Sūkta 91
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Kaśyapa Mārīca
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles pādanicṛttriṣṭup (1, 2, 6); nicṛttriṣṭup (4, 5); triṣṭup (3)
2nd set of styles triṣṭubh
-
Ṛk 1
अस॑र्जि॒ वक्वा॒ रथ्ये॒ यथा॒जौ धि॒या म॒नोता॑ प्रथ॒मो म॑नी॒षी ।
दश॒ स्वसा॑रो॒ अधि॒ सानो॒ अव्येऽजं॑ति॒ वह्निं॒ सद॑ना॒न्यच्छ॑ ॥असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमो मनीषी |
दश स्वसारो अधि सानो अव्ये ऽजन्ति वह्निं सदनान्य् अच्छ ||ásarji vákvā ráthye yáthājáu dhiyā́ manótā prathamó manīṣī́ ǀ
dáśa svásāro ádhi sā́no ávyé’janti váhnim sádanānyáccha ǁasarji vakvā rathye yathājau dhiyā manotā prathamo manīṣī |
daśa svasāro adhi sāno avye 'janti vahniṃ sadanāny accha ||अस॑र्जि । वक्वा॑ । रथ्ये॑ । यथा॑ । आ॒जौ । धि॒या । म॒नोता॑ । प्र॒थ॒मः । म॒नी॒षी ।
दश॑ । स्वसा॑रः । अधि॑ । सानौ॑ । अव्ये॑ । अज॑न्ति । वह्नि॑म् । सद॑नानि । अच्छ॑ ॥असर्जि । वक्वा । रथ्ये । यथा । आजौ । धिया । मनोता । प्रथमः । मनीषी ।
दश । स्वसारः । अधि । सानौ । अव्ये । अजन्ति । वह्निम् । सदनानि । अच्छ ॥ásarji ǀ vákvā ǀ ráthye ǀ yáthā ǀ ājáu ǀ dhiyā́ ǀ manótā ǀ prathamáḥ ǀ manīṣī́ ǀ
dáśa ǀ svásāraḥ ǀ ádhi ǀ sā́nau ǀ ávye ǀ ájanti ǀ váhnim ǀ sádanāni ǀ áccha ǁasarji ǀ vakvā ǀ rathye ǀ yathā ǀ ājau ǀ dhiyā ǀ manotā ǀ prathamaḥ ǀ manīṣī ǀ
daśa ǀ svasāraḥ ǀ adhi ǀ sānau ǀ avye ǀ ajanti ǀ vahnim ǀ sadanāni ǀ accha ǁ9.91.1 Aṣṭaka 7.4.1.1Anuvāka 9.5.79
-
Ṛk 2
वी॒ती जन॑स्य दि॒व्यस्य॑ क॒व्यैरधि॑ सुवा॒नो न॑हु॒ष्ये॑भि॒रिंदुः॑ ।
प्र यो नृभि॑र॒मृतो॒ मर्त्ये॑भिर्मर्मृजा॒नोऽवि॑भि॒र्गोभि॑र॒द्भिः ॥वीती जनस्य दिव्यस्य कव्यैर् अधि सुवानो नहुष्येभिर् इन्दुः |
प्र यो नृभिर् अमृतो मर्त्येभिर् मर्मृजानो ऽविभिर् गोभिर् अद्भिः ||vītī́ jánasya divyásya kavyáirádhi suvānó nahuṣyebhirínduḥ ǀ
prá yó nṛ́bhiramṛ́to mártyebhirmarmṛjānó’vibhirgóbhiradbhíḥ ǁvītī janasya divyasya kavyair adhi suvāno nahuṣyebhir induḥ |
