Sūkta 89
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Uśanas Kāvya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (2, 5, 6); virāṭtrisṭup (3, 7); pādanicṛttriṣṭup (1); nicṛttriṣṭup (4)
2nd set of styles triṣṭubh
-
Ṛk 1
प्रो स्य वह्निः॑ प॒थ्या॑भिरस्यांदि॒वो न वृ॒ष्टिः पव॑मानो अक्षाः ।
स॒हस्र॑धारो असद॒न्न्य१॒॑स्मे मा॒तुरु॒पस्थे॒ वन॒ आ च॒ सोमः॑ ॥प्रो स्य वह्निः पथ्याभिर् अस्यान् दिवो न वृष्टिः पवमानो अक्षाः |
सहस्रधारो असदन् न्य् अस्मे मातुर् उपस्थे वन आ च सोमः ||pró syá váhniḥ pathyā́bhirasyāndivó ná vṛṣṭíḥ pávamāno akṣāḥ ǀ
sahásradhāro asadannyásmé mātúrupásthe vána ā́ ca sómaḥ ǁpro sya vahniḥ pathyābhir asyān divo na vṛṣṭiḥ pavamāno akṣāḥ |
sahasradhāro asadan ny asme mātur upasthe vana ā ca somaḥ ||प्रो इति॑ । स्यः । वह्निः॑ । प॒थ्या॑भिः । अ॒स्या॒न् । दि॒वः । न । वृ॒ष्टिः । पव॑मानः । अ॒क्षा॒रिति॑ ।
स॒हस्र॑ऽधारः । अ॒स॒द॒त् । नि । अ॒स्मे इति॑ । मा॒तुः । उ॒पऽस्थे॑ । वने॑ । आ । च॒ । सोमः॑ ॥प्रो इति । स्यः । वह्निः । पथ्याभिः । अस्यान् । दिवः । न । वृष्टिः । पवमानः । अक्षारिति ।
सहस्रऽधारः । असदत् । नि । अस्मे इति । मातुः । उपऽस्थे । वने । आ । च । सोमः ॥pró íti ǀ syáḥ ǀ váhniḥ ǀ pathyā́bhiḥ ǀ asyān ǀ diváḥ ǀ ná ǀ vṛṣṭíḥ ǀ pávamānaḥ ǀ akṣāríti ǀ
sahásra-dhāraḥ ǀ asadat ǀ ní ǀ asmé íti ǀ mātúḥ ǀ upá-sthe ǀ váne ǀ ā́ ǀ ca ǀ sómaḥ ǁpro iti ǀ syaḥ ǀ vahniḥ ǀ pathyābhiḥ ǀ asyān ǀ divaḥ ǀ na ǀ vṛṣṭiḥ ǀ pavamānaḥ ǀ akṣāriti ǀ
sahasra-dhāraḥ ǀ asadat ǀ ni ǀ asme iti ǀ mātuḥ ǀ upa-sthe ǀ vane ǀ ā ǀ ca ǀ somaḥ ǁ9.89.1 Aṣṭaka 7.3.25.1Anuvāka 9.5.66
-
Ṛk 2
राजा॒ सिंधू॑नामवसिष्ट॒ वास॑ ऋ॒तस्य॒ नाव॒मारु॑ह॒द्रजि॑ष्ठां ।
अ॒प्सु द्र॒प्सो वा॑वृधे श्ये॒नजू॑तो दु॒ह ईं॑ पि॒ता दु॒ह ईं॑ पि॒तुर्जां ॥राजा सिन्धूनाम् अवसिष्ट वास ऋतस्य नावम् आरुहद् रजिष्ठाम् |
अप्सु द्रप्सो वावृधे श्येनजूतो दुह ईम् पिता दुह ईम् पितुर् जाम् ||rā́jā síndhūnāmavasiṣṭa vā́sa ṛtásya nā́vamā́ruhadrájiṣṭhām ǀ
