúḥ ǀ pari-éti ǀ viśvátaḥ ǀ
    sáḥ ǀ imé íti ǀ mahī́ íti ǀ ródasī íti ǀ yakṣat ǀ ā-vṛ́tā ǀ samīcīné íti sam-īcīné ǀ dādhāra ǀ sám ǀ íṣaḥ ǀ kavíḥ ǁ

    divaḥ ǀ yaḥ ǀ skambhaḥ ǀ dharuṇaḥ ǀ su-ātataḥ ǀ ā-pūrṇaḥ ǀ aṃśuḥ ǀ pari-eti ǀ viśvataḥ ǀ
    saḥ ǀ ime iti ǀ mahī iti ǀ rodasī iti ǀ yakṣat ǀ ā-vṛtā ǀ samīcīne iti sam-īcīne ǀ dādhāra ǀ sam ǀ iṣaḥ ǀ kaviḥ ǁ

    9.74.2 Aṣṭaka 7.2.31.2Anuvāka 9.4.59

  3. Ṛk 3

    महि॒ प्सरः॒ सुकृ॑तं सो॒म्यं मधू॒र्वी गव्यू॑ति॒रदि॑तेर्ऋ॒तं य॒ते ।
    ईशे॒ यो वृ॒ष्टेरि॒त उ॒स्रियो॒ वृषा॒पां ने॒ता य इ॒तऊ॑तिर्ऋ॒ग्मियः॑ ॥

    महि प्सरः सुकृतं सोम्यम् मधूर्वी गव्यूतिर् अदितेर् ऋतं यते |
    ईशे यो वृष्टेर् इत उस्रियो वृषापां नेता य इतऊतिर् ऋग्मियः ||

    máhi psáraḥ súkṛtam somyám mádhūrvī́ gávyūtiráditerṛtám yaté ǀ
    ī́śe yó vṛṣṭéritá usríyo vṛ́ṣāpā́m netā́ yá itáūtirṛgmíyaḥ ǁ

    mahi psaraḥ sukṛtaṃ somyam madhūrvī gavyūtir aditer ṛtaṃ yate |
    īśe yo vṛṣṭer ita usriyo vṛṣāpāṃ netā ya itaūtir ṛgmiyaḥ ||

    महि॑ । प्सरः॑ । सुऽकृ॑तम् । सो॒म्यम् । मधु॑ । उ॒र्वी । गव्यू॑तिः । अदि॑तेः । ऋ॒तम् । य॒ते ।
    ईशे॑ । यः । वृ॒ष्टेः । इ॒तः । उ॒स्रियः॑ । वृषा॑ । अ॒पाम् । ने॒ता । यः । इ॒तःऽऊ॑तिः । ऋ॒ग्मियः॑ ॥

    महि । प्सरः । सुऽकृतम् । सोम्यम् । मधु । उर्वी । गव्यूतिः । अदितेः । ऋतम् । यते ।
    ईशे । यः । वृष्टेः । इतः । उस्रियः । वृषा । अपाम् । नेता । यः । इतःऽऊतिः । ऋग्मियः ॥

    máhi ǀ psáraḥ ǀ sú-kṛtam ǀ somyám ǀ mádhu ǀ urvī́ ǀ gávyūtiḥ ǀ áditeḥ ǀ ṛtám ǀ yaté ǀ
    ī́śe ǀ yáḥ ǀ vṛṣṭéḥ ǀ itáḥ ǀ usríyaḥ ǀ vṛ́ṣā ǀ apā́m ǀ netā́ ǀ yáḥ ǀ itáḥ-ūtiḥ ǀ ṛgmíyaḥ ǁ

    mahi ǀ psaraḥ ǀ su-kṛtam ǀ somyam ǀ madhu ǀ urvī ǀ gavyūtiḥ ǀ aditeḥ ǀ ṛtam ǀ yate ǀ
    īśe ǀ yaḥ ǀ vṛṣṭeḥ ǀ itaḥ ǀ usriyaḥ ǀ vṛṣā ǀ apām ǀ netā ǀ yaḥ ǀ itaḥ-ūtiḥ ǀ ṛgmiyaḥ ǁ