pra yo nṛbhir amṛto martyebhir marmṛjāno 'vibhir gobhir adbhiḥ ||वी॒ती । जन॑स्य । दि॒व्यस्य॑ । क॒व्यैः । अधि॑ । सु॒वा॒नः । न॒हु॒ष्ये॑भिः । इन्दुः॑ ।
प्र । यः । नृऽभिः॑ । अ॒मृतः॑ । मर्त्ये॑भिः । म॒र्मृ॒जा॒नः । अवि॑ऽभिः । गोभिः॑ । अ॒त्ऽभिः ॥वीती । जनस्य । दिव्यस्य । कव्यैः । अधि । सुवानः । नहुष्येभिः । इन्दुः ।
प्र । यः । नृऽभिः । अमृतः । मर्त्येभिः । मर्मृजानः । अविऽभिः । गोभिः । अत्ऽभिः ॥vītī́ ǀ jánasya ǀ divyásya ǀ kavyáiḥ ǀ ádhi ǀ suvānáḥ ǀ nahuṣyébhiḥ ǀ índuḥ ǀ
prá ǀ yáḥ ǀ nṛ́-bhiḥ ǀ amṛ́taḥ ǀ mártyebhiḥ ǀ marmṛjānáḥ ǀ ávi-bhiḥ ǀ góbhiḥ ǀ at-bhíḥ ǁvītī ǀ janasya ǀ divyasya ǀ kavyaiḥ ǀ adhi ǀ suvānaḥ ǀ nahuṣyebhiḥ ǀ induḥ ǀ
pra ǀ yaḥ ǀ nṛ-bhiḥ ǀ amṛtaḥ ǀ martyebhiḥ ǀ marmṛjānaḥ ǀ avi-bhiḥ ǀ gobhiḥ ǀ at-bhiḥ ǁ9.91.2 Aṣṭaka 7.4.1.2Anuvāka 9.5.80
-
Ṛk 3
वृषा॒ वृष्णे॒ रोरु॑वदं॒शुर॑स्मै॒ पव॑मानो॒ रुश॑दीर्ते॒ पयो॒ गोः ।
स॒हस्र॒मृक्वा॑ प॒थिभि॑र्वचो॒विद॑ध्व॒स्मभिः॒ सूरो॒ अण्वं॒ वि या॑ति ॥वृषा वृष्णे रोरुवद् अंशुर् अस्मै पवमानो रुशद् ईर्ते पयो गोः |
सहस्रम् ऋक्वा पथिभिर् वचोविद् अध्वस्मभिः सूरो अण्वं वि याति ||vṛ́ṣā vṛ́ṣṇe róruvadaṃśúrasmai pávamāno rúśadīrte páyo góḥ ǀ
sahásramṛ́kvā pathíbhirvacovídadhvasmábhiḥ sū́ro áṇvam ví yāti ǁvṛṣā vṛṣṇe roruvad aṃśur asmai pavamāno ruśad īrte payo goḥ |
sahasram ṛkvā pathibhir vacovid adhvasmabhiḥ sūro aṇvaṃ vi yāti ||वृषा॑ । वृष्णे॑ । रोरु॑वत् । अं॒शुः । अ॒स्मै॒ । पव॑मानः । रुश॑त् । ई॒र्ते॒ । पयः॑ । गोः ।
स॒हस्र॑म् । ऋक्वा॑ । प॒थिऽभिः॑ । व॒चः॒ऽवित् । अ॒ध्व॒स्मऽभिः॑ । सूरः॑ । अण्व॑म् । वि । या॒ति॒ ॥वृषा । वृष्णे । रोरुवत् । अंशुः । अस्मै । पवमानः । रुशत् । ईर्ते । पयः । गोः ।
सहस्रम् । ऋक्वा । पथिऽभिः । वचःऽवित् । अध्वस्मऽभिः । सूरः । अण्वम् । वि । याति ॥vṛ́ṣā ǀ vṛ́ṣṇe ǀ róruvat ǀ aṃśúḥ ǀ asmai ǀ pávamānaḥ ǀ rúśat ǀ īrte ǀ páyaḥ ǀ góḥ ǀ
sahásram ǀ ṛ́kvā ǀ pathí-bhiḥ ǀ vacaḥ-vít ǀ adhvasmá-bhiḥ ǀ sū́raḥ ǀ áṇvam ǀ ví ǀ yāti ǁvṛṣā ǀ vṛṣṇe ǀ roruvat ǀ aṃśuḥ ǀ asmai ǀ pavamānaḥ ǀ ruśat ǀ īrte ǀ payaḥ ǀ goḥ ǀ
sahasram ǀ ṛkvā ǀ pathi-bhiḥ ǀ vacaḥ-vit ǀ adhvasma-bhiḥ ǀ sūraḥ ǀ aṇvam ǀ vi ǀ yāti ǁ9.91.3 Aṣṭaka 7.4.1.3Anuvāka 9.5.81