apsú drapsó vāvṛdhe śyenájūto duhá īm pitā́ duhá īm pitúrjām ǁrājā sindhūnām avasiṣṭa vāsa ṛtasya nāvam āruhad rajiṣṭhām |
apsu drapso vāvṛdhe śyenajūto duha īm pitā duha īm pitur jām ||राजा॑ । सिन्धू॑नाम् । अ॒व॒सि॒ष्ट॒ । वासः॑ । ऋ॒तस्य॑ । नाव॑म् । आ । अ॒रु॒ह॒त् । रजि॑ष्ठाम् ।
अ॒प्ऽसु । द्र॒प्सः । व॒वृ॒धे॒ । श्ये॒नऽजू॑तः । दु॒हे । ई॒म् । पि॒ता । दु॒हे । ई॒म् । पि॒तुः । जाम् ॥राजा । सिन्धूनाम् । अवसिष्ट । वासः । ऋतस्य । नावम् । आ । अरुहत् । रजिष्ठाम् ।
अप्ऽसु । द्रप्सः । ववृधे । श्येनऽजूतः । दुहे । ईम् । पिता । दुहे । ईम् । पितुः । जाम् ॥rā́jā ǀ síndhūnām ǀ avasiṣṭa ǀ vā́saḥ ǀ ṛtásya ǀ nā́vam ǀ ā́ ǀ aruhat ǀ rájiṣṭhām ǀ
ap-sú ǀ drapsáḥ ǀ vavṛdhe ǀ śyená-jūtaḥ ǀ duhé ǀ īm ǀ pitā́ ǀ duhé ǀ īm ǀ pitúḥ ǀ jā́m ǁrājā ǀ sindhūnām ǀ avasiṣṭa ǀ vāsaḥ ǀ ṛtasya ǀ nāvam ǀ ā ǀ aruhat ǀ rajiṣṭhām ǀ
ap-su ǀ drapsaḥ ǀ vavṛdhe ǀ śyena-jūtaḥ ǀ duhe ǀ īm ǀ pitā ǀ duhe ǀ īm ǀ pituḥ ǀ jām ǁ9.89.2 Aṣṭaka 7.3.25.2Anuvāka 9.5.67
-
Ṛk 3
सिं॒हं न॑संत॒ मध्वो॑ अ॒यासं॒ हरि॑मरु॒षं दि॒वो अ॒स्य पतिं॑ ।
शूरो॑ यु॒त्सु प्र॑थ॒मः पृ॑च्छते॒ गा अस्य॒ चक्ष॑सा॒ परि॑ पात्यु॒क्षा ॥सिंहं नसन्त मध्वो अयासं हरिम् अरुषं दिवो अस्य पतिम् |
शूरो युत्सु प्रथमः पृच्छते गा अस्य चक्षसा परि पात्य् उक्षा ||siṃhám nasanta mádhvo ayā́sam hárimaruṣám divó asyá pátim ǀ
śū́ro yutsú prathamáḥ pṛcchate gā́ ásya cákṣasā pári pātyukṣā́ ǁsiṃhaṃ nasanta madhvo ayāsaṃ harim aruṣaṃ divo asya patim |
śūro yutsu prathamaḥ pṛcchate gā asya cakṣasā pari pāty ukṣā ||सिं॒हम् । न॒स॒न्त॒ । मध्वः॑ । अ॒यास॑म् । हरि॑म् । अ॒रु॒षम् । दि॒वः । अ॒स्य । पति॑म् ।
शूरः॑ । यु॒त्ऽसु । प्र॒थ॒मः । पृ॒च्छ॒ते॒ । गाः । अस्य॑ । चक्ष॑सा । परि॑ । पा॒ति॒ । उ॒क्षा ॥सिंहम् । नसन्त । मध्वः । अयासम् । हरिम् । अरुषम् । दिवः । अस्य । पतिम् ।
