Sūkta 93
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (1, 3, 4); triṣṭup (2); pādanicṛttriṣṭup (5)
2nd set of styles triṣṭubh
-
Ṛk 1
सा॒क॒मुक्षो॑ मर्जयंत॒ स्वसा॑रो॒ दश॒ धीर॑स्य धी॒तयो॒ धनु॑त्रीः ।
हरिः॒ पर्य॑द्रव॒ज्जाः सूर्य॑स्य॒ द्रोणं॑ ननक्षे॒ अत्यो॒ न वा॒जी ॥साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः |
हरिः पर्य् अद्रवज् जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ||sākamúkṣo marjayanta svásāro dáśa dhī́rasya dhītáyo dhánutrīḥ ǀ
háriḥ páryadravajjā́ḥ sū́ryasya dróṇam nanakṣe átyo ná vājī́ ǁsākamukṣo marjayanta svasāro daśa dhīrasya dhītayo dhanutrīḥ |
hariḥ pary adravaj jāḥ sūryasya droṇaṃ nanakṣe atyo na vājī ||सा॒क॒म्ऽउक्षः॑ । म॒र्ज॒य॒न्त॒ । स्वसा॑रः । दश॑ । धीर॑स्य । धी॒तयः॑ । धनु॑त्रीः ।
हरिः॑ । परि॑ । अ॒द्र॒व॒त् । जाः । सूर्य॑स्य । द्रोण॑म् । न॒न॒क्षे॒ । अत्यः॑ । न । वा॒जी ॥साकम्ऽउक्षः । मर्जयन्त । स्वसारः । दश । धीरस्य । धीतयः । धनुत्रीः ।
हरिः । परि । अद्रवत् । जाः । सूर्यस्य । द्रोणम् । ननक्षे । अत्यः । न । वाजी ॥sākam-úkṣaḥ ǀ marjayanta ǀ svásāraḥ ǀ dáśa ǀ dhī́rasya ǀ dhītáyaḥ ǀ dhánutrīḥ ǀ
háriḥ ǀ pári ǀ adravat ǀ jā́ḥ ǀ sū́ryasya ǀ dróṇam ǀ nanakṣe ǀ átyaḥ ǀ ná ǀ vājī́ ǁsākam-ukṣaḥ ǀ marjayanta ǀ svasāraḥ ǀ daśa ǀ dhīrasya ǀ dhītayaḥ ǀ dhanutrīḥ ǀ
hariḥ ǀ pari ǀ adravat ǀ jāḥ ǀ sūryasya ǀ droṇam ǀ nanakṣe ǀ atyaḥ ǀ na ǀ vājī ǁ9.93.1 Aṣṭaka 7.4.3.1Anuvāka 9.5.91
-
Ṛk 2
सं मा॒तृभि॒र्न शिशु॑र्वावशा॒नो वृषा॑ दधन्वे पुरु॒वारो॑ अ॒द्भिः ।
मर्यो॒ न योषा॑म॒भि नि॑ष्कृ॒तं यन्त्सं ग॑च्छते क॒लश॑ उ॒स्रिया॑भिः ॥सम् मातृभिर् न शिशुर् वावशानो वृषा दधन्वे पुरुवारो अद्भिः |
मर्यो न योषाम् अभि निष्कृतं यन् सं गच्छते कलश उस्रियाभिः ||sám mātṛ́bhirná śíśurvāvaśānó vṛ́ṣā dadhanve puruvā́ro adbhíḥ ǀ
máryo ná yóṣāmabhí niṣkṛtám yántsám gacchate kaláśa usríyābhiḥ ǁsam mātṛbhir na śiśur vāvaśāno vṛṣā dadhanve puruvāro adbhiḥ |
maryo na yoṣām abhi niṣkṛtaṃ yan saṃ gacchate kalaśa usriyābhiḥ ||सम् । मा॒तृऽभिः॑ । न । शिशुः॑ । वा॒व॒शा॒नः । वृषा॑ । द॒ध॒न्वे॒ । पु॒रु॒ऽवारः॑ । अ॒त्ऽभिः ।
मर्यः॑ । न । योषा॑म् । अ॒भि । निः॒ऽकृ॒तम् । यन् । सम् । ग॒च्छ॒ते॒ । क॒लशे॑ । उ॒स्रिया॑भिः ॥सम् । मातृऽभिः । न । शिशुः । वावशानः । वृषा । दधन्वे । पुरुऽवारः । अत्ऽभिः ।