-
Ṛk 4
रु॒जा दृ॒ळ्हा चि॑द्र॒क्षसः॒ सदां॑सि पुना॒न इं॑द ऊर्णुहि॒ वि वाजा॑न् ।
वृ॒श्चोपरि॑ष्टात्तुज॒ता व॒धेन॒ ये अंति॑ दू॒रादु॑पना॒यमे॑षां ॥रुजा दृऌहा चिद् रक्षसः सदांसि पुनान इन्द ऊर्णुहि वि वाजान् |
वृश्चोपरिष्टात् तुजता वधेन ये अन्ति दूराद् उपनायम् एषाम् ||rujā́ dṛḷhā́ cidrakṣásaḥ sádāṃsi punāná inda ūrṇuhi ví vā́jān ǀ
vṛścópáriṣṭāttujatā́ vadhéna yé ánti dūrā́dupanāyámeṣām ǁrujā dṛḷhā cid rakṣasaḥ sadāṃsi punāna inda ūrṇuhi vi vājān |
vṛścopariṣṭāt tujatā vadhena ye anti dūrād upanāyam eṣām ||रु॒ज । दृ॒ळ्हा । चि॒त् । र॒क्षसः॑ । सदां॑सि । पु॒ना॒नः । इ॒न्दो॒ इति॑ । ऊ॒र्णु॒हि॒ । वि । वाजा॑न् ।
वृ॒श्च । उ॒परि॑ष्टात् । तु॒ज॒ता । व॒धेन॑ । ये । अन्ति॑ । दू॒रात् । उ॒प॒ऽना॒यम् । ए॒षा॒म् ॥रुज । दृळ्हा । चित् । रक्षसः । सदांसि । पुनानः । इन्दो इति । ऊर्णुहि । वि । वाजान् ।
वृश्च । उपरिष्टात् । तुजता । वधेन । ये । अन्ति । दूरात् । उपऽनायम् । एषाम् ॥rujá ǀ dṛḷhā́ ǀ cit ǀ rakṣásaḥ ǀ sádāṃsi ǀ punānáḥ ǀ indo íti ǀ ūrṇuhi ǀ ví ǀ vā́jān ǀ
vṛścá ǀ upáriṣṭāt ǀ tujatā́ ǀ vadhéna ǀ yé ǀ ánti ǀ dūrā́t ǀ upa-nāyám ǀ eṣām ǁruja ǀ dṛḷhā ǀ cit ǀ rakṣasaḥ ǀ sadāṃsi ǀ punānaḥ ǀ indo iti ǀ ūrṇuhi ǀ vi ǀ vājān ǀ
vṛśca ǀ upariṣṭāt ǀ tujatā ǀ vadhena ǀ ye ǀ anti ǀ dūrāt ǀ upa-nāyam ǀ eṣām ǁ9.91.4 Aṣṭaka 7.4.1.4Anuvāka 9.5.82
-
Ṛk 5
स प्र॑त्न॒वन्नव्य॑से विश्ववार सू॒क्ताय॑ प॒थः कृ॑णुहि॒ प्राचः॑ ।
ये दुः॒षहा॑सो व॒नुषा॑ बृ॒हंत॒स्तांस्ते॑ अश्याम पुरुकृत्पुरुक्षो ॥स प्रत्नवन् नव्यसे विश्ववार सूक्ताय पथः कृणुहि प्राचः |
ये दुःषहासो वनुषा बृहन्तस् तांस् ते अश्याम पुरुकृत् पुरुक्षो ||sá pratnavánnávyase viśvavāra sūktā́ya patháḥ kṛṇuhi prā́caḥ ǀ
yé duḥṣáhāso vanúṣā bṛhántastā́ṃste aśyāma purukṛtpurukṣo ǁsa pratnavan navyase viśvavāra sūktāya pathaḥ kṛṇuhi prācaḥ |
ye duḥṣahāso vanuṣā bṛhantas tāṃs te aśyāma purukṛt purukṣo ||सः । प्र॒त्न॒ऽवत् । नव्य॑से । वि॒श्व॒ऽवा॒र॒ । सु॒ऽउ॒क्ताय॑ । प॒थः । कृ॒णु॒हि॒ । प्राचः॑ ।