शूरः । युत्ऽसु । प्रथमः । पृच्छते । गाः । अस्य । चक्षसा । परि । पाति । उक्षा ॥siṃhám ǀ nasanta ǀ mádhvaḥ ǀ ayā́sam ǀ hárim ǀ aruṣám ǀ diváḥ ǀ asyá ǀ pátim ǀ
śū́raḥ ǀ yut-sú ǀ prathamáḥ ǀ pṛcchate ǀ gā́ḥ ǀ ásya ǀ cákṣasā ǀ pári ǀ pāti ǀ ukṣā́ ǁsiṃham ǀ nasanta ǀ madhvaḥ ǀ ayāsam ǀ harim ǀ aruṣam ǀ divaḥ ǀ asya ǀ patim ǀ
śūraḥ ǀ yut-su ǀ prathamaḥ ǀ pṛcchate ǀ gāḥ ǀ asya ǀ cakṣasā ǀ pari ǀ pāti ǀ ukṣā ǁ9.89.3 Aṣṭaka 7.3.25.3Anuvāka 9.5.68
-
Ṛk 4
मधु॑पृष्ठं घो॒रम॒यास॒मश्वं॒ रथे॑ युंजंत्युरुच॒क्र ऋ॒ष्वं ।
स्वसा॑र ईं जा॒मयो॑ मर्जयंति॒ सना॑भयो वा॒जिन॑मूर्जयंति ॥मधुपृष्ठं घोरम् अयासम् अश्वं रथे युञ्जन्त्य् उरुचक्र ऋष्वम् |
स्वसार ईं जामयो मर्जयन्ति सनाभयो वाजिनम् ऊर्जयन्ति ||mádhupṛṣṭham ghorámayā́samáśvam ráthe yuñjantyurucakrá ṛṣvám ǀ
svásāra īm jāmáyo marjayanti sánābhayo vājínamūrjayanti ǁmadhupṛṣṭhaṃ ghoram ayāsam aśvaṃ rathe yuñjanty urucakra ṛṣvam |
svasāra īṃ jāmayo marjayanti sanābhayo vājinam ūrjayanti ||मधु॑ऽपृष्ठम् । घो॒रम् । अ॒यास॑म् । अश्व॑म् । रथे॑ । यु॒ञ्ज॒न्ति॒ । उ॒रु॒ऽच॒क्रे । ऋ॒ष्वम् ।
स्वसा॑रः । ई॒म् । जा॒मयः॑ । म॒र्ज॒य॒न्ति॒ । सऽना॑भयः । वा॒जिन॑म् । ऊ॒र्ज॒य॒न्ति॒ ॥मधुऽपृष्ठम् । घोरम् । अयासम् । अश्वम् । रथे । युञ्जन्ति । उरुऽचक्रे । ऋष्वम् ।
स्वसारः । ईम् । जामयः । मर्जयन्ति । सऽनाभयः । वाजिनम् । ऊर्जयन्ति ॥mádhu-pṛṣṭham ǀ ghorám ǀ ayā́sam ǀ áśvam ǀ ráthe ǀ yuñjanti ǀ uru-cakré ǀ ṛṣvám ǀ
svásāraḥ ǀ īm ǀ jāmáyaḥ ǀ marjayanti ǀ sá-nābhayaḥ ǀ vājínam ǀ ūrjayanti ǁmadhu-pṛṣṭham ǀ ghoram ǀ ayāsam ǀ aśvam ǀ rathe ǀ yuñjanti ǀ uru-cakre ǀ ṛṣvam ǀ
svasāraḥ ǀ īm ǀ jāmayaḥ ǀ marjayanti ǀ sa-nābhayaḥ ǀ vājinam ǀ ūrjayanti ǁ9.89.4 Aṣṭaka 7.3.25.4Anuvāka 9.5.69
-
Ṛk 5
चत॑स्र ईं घृत॒दुहः॑ सचंते समा॒ने अं॒तर्ध॒रुणे॒ निष॑त्ताः ।
ता ई॑मर्षंति॒ नम॑सा पुना॒नास्ता ईं॑ वि॒श्वतः॒ परि॑ षंति पू॒र्वीः ॥चतस्र ईं घृतदुहः सचन्ते समाने अन्तर् धरुणे निषत्ताः |
