Ṛk 9.89.4
Saṃhitā
मधु॑पृष्ठं घो॒रम॒यास॒मश्वं॒ रथे॑ युंजंत्युरुच॒क्र ऋ॒ष्वं ।
स्वसा॑र ईं जा॒मयो॑ मर्जयंति॒ सना॑भयो वा॒जिन॑मूर्जयंति ॥
मधुपृष्ठं घोरम् अयासम् अश्वं रथे युञ्जन्त्य् उरुचक्र ऋष्वम् |
स्वसार ईं जामयो मर्जयन्ति सनाभयो वाजिनम् ऊर्जयन्ति ||
mádhupṛṣṭham ghorámayā́samáśvam ráthe yuñjantyurucakrá ṛṣvám ǀ
svásāra īm jāmáyo marjayanti sánābhayo vājínamūrjayanti ǁ
madhupṛṣṭhaṃ ghoram ayāsam aśvaṃ rathe yuñjanty urucakra ṛṣvam |
svasāra īṃ jāmayo marjayanti sanābhayo vājinam ūrjayanti ||
Padapāṭha
मधु॑ऽपृष्ठम् । घो॒रम् । अ॒यास॑म् । अश्व॑म् । रथे॑ । यु॒ञ्ज॒न्ति॒ । उ॒रु॒ऽच॒क्रे । ऋ॒ष्वम् ।
स्वसा॑रः । ई॒म् । जा॒मयः॑ । म॒र्ज॒य॒न्ति॒ । सऽना॑भयः । वा॒जिन॑म् । ऊ॒र्ज॒य॒न्ति॒ ॥
मधुऽपृष्ठम् । घोरम् । अयासम् । अश्वम् । रथे । युञ्जन्ति । उरुऽचक्रे । ऋष्वम् ।
स्वसारः । ईम् । जामयः । मर्जयन्ति । सऽनाभयः । वाजिनम् । ऊर्जयन्ति ॥
mádhu-pṛṣṭham ǀ ghorám ǀ ayā́sam ǀ áśvam ǀ ráthe ǀ yuñjanti ǀ uru-cakré ǀ ṛṣvám ǀ
svásāraḥ ǀ īm ǀ jāmáyaḥ ǀ marjayanti ǀ sá-nābhayaḥ ǀ vājínam ǀ ūrjayanti ǁ
madhu-pṛṣṭham ǀ ghoram ǀ ayāsam ǀ aśvam ǀ rathe ǀ yuñjanti ǀ uru-cakre ǀ ṛṣvam ǀ
svasāraḥ ǀ īm ǀ jāmayaḥ ǀ marjayanti ǀ sa-nābhayaḥ ǀ vājinam ǀ ūrjayanti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.089.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.3.25.04
- Maṇḍala · Anuvāka · Ṛk
- 09.05.069
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Uśanas Kāvya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.