ये । दुः॒ऽसहा॑सः । व॒नुषा॑ । बृ॒हन्तः॑ । तान् । ते॒ । अ॒श्या॒म॒ । पु॒रु॒ऽकृ॒त् । पु॒रु॒क्षो॒ इति॑ पुरुऽक्षो ॥सः । प्रत्नऽवत् । नव्यसे । विश्वऽवार । सुऽउक्ताय । पथः । कृणुहि । प्राचः ।
ये । दुःऽसहासः । वनुषा । बृहन्तः । तान् । ते । अश्याम । पुरुऽकृत् । पुरुक्षो इति पुरुऽक्षो ॥sáḥ ǀ pratna-vát ǀ návyase ǀ viśva-vāra ǀ su-uktā́ya ǀ patháḥ ǀ kṛṇuhi ǀ prā́caḥ ǀ
yé ǀ duḥ-sáhāsaḥ ǀ vanúṣā ǀ bṛhántaḥ ǀ tā́n ǀ te ǀ aśyāma ǀ puru-kṛt ǀ purukṣo íti puru-kṣo ǁsaḥ ǀ pratna-vat ǀ navyase ǀ viśva-vāra ǀ su-uktāya ǀ pathaḥ ǀ kṛṇuhi ǀ prācaḥ ǀ
ye ǀ duḥ-sahāsaḥ ǀ vanuṣā ǀ bṛhantaḥ ǀ tān ǀ te ǀ aśyāma ǀ puru-kṛt ǀ purukṣo iti puru-kṣo ǁ9.91.5 Aṣṭaka 7.4.1.5Anuvāka 9.5.83
-
Ṛk 6
ए॒वा पु॑ना॒नो अ॒पः स्व१॒॑र्गा अ॒स्मभ्यं॑ तो॒का तन॑यानि॒ भूरि॑ ।
शं नः॒ क्षेत्र॑मु॒रु ज्योतीं॑षि सोम॒ ज्योङ्नः॒ सूर्यं॑ दृ॒शये॑ रिरीहि ॥एवा पुनानो अपः स्वर् गा अस्मभ्यं तोका तनयानि भूरि |
शं नः क्षेत्रम् उरु ज्योतींषि सोम ज्योङ् नः सूर्यं दृशये रिरीहि ||evā́ punānó apáḥ svárgā́ asmábhyam tokā́ tánayāni bhū́ri ǀ
śám naḥ kṣétramurú jyótīṃṣi soma jyóṅnaḥ sū́ryam dṛśáye rirīhi ǁevā punāno apaḥ svar gā asmabhyaṃ tokā tanayāni bhūri |
śaṃ naḥ kṣetram uru jyotīṃṣi soma jyoṅ naḥ sūryaṃ dṛśaye rirīhi ||ए॒व । पु॒ना॒नः । अ॒पः । स्वः॑ । गाः । अ॒स्मभ्य॑म् । तो॒का । तन॑यानि । भूरि॑ ।
शम् । नः॒ । क्षेत्र॑म् । उ॒रु । ज्योतीं॑षि । सो॒म॒ । ज्योक् । नः॒ । सूर्य॑म् । दृ॒शये॑ । रि॒री॒हि॒ ॥एव । पुनानः । अपः । स्वः । गाः । अस्मभ्यम् । तोका । तनयानि । भूरि ।
शम् । नः । क्षेत्रम् । उरु । ज्योतींषि । सोम । ज्योक् । नः । सूर्यम् । दृशये । रिरीहि ॥evá ǀ punānáḥ ǀ apáḥ ǀ sváḥ ǀ gā́ḥ ǀ asmábhyam ǀ tokā́ ǀ tánayāni ǀ bhū́ri ǀ
śám ǀ naḥ ǀ kṣétram ǀ urú ǀ jyótīṃṣi ǀ soma ǀ jyók ǀ naḥ ǀ sū́ryam ǀ dṛśáye ǀ rirīhi ǁeva ǀ punānaḥ ǀ apaḥ ǀ svaḥ ǀ gāḥ ǀ asmabhyam ǀ tokā ǀ tanayāni ǀ bhūri ǀ
śam ǀ naḥ ǀ kṣetram ǀ uru ǀ jyotīṃṣi ǀ soma ǀ jyok ǀ naḥ ǀ sūryam ǀ dṛśaye ǀ rirīhi ǁ9.91.6 Aṣṭaka 7.4.1.6Anuvāka 9.5.84
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.