Ṛk 9.89.2
Saṃhitā
राजा॒ सिंधू॑नामवसिष्ट॒ वास॑ ऋ॒तस्य॒ नाव॒मारु॑ह॒द्रजि॑ष्ठां ।
अ॒प्सु द्र॒प्सो वा॑वृधे श्ये॒नजू॑तो दु॒ह ईं॑ पि॒ता दु॒ह ईं॑ पि॒तुर्जां ॥
राजा सिन्धूनाम् अवसिष्ट वास ऋतस्य नावम् आरुहद् रजिष्ठाम् |
अप्सु द्रप्सो वावृधे श्येनजूतो दुह ईम् पिता दुह ईम् पितुर् जाम् ||
rā́jā síndhūnāmavasiṣṭa vā́sa ṛtásya nā́vamā́ruhadrájiṣṭhām ǀ
apsú drapsó vāvṛdhe śyenájūto duhá īm pitā́ duhá īm pitúrjām ǁ
rājā sindhūnām avasiṣṭa vāsa ṛtasya nāvam āruhad rajiṣṭhām |
apsu drapso vāvṛdhe śyenajūto duha īm pitā duha īm pitur jām ||
Padapāṭha
राजा॑ । सिन्धू॑नाम् । अ॒व॒सि॒ष्ट॒ । वासः॑ । ऋ॒तस्य॑ । नाव॑म् । आ । अ॒रु॒ह॒त् । रजि॑ष्ठाम् ।
अ॒प्ऽसु । द्र॒प्सः । व॒वृ॒धे॒ । श्ये॒नऽजू॑तः । दु॒हे । ई॒म् । पि॒ता । दु॒हे । ई॒म् । पि॒तुः । जाम् ॥
राजा । सिन्धूनाम् । अवसिष्ट । वासः । ऋतस्य । नावम् । आ । अरुहत् । रजिष्ठाम् ।
अप्ऽसु । द्रप्सः । ववृधे । श्येनऽजूतः । दुहे । ईम् । पिता । दुहे । ईम् । पितुः । जाम् ॥
rā́jā ǀ síndhūnām ǀ avasiṣṭa ǀ vā́saḥ ǀ ṛtásya ǀ nā́vam ǀ ā́ ǀ aruhat ǀ rájiṣṭhām ǀ
ap-sú ǀ drapsáḥ ǀ vavṛdhe ǀ śyená-jūtaḥ ǀ duhé ǀ īm ǀ pitā́ ǀ duhé ǀ īm ǀ pitúḥ ǀ jā́m ǁ
rājā ǀ sindhūnām ǀ avasiṣṭa ǀ vāsaḥ ǀ ṛtasya ǀ nāvam ǀ ā ǀ aruhat ǀ rajiṣṭhām ǀ
ap-su ǀ drapsaḥ ǀ vavṛdhe ǀ śyena-jūtaḥ ǀ duhe ǀ īm ǀ pitā ǀ duhe ǀ īm ǀ pituḥ ǀ jām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.089.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.3.25.02
- Maṇḍala · Anuvāka · Ṛk
- 09.05.067
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Uśanas Kāvya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.