मर्यः । न । योषाम् । अभि । निःऽकृतम् । यन् । सम् । गच्छते । कलशे । उस्रियाभिः ॥sám ǀ mātṛ́-bhiḥ ǀ ná ǀ śíśuḥ ǀ vāvaśānáḥ ǀ vṛ́ṣā ǀ dadhanve ǀ puru-vā́raḥ ǀ at-bhíḥ ǀ
máryaḥ ǀ ná ǀ yóṣām ǀ abhí ǀ niḥ-kṛtám ǀ yán ǀ sám ǀ gacchate ǀ kaláśe ǀ usríyābhiḥ ǁsam ǀ mātṛ-bhiḥ ǀ na ǀ śiśuḥ ǀ vāvaśānaḥ ǀ vṛṣā ǀ dadhanve ǀ puru-vāraḥ ǀ at-bhiḥ ǀ
maryaḥ ǀ na ǀ yoṣām ǀ abhi ǀ niḥ-kṛtam ǀ yan ǀ sam ǀ gacchate ǀ kalaśe ǀ usriyābhiḥ ǁ9.93.2 Aṣṭaka 7.4.3.2Anuvāka 9.5.92
-
Ṛk 3
उ॒त प्र पि॑प्य॒ ऊध॒रघ्न्या॑या॒ इंदु॒र्धारा॑भिः सचते सुमे॒धाः ।
मू॒र्धानं॒ गावः॒ पय॑सा च॒मूष्व॒भि श्री॑णंति॒ वसु॑भि॒र्न नि॒क्तैः ॥उत प्र पिप्य ऊधर् अघ्न्याया इन्दुर् धाराभिः सचते सुमेधाः |
मूर्धानं गावः पयसा चमूष्व् अभि श्रीणन्ति वसुभिर् न निक्तैः ||utá prá pipya ū́dharághnyāyā índurdhā́rābhiḥ sacate sumedhā́ḥ ǀ
mūrdhā́nam gā́vaḥ páyasā camū́ṣvabhí śrīṇanti vásubhirná niktáiḥ ǁuta pra pipya ūdhar aghnyāyā indur dhārābhiḥ sacate sumedhāḥ |
mūrdhānaṃ gāvaḥ payasā camūṣv abhi śrīṇanti vasubhir na niktaiḥ ||उ॒त । प्र । पि॒प्ये॒ । ऊधः॑ । अघ्न्या॑याः । इन्दुः॑ । धारा॑भिः । स॒च॒ते॒ । सु॒ऽमे॒धाः ।
मू॒र्धान॑म् । गावः॑ । पय॑सा । च॒मूषु॑ । अ॒भि । श्री॒ण॒न्ति॒ । वसु॑ऽभिः । न । नि॒क्तैः ॥उत । प्र । पिप्ये । ऊधः । अघ्न्यायाः । इन्दुः । धाराभिः । सचते । सुऽमेधाः ।
मूर्धानम् । गावः । पयसा । चमूषु । अभि । श्रीणन्ति । वसुऽभिः । न । निक्तैः ॥utá ǀ prá ǀ pipye ǀ ū́dhaḥ ǀ ághnyāyāḥ ǀ índuḥ ǀ dhā́rābhiḥ ǀ sacate ǀ su-medhā́ḥ ǀ
mūrdhā́nam ǀ gā́vaḥ ǀ páyasā ǀ camū́ṣu ǀ abhí ǀ śrīṇanti ǀ vásu-bhiḥ ǀ ná ǀ niktáiḥ ǁuta ǀ pra ǀ pipye ǀ ūdhaḥ ǀ aghnyāyāḥ ǀ induḥ ǀ dhārābhiḥ ǀ sacate ǀ su-medhāḥ ǀ
mūrdhānam ǀ gāvaḥ ǀ payasā ǀ camūṣu ǀ abhi ǀ śrīṇanti ǀ vasu-bhiḥ ǀ na ǀ niktaiḥ ǁ9.93.3 Aṣṭaka 7.4.3.3Anuvāka 9.5.93
-
Ṛk 4
स नो॑ दे॒वेभिः॑ पवमान र॒देंदो॑ र॒यिम॒श्विनं॑ वावशा॒नः ।
र॒थि॒रा॒यता॑मुश॒ती पुरं॑धिरस्म॒द्र्य१॒॑गा दा॒वने॒ वसू॑नां ॥स नो देवेभिः पवमान रदेन्दो रयिम् अश्विनं वावशानः |
रथिरायताम् उशती पुरन्धिर् अस्मद्र्यग् आ दावने वसूनाम् ||sá no devébhiḥ pavamāna radéndo rayímaśvínam vāvaśānáḥ ǀ
rathirāyátāmuśatī́ púraṃdhirasmadryágā́ dāváne vásūnām ǁsa no devebhiḥ pavamāna radendo rayim aśvinaṃ vāvaśānaḥ |