ता ईम् अर्षन्ति नमसा पुनानास् ता ईं विश्वतः परि षन्ति पूर्वीः ||cátasra īm ghṛtadúhaḥ sacante samāné antárdharúṇe níṣattāḥ ǀ
tā́ īmarṣanti námasā punānā́stā́ īm viśvátaḥ pári ṣanti pūrvī́ḥ ǁcatasra īṃ ghṛtaduhaḥ sacante samāne antar dharuṇe niṣattāḥ |
tā īm arṣanti namasā punānās tā īṃ viśvataḥ pari ṣanti pūrvīḥ ||चत॑स्रः । ई॒म् । घृ॒त॒ऽदुहः॑ । स॒च॒न्ते॒ । स॒मा॒ने । अ॒न्तः । ध॒रुणे॑ । निऽस॑त्ताः ।
ताः । ई॒म् । अ॒र्ष॒न्ति॒ । नम॑सा । पु॒ना॒नाः । ताः । ई॒म् । वि॒श्वतः॑ । परि॑ । स॒न्ति॒ । पू॒र्वीः ॥चतस्रः । ईम् । घृतऽदुहः । सचन्ते । समाने । अन्तः । धरुणे । निऽसत्ताः ।
ताः । ईम् । अर्षन्ति । नमसा । पुनानाः । ताः । ईम् । विश्वतः । परि । सन्ति । पूर्वीः ॥cátasraḥ ǀ īm ǀ ghṛta-dúhaḥ ǀ sacante ǀ samāné ǀ antáḥ ǀ dharúṇe ǀ ní-sattāḥ ǀ
tā́ḥ ǀ īm ǀ arṣanti ǀ námasā ǀ punānā́ḥ ǀ tā́ḥ ǀ īm ǀ viśvátaḥ ǀ pári ǀ santi ǀ pūrvī́ḥ ǁcatasraḥ ǀ īm ǀ ghṛta-duhaḥ ǀ sacante ǀ samāne ǀ antaḥ ǀ dharuṇe ǀ ni-sattāḥ ǀ
tāḥ ǀ īm ǀ arṣanti ǀ namasā ǀ punānāḥ ǀ tāḥ ǀ īm ǀ viśvataḥ ǀ pari ǀ santi ǀ pūrvīḥ ǁ9.89.5 Aṣṭaka 7.3.25.5Anuvāka 9.5.70
-
Ṛk 6
वि॒ष्टं॒भो दि॒वो ध॒रुणः॑ पृथि॒व्या विश्वा॑ उ॒त क्षि॒तयो॒ हस्ते॑ अस्य ।
अस॑त्त॒ उत्सो॑ गृण॒ते नि॒युत्वा॒न्मध्वो॑ अं॒शुः प॑वत इंद्रि॒याय॑ ॥विष्टम्भो दिवो धरुणः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य |
असत् त उत्सो गृणते नियुत्वान् मध्वो अंशुः पवत इन्द्रियाय ||viṣṭambhó divó dharúṇaḥ pṛthivyā́ víśvā utá kṣitáyo háste asya ǀ
ásatta útso gṛṇaté niyútvānmádhvo aṃśúḥ pavata indriyā́ya ǁviṣṭambho divo dharuṇaḥ pṛthivyā viśvā uta kṣitayo haste asya |
asat ta utso gṛṇate niyutvān madhvo aṃśuḥ pavata indriyāya ||वि॒ष्ट॒म्भः । दि॒वः । ध॒रुणः॑ । पृ॒थि॒व्याः । विश्वाः॑ । उ॒त । क्षि॒तयः॑ । हस्ते॑ । अ॒स्य॒ ।
अस॑त् । ते॒ । उत्सः॑ । गृ॒ण॒ते । नि॒युत्वा॑न् । मध्वः॑ । अं॒शुः । प॒व॒ते॒ । इ॒न्द्रि॒याय॑ ॥विष्टम्भः । दिवः । धरुणः । पृथिव्याः । विश्वाः । उत । क्षितयः । हस्ते । अस्य ।
