Ṛk 9.91.1
Saṃhitā
अस॑र्जि॒ वक्वा॒ रथ्ये॒ यथा॒जौ धि॒या म॒नोता॑ प्रथ॒मो म॑नी॒षी ।
दश॒ स्वसा॑रो॒ अधि॒ सानो॒ अव्येऽजं॑ति॒ वह्निं॒ सद॑ना॒न्यच्छ॑ ॥
असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमो मनीषी |
दश स्वसारो अधि सानो अव्ये ऽजन्ति वह्निं सदनान्य् अच्छ ||
ásarji vákvā ráthye yáthājáu dhiyā́ manótā prathamó manīṣī́ ǀ
dáśa svásāro ádhi sā́no ávyé’janti váhnim sádanānyáccha ǁ
asarji vakvā rathye yathājau dhiyā manotā prathamo manīṣī |
daśa svasāro adhi sāno avye 'janti vahniṃ sadanāny accha ||
Padapāṭha
अस॑र्जि । वक्वा॑ । रथ्ये॑ । यथा॑ । आ॒जौ । धि॒या । म॒नोता॑ । प्र॒थ॒मः । म॒नी॒षी ।
दश॑ । स्वसा॑रः । अधि॑ । सानौ॑ । अव्ये॑ । अज॑न्ति । वह्नि॑म् । सद॑नानि । अच्छ॑ ॥
असर्जि । वक्वा । रथ्ये । यथा । आजौ । धिया । मनोता । प्रथमः । मनीषी ।
दश । स्वसारः । अधि । सानौ । अव्ये । अजन्ति । वह्निम् । सदनानि । अच्छ ॥
ásarji ǀ vákvā ǀ ráthye ǀ yáthā ǀ ājáu ǀ dhiyā́ ǀ manótā ǀ prathamáḥ ǀ manīṣī́ ǀ
dáśa ǀ svásāraḥ ǀ ádhi ǀ sā́nau ǀ ávye ǀ ájanti ǀ váhnim ǀ sádanāni ǀ áccha ǁ
asarji ǀ vakvā ǀ rathye ǀ yathā ǀ ājau ǀ dhiyā ǀ manotā ǀ prathamaḥ ǀ manīṣī ǀ
daśa ǀ svasāraḥ ǀ adhi ǀ sānau ǀ avye ǀ ajanti ǀ vahnim ǀ sadanāni ǀ accha ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.091.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.4.01.01
- Maṇḍala · Anuvāka · Ṛk
- 09.05.079
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Kaśyapa Mārīca
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.