    9.74.3 Aṣṭaka 7.2.31.3Anuvāka 9.4.60

  4. Ṛk 4

    आ॒त्म॒न्वन्नभो॑ दुह्यते घृ॒तं पय॑ ऋ॒तस्य॒ नाभि॑र॒मृतं॒ वि जा॑यते ।
    स॒मी॒ची॒नाः सु॒दान॑वः प्रीणंति॒ तं नरो॑ हि॒तमव॑ मेहंति॒ पेर॑वः ॥

    आत्मन्वन् नभो दुह्यते घृतम् पय ऋतस्य नाभिर् अमृतं वि जायते |
    समीचीनाः सुदानवः प्रीणन्ति तं नरो हितम् अव मेहन्ति पेरवः ||

    ātmanvánnábho duhyate ghṛtám páya ṛtásya nā́bhiramṛ́tam ví jāyate ǀ
    samīcīnā́ḥ sudā́navaḥ prīṇanti tám náro hitámáva mehanti péravaḥ ǁ

    ātmanvan nabho duhyate ghṛtam paya ṛtasya nābhir amṛtaṃ vi jāyate |
    samīcīnāḥ sudānavaḥ prīṇanti taṃ naro hitam ava mehanti peravaḥ ||

    आ॒त्म॒न्ऽवत् । नभः॑ । दु॒ह्य॒ते॒ । घृ॒तम् । पयः॑ । ऋ॒तस्य॑ । नाभिः॑ । अ॒मृत॑म् । वि । जा॒य॒ते॒ ।
    स॒म्ऽई॒ची॒नाः । सु॒ऽदान॑वः । प्री॒ण॒न्ति॒ । तम् । नरः॑ । हि॒तम् । अव॑ । मे॒ह॒न्ति॒ । पेर॑वः ॥

    आत्मन्ऽवत् । नभः । दुह्यते । घृतम् । पयः । ऋतस्य । नाभिः । अमृतम् । वि । जायते ।
    सम्ऽईचीनाः । सुऽदानवः । प्रीणन्ति । तम् । नरः । हितम् । अव । मेहन्ति । पेरवः ॥

    ātman-vát ǀ nábhaḥ ǀ duhyate ǀ ghṛtám ǀ páyaḥ ǀ ṛtásya ǀ nā́bhiḥ ǀ amṛ́tam ǀ ví ǀ jāyate ǀ
    sam-īcīnā́ḥ ǀ su-dā́navaḥ ǀ prīṇanti ǀ tám ǀ náraḥ ǀ hitám ǀ áva ǀ mehanti ǀ péravaḥ ǁ

    ātman-vat ǀ nabhaḥ ǀ duhyate ǀ ghṛtam ǀ payaḥ ǀ ṛtasya ǀ nābhiḥ ǀ amṛtam ǀ vi ǀ jāyate ǀ
    sam-īcīnāḥ ǀ su-dānavaḥ ǀ prīṇanti ǀ tam ǀ naraḥ ǀ hitam ǀ ava ǀ mehanti ǀ peravaḥ ǁ

    9.74.4 Aṣṭaka 7.2.31.4Anuvāka 9.4.61

  5. Ṛk 5

    अरा॑वीदं॒शुः सच॑मान ऊ॒र्मिणा॑ देवा॒व्यं१॒॑ मनु॑षे पिन्वति॒ त्वचं॑ ।
    दधा॑ति॒ गर्भ॒मदि॑तेरु॒पस्थ॒ आ येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ॥

    अरावीद् अंशुः सचमान ऊर्मिणा देवाव्यम् मनुषे पिन्वति त्वचम् |
    दधाति गर्भम् अदितेर् उपस्थ आ येन तोकं च तनयं च धामहे ||