असत् । ते । उत्सः । गृणते । नियुत्वान् । मध्वः । अंशुः । पवते । इन्द्रियाय ॥viṣṭambháḥ ǀ diváḥ ǀ dharúṇaḥ ǀ pṛthivyā́ḥ ǀ víśvāḥ ǀ utá ǀ kṣitáyaḥ ǀ háste ǀ asya ǀ
ásat ǀ te ǀ útsaḥ ǀ gṛṇaté ǀ niyútvān ǀ mádhvaḥ ǀ aṃśúḥ ǀ pavate ǀ indriyā́ya ǁviṣṭambhaḥ ǀ divaḥ ǀ dharuṇaḥ ǀ pṛthivyāḥ ǀ viśvāḥ ǀ uta ǀ kṣitayaḥ ǀ haste ǀ asya ǀ
asat ǀ te ǀ utsaḥ ǀ gṛṇate ǀ niyutvān ǀ madhvaḥ ǀ aṃśuḥ ǀ pavate ǀ indriyāya ǁ9.89.6 Aṣṭaka 7.3.25.6Anuvāka 9.5.71
-
Ṛk 7
व॒न्वन्नवा॑तो अ॒भि दे॒ववी॑ति॒मिंद्रा॑य सोम वृत्र॒हा प॑वस्व ।
श॒ग्धि म॒हः पु॑रुश्चं॒द्रस्य॑ रा॒यः सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥वन्वन्न् अवातो अभि देववीतिम् इन्द्राय सोम वृत्रहा पवस्व |
शग्धि महः पुरुश्चन्द्रस्य रायः सुवीर्यस्य पतयः स्याम ||vanvánnávāto abhí devávītimíndrāya soma vṛtrahā́ pavasva ǀ
śagdhí maháḥ puruścandrásya rāyáḥ suvī́ryasya pátayaḥ syāma ǁvanvann avāto abhi devavītim indrāya soma vṛtrahā pavasva |
śagdhi mahaḥ puruścandrasya rāyaḥ suvīryasya patayaḥ syāma ||व॒न्वन् । अवा॑तः । अ॒भि । दे॒वऽवी॑तिम् । इन्द्रा॑य । सो॒म॒ । वृ॒त्र॒ऽहा । प॒व॒स्व॒ ।
श॒ग्धि । म॒हः । पु॒रु॒ऽच॒न्द्रस्य॑ । रा॒यः । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥वन्वन् । अवातः । अभि । देवऽवीतिम् । इन्द्राय । सोम । वृत्रऽहा । पवस्व ।
शग्धि । महः । पुरुऽचन्द्रस्य । रायः । सुऽवीर्यस्य । पतयः । स्याम ॥vanván ǀ ávātaḥ ǀ abhí ǀ devá-vītim ǀ índrāya ǀ soma ǀ vṛtra-hā́ ǀ pavasva ǀ
śagdhí ǀ maháḥ ǀ puru-candrásya ǀ rāyáḥ ǀ su-vī́ryasya ǀ pátayaḥ ǀ syāma ǁvanvan ǀ avātaḥ ǀ abhi ǀ deva-vītim ǀ indrāya ǀ soma ǀ vṛtra-hā ǀ pavasva ǀ
śagdhi ǀ mahaḥ ǀ puru-candrasya ǀ rāyaḥ ǀ su-vīryasya ǀ patayaḥ ǀ syāma ǁ9.89.7 Aṣṭaka 7.3.25.7Anuvāka 9.5.72
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.