rathirāyatām uśatī purandhir asmadryag ā dāvane vasūnām ||सः । नः॒ । दे॒वेभिः॑ । प॒व॒मा॒न॒ । र॒द॒ । इन्दो॒ इति॑ । र॒यिम् । अ॒श्विन॑म् । वा॒व॒शा॒नः ।
र॒थि॒रा॒यता॑म् । उ॒श॒ती । पुर॑म्ऽधिः । अ॒स्म॒द्र्य॑क् । आ । दा॒वने॑ । वसू॑नाम् ॥सः । नः । देवेभिः । पवमान । रद । इन्दो इति । रयिम् । अश्विनम् । वावशानः ।
रथिरायताम् । उशती । पुरम्ऽधिः । अस्मद्र्यक् । आ । दावने । वसूनाम् ॥sáḥ ǀ naḥ ǀ devébhiḥ ǀ pavamāna ǀ rada ǀ índo íti ǀ rayím ǀ aśvínam ǀ vāvaśānáḥ ǀ
rathirāyátām ǀ uśatī́ ǀ púram-dhiḥ ǀ asmadryák ǀ ā́ ǀ dāváne ǀ vásūnām ǁsaḥ ǀ naḥ ǀ devebhiḥ ǀ pavamāna ǀ rada ǀ indo iti ǀ rayim ǀ aśvinam ǀ vāvaśānaḥ ǀ
rathirāyatām ǀ uśatī ǀ puram-dhiḥ ǀ asmadryak ǀ ā ǀ dāvane ǀ vasūnām ǁ9.93.4 Aṣṭaka 7.4.3.4Anuvāka 9.5.94
-
Ṛk 5
नू नो॑ र॒यिमुप॑ मास्व नृ॒वंतं॑ पुना॒नो वा॒ताप्यं॑ वि॒श्वश्चं॑द्रं ।
प्र वं॑दि॒तुरिं॑दो ता॒र्यायुः॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥नू नो रयिम् उप मास्व नृवन्तम् पुनानो वाताप्यं विश्वश्चन्द्रम् |
प्र वन्दितुर् इन्दो तार्य् आयुः प्रातर् मक्षू धियावसुर् जगम्यात् ||nū́ no rayímúpa māsva nṛvántam punānó vātā́pyam viśváścandram ǀ
prá vanditúrindo tāryā́yuḥ prātármakṣū́ dhiyā́vasurjagamyāt ǁnū no rayim upa māsva nṛvantam punāno vātāpyaṃ viśvaścandram |
pra vanditur indo tāry āyuḥ prātar makṣū dhiyāvasur jagamyāt ||नु । नः॒ । र॒यिम् । उप॑ । मा॒स्व॒ । नृ॒ऽवन्त॑म् । पु॒ना॒नः । वा॒ताप्य॑म् । वि॒श्वऽच॑न्द्रम् ।
प्र । व॒न्दि॒तुः । इ॒न्दो॒ इति॑ । ता॒रि॒ । आयुः॑ । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥नु । नः । रयिम् । उप । मास्व । नृऽवन्तम् । पुनानः । वाताप्यम् । विश्वऽचन्द्रम् ।
प्र । वन्दितुः । इन्दो इति । तारि । आयुः । प्रातः । मक्षु । धियाऽवसुः । जगम्यात् ॥nú ǀ naḥ ǀ rayím ǀ úpa ǀ māsva ǀ nṛ-vántam ǀ punānáḥ ǀ vātā́pyam ǀ viśvá-candram ǀ
prá ǀ vanditúḥ ǀ indo íti ǀ tāri ǀ ā́yuḥ ǀ prātáḥ ǀ makṣú ǀ dhiyā́-vasuḥ ǀ jagamyāt ǁnu ǀ naḥ ǀ rayim ǀ upa ǀ māsva ǀ nṛ-vantam ǀ punānaḥ ǀ vātāpyam ǀ viśva-candram ǀ
pra ǀ vandituḥ ǀ indo iti ǀ tāri ǀ āyuḥ ǀ prātaḥ ǀ makṣu ǀ dhiyā-vasuḥ ǀ jagamyāt ǁ9.93.5 Aṣṭaka 7.4.3.5Anuvāka 9.5.95
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.