    árāvīdaṃśúḥ sácamāna ūrmíṇā devāvyám mánuṣe pinvati tvácam ǀ
    dádhāti gárbhamáditerupástha ā́ yéna tokám ca tánayam ca dhā́mahe ǁ

    arāvīd aṃśuḥ sacamāna ūrmiṇā devāvyam manuṣe pinvati tvacam |
    dadhāti garbham aditer upastha ā yena tokaṃ ca tanayaṃ ca dhāmahe ||

    अरा॑वीत् । अं॒शुः । सच॑मानः । ऊ॒र्मिणा॑ । दे॒व॒ऽअ॒व्य॑म् । मनु॑षे । पि॒न्व॒ति॒ । त्वच॑म् ।
    दधा॑ति । गर्भ॑म् । अदि॑तेः । उ॒पऽस्थे॑ । आ । येन॑ । तो॒कम् । च॒ । तन॑यम् । च॒ । धाम॑हे ॥

    अरावीत् । अंशुः । सचमानः । ऊर्मिणा । देवऽअव्यम् । मनुषे । पिन्वति । त्वचम् ।
    दधाति । गर्भम् । अदितेः । उपऽस्थे । आ । येन । तोकम् । च । तनयम् । च । धामहे ॥

    árāvīt ǀ aṃśúḥ ǀ sácamānaḥ ǀ ūrmíṇā ǀ deva-avyám ǀ mánuṣe ǀ pinvati ǀ tvácam ǀ
    dádhāti ǀ gárbham ǀ áditeḥ ǀ upá-sthe ǀ ā́ ǀ yéna ǀ tokám ǀ ca ǀ tánayam ǀ ca ǀ dhā́mahe ǁ

    arāvīt ǀ aṃśuḥ ǀ sacamānaḥ ǀ ūrmiṇā ǀ deva-avyam ǀ manuṣe ǀ pinvati ǀ tvacam ǀ
    dadhāti ǀ garbham ǀ aditeḥ ǀ upa-sthe ǀ ā ǀ yena ǀ tokam ǀ ca ǀ tanayam ǀ ca ǀ dhāmahe ǁ

    9.74.5 Aṣṭaka 7.2.31.5Anuvāka 9.4.62

  6. Ṛk 6

    स॒हस्र॑धा॒रेऽव॒ ता अ॑स॒श्चत॑स्तृ॒तीये॑ संतु॒ रज॑सि प्र॒जाव॑तीः ।
    चत॑स्रो॒ नाभो॒ निहि॑ता अ॒वो दि॒वो ह॒विर्भ॑रंत्य॒मृतं॑ घृत॒श्चुतः॑ ॥

    सहस्रधारे ऽव ता असश्चतस् तृतीये सन्तु रजसि प्रजावतीः |
    चतस्रो नाभो निहिता अवो दिवो हविर् भरन्त्य् अमृतं घृतश्चुतः ||

    sahásradhāré’va tā́ asaścátastṛtī́ye santu rájasi prajā́vatīḥ ǀ
    cátasro nā́bho níhitā avó divó havírbharantyamṛ́tam ghṛtaścútaḥ ǁ

    sahasradhāre 'va tā asaścatas tṛtīye santu rajasi prajāvatīḥ |
    catasro nābho nihitā avo divo havir bharanty amṛtaṃ ghṛtaścutaḥ ||

    स॒हस्र॑ऽधारे । अव॑ । ताः । अ॒स॒श्चतः॑ । तृ॒तीये॑ । स॒न्तु॒ । रज॑सि । प्र॒जाऽव॑तीः ।
    चत॑स्रः । नाभः॑ । निऽहि॑ताः । अ॒वः । दि॒वः । ह॒विः । भ॒र॒न्ति॒ । अ॒मृत॑म् । घृ॒त॒ऽश्चुतः॑ ॥

    सहस्रऽधारे । अव । ताः । असश्चतः । तृतीये । सन्तु । रजसि । प्रजाऽवतीः ।
    चतस्रः । नाभः । निऽहिताः । अवः । दिवः । हविः । भरन्ति । अमृतम् । घृतऽश्चुतः ॥

    sahásra-dhāre ǀ áva ǀ tā́ḥ ǀ asaścátaḥ ǀ tṛtī́ye ǀ santu ǀ rájasi ǀ prajā́-vatīḥ ǀ
    cátasraḥ ǀ nā́bhaḥ ǀ ní-hitāḥ ǀ aváḥ ǀ diváḥ ǀ havíḥ ǀ bharanti ǀ amṛ́tam ǀ ghṛta-ścútaḥ ǁ

    sahasra-dhāre ǀ ava ǀ tāḥ ǀ asaścataḥ ǀ tṛtīye ǀ santu ǀ rajasi ǀ prajā-vatīḥ ǀ
    catasraḥ ǀ nābhaḥ ǀ ni-hitāḥ ǀ avaḥ ǀ divaḥ ǀ haviḥ ǀ bharanti ǀ amṛtam ǀ ghṛta-ścutaḥ ǁ

    9.74.6 Aṣṭaka 7.2.32.1Anuvāka 9.4.63

  7. Ṛk 7

    श्वे॒तं रू॒पं कृ॑णुते॒ यत्सिषा॑सति॒ सोमो॑ मी॒ढ्वाँ असु॑रो वेद॒ भूम॑नः ।
    धि॒या शमी॑ सचते॒ सेम॒भि प्र॒वद्दि॒वस्कवं॑ध॒मव॑ दर्षदु॒द्रिणं॑ ॥

    श्वेतं रूपं कृणुते यत् सिषासति सोमो मीढ्वां असुरो वेद भूमनः |
    धिया शमी सचते सेम् अभि प्रवद् दिवस् कवन्धम् अव दर्षद् उद्रिणम् ||

    śvetám rūpám kṛṇute yátsíṣāsati sómo mīḍhvā́m̐ ásuro veda bhū́manaḥ ǀ
    dhiyā́ śámī sacate sémabhí praváddiváskávandhamáva darṣadudríṇam ǁ

    śvetaṃ rūpaṃ kṛṇute yat siṣāsati somo mīḍhvāṃ asuro veda bhūmanaḥ |
    dhiyā śamī sacate sem abhi pravad divas kavandham ava darṣad udriṇam ||

    श्वे॒तम् । रू॒पम् । कृ॒णु॒ते॒ । यत् । सिसा॑सति । सोमः॑ । मी॒ढ्वान् । असु॑रः । वे॒द॒ । भूम॑नः ।
    धि॒या । शमी॑ । स॒च॒ते॒ । सः । ई॒म् । अ॒भि । प्र॒ऽवत् । दि॒वः । कव॑न्धम् । अव॑ । द॒र्ष॒त् । उ॒द्रिण॑म् ॥

    श्वेतम् । रूपम् । कृणुते । यत् । सिसासति । सोमः । मीढ्वान् । असुरः । वेद । भूमनः ।
    धिया । शमी । सचते । सः । ईम् । अभि । प्रऽवत् । दिवः । कवन्धम् । अव । दर्षत् । उद्रिणम् ॥

    śvetám ǀ rūpám ǀ kṛṇute ǀ yát ǀ sísāsati ǀ sómaḥ ǀ mīḍhvā́n ǀ ásuraḥ ǀ veda ǀ bhū́manaḥ ǀ
    dhiyā́ ǀ śámī ǀ sacate ǀ sáḥ ǀ īm ǀ abhí ǀ pra-vát ǀ diváḥ ǀ kávandham ǀ áva ǀ darṣat ǀ udríṇam ǁ

    śvetam ǀ rūpam ǀ kṛṇute ǀ yat ǀ sisāsati ǀ somaḥ ǀ mīḍhvān ǀ asuraḥ ǀ veda ǀ bhūmanaḥ ǀ
    dhiyā ǀ śamī ǀ sacate ǀ saḥ ǀ īm ǀ abhi ǀ pra-vat ǀ divaḥ ǀ kavandham ǀ ava ǀ darṣat ǀ udriṇam ǁ

    9.74.7 Aṣṭaka 7.2.32.2Anuvāka 9.4.64

  8. Ṛk 8

    अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तं कार्ष्म॒न्ना वा॒ज्य॑क्रमीत्सस॒वान् ।
    आ हि॑न्विरे॒ मन॑सा देव॒यंतः॑ क॒क्षीव॑ते श॒तहि॑माय॒ गोनां॑ ॥

    अध श्वेतं कलशं गोभिर् अक्तं कार्ष्मन्न् आ वाज्य् अक्रमीत् ससवान् |
    आ हिन्विरे मनसा देवयन्तः कक्षीवते शतहिमाय गोनाम् ||

    ádha śvetám kaláśam góbhiraktám kā́rṣmannā́ vājyákramītsasavā́n ǀ
    ā́ hinvire mánasā devayántaḥ kakṣī́vate śatáhimāya gónām ǁ

    adha śvetaṃ kalaśaṃ gobhir aktaṃ kārṣmann ā vājy akramīt sasavān |
    ā hinvire manasā devayantaḥ kakṣīvate śatahimāya gonām ||

    अध॑ । श्वे॒तम् । क॒लश॑म् । गोभिः॑ । अ॒क्तम् । कार्ष्म॑न् । आ । वा॒जी । अ॒क्र॒मी॒त् । स॒स॒ऽवान् ।
    आ । हि॒न्वि॒रे॒ । मन॑सा । दे॒व॒ऽयन्तः॑ । क॒क्षीव॑ते । श॒तऽहि॑माय । गोना॑म् ॥

    अध । श्वेतम् । कलशम् । गोभिः । अक्तम् । कार्ष्मन् । आ । वाजी । अक्रमीत् । ससऽवान् ।
    आ । हिन्विरे । मनसा । देवऽयन्तः । कक्षीवते । शतऽहिमाय । गोनाम् ॥

    ádha ǀ śvetám ǀ kaláśam ǀ góbhiḥ ǀ aktám ǀ kā́rṣman ǀ ā́ ǀ vājī́ ǀ akramīt ǀ sasa-vā́n ǀ
    ā́ ǀ hinvire ǀ mánasā ǀ deva-yántaḥ ǀ kakṣī́vate ǀ śatá-himāya ǀ gónām ǁ

    adha ǀ śvetam ǀ kalaśam ǀ gobhiḥ ǀ aktam ǀ kārṣman ǀ ā ǀ vājī ǀ akramīt ǀ sasa-vān ǀ
    ā ǀ hinvire ǀ manasā ǀ deva-yantaḥ ǀ kakṣīvate ǀ śata-himāya ǀ gonām ǁ

    9.74.8 Aṣṭaka 7.2.32.3Anuvāka 9.4.65

  9. Ṛk 9

    अ॒द्भिः सो॑म पपृचा॒नस्य॑ ते॒ रसोऽव्यो॒ वारं॒ वि प॑वमान धावति ।
    स मृ॒ज्यमा॑नः क॒विभि॑र्मदिंतम॒ स्वद॒स्वेंद्रा॑य पवमान पी॒तये॑ ॥

    अद्भिः सोम पपृचानस्य ते रसो ऽव्यो वारं वि पवमान धावति |
    स मृज्यमानः कविभिर् मदिन्तम स्वदस्वेन्द्राय पवमान पीतये ||

    adbhíḥ soma papṛcānásya te rásó’vyo vā́ram ví pavamāna dhāvati ǀ
    sá mṛjyámānaḥ kavíbhirmadintama svádasvéndrāya pavamāna pītáye ǁ

    adbhiḥ soma papṛcānasya te raso 'vyo vāraṃ vi pavamāna dhāvati |
    sa mṛjyamānaḥ kavibhir madintama svadasvendrāya pavamāna pītaye ||

    अ॒त्ऽभिः । सो॒म॒ । प॒पृ॒चा॒नस्य॑ । ते॒ । रसः॑ । अव्यः॑ । वार॑म् । वि । प॒व॒मा॒न॒ । धा॒व॒ति॒ ।
    सः । मृ॒ज्यमा॑नः । क॒विऽभिः॑ । म॒दि॒न्ऽत॒म॒ । स्वद॑स्व । इन्द्रा॑य । प॒व॒मा॒न॒ । पी॒तये॑ ॥

    अत्ऽभिः । सोम । पपृचानस्य । ते । रसः । अव्यः । वारम् । वि । पवमान । धावति ।
    सः । मृज्यमानः । कविऽभिः । मदिन्ऽतम । स्वदस्व । इन्द्राय । पवमान । पीतये ॥

    at-bhíḥ ǀ soma ǀ papṛcānásya ǀ te ǀ rásaḥ ǀ ávyaḥ ǀ vā́ram ǀ ví ǀ pavamāna ǀ dhāvati ǀ
    sáḥ ǀ mṛjyámānaḥ ǀ kaví-bhiḥ ǀ madin-tama ǀ svádasva ǀ índrāya ǀ pavamāna ǀ pītáye ǁ

    at-bhiḥ ǀ soma ǀ papṛcānasya ǀ te ǀ rasaḥ ǀ avyaḥ ǀ vāram ǀ vi ǀ pavamāna ǀ dhāvati ǀ
    saḥ ǀ mṛjyamānaḥ ǀ kavi-bhiḥ ǀ madin-tama ǀ svadasva ǀ indrāya ǀ pavamāna ǀ pītaye ǁ

    9.74.9 Aṣṭaka 7.2.32.4Anuvāka 9.4.66

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 9.74 · Soma Pavamāna

Interpretations

Ralph T. H. Griffith

Ṛk 1

BORN like a youngling he hath clamoured in the wood, when he, the Red, the Strong, would win the light of heaven. He comes with heavenly seed that makes the water swell: him for wide-spreading shelter we implore with prayer.

Ṛk 2

A far-extended pillar that supports the sky the Soma-stalk, filled full, moves itself every way. He shall bring both these great worlds while the rite proceeds: the Sage holds these who move! together and all food.

Ṛk 3

Wide space hath he who follows Aditi's right path, and mighty, well-made food, meath blent with Soma juice; He who from hence commands the rain, Steer of the kine, Leader of floods, who helps us hence, who claims our laud.

Ṛk 4

Butter and milk are drawn from animated cloud; thence Amṛta is produced, centre of sacrifice. Hini the Most Bounteous Ones, ever united, love; him as ouir Friend the Men who make all swell rain down.

Ṛk 5

The Soma-stalk hath roared, following with the wave: he swells with sap for man the skin which Gods enjoy. Upon the lap of Aditi he lays the germ, by means whereof we gain children and progeny.

Ṛk 6

In the third region which distils a thousand streams, may the Exhaustless Ones descend with procreant power. The kindred Four have been sent downward from the heavens: dropping with oil they bring Amṛta and sacred gifts.

Ṛk 7

Soma assumes white colour when he strives to gain: the bounteous Asura knows full many a precious boon. Down the steep slope, through song, he comes to sacrifice, and he will burst the water-holding cask of heaven,

Ṛk 8

Yea, to the shining milk-anointed beaker, as to his goal, hath stepped the conquering Courser. Pious-souled men have sent their giffi of cattle unto Kakṣīvān of the hundred winters.