Sūkta 53
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Avatsāra Kāśyapa
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles nicṛdgāyatrī (1, 3); gāyatrī (2, 4)
2nd set of styles gāyatrī
-
Ṛk 1
उत्ते॒ शुष्मा॑सो अस्थू॒ रक्षो॑ भिं॒दंतो॑ अद्रिवः ।
नु॒दस्व॒ याः प॑रि॒स्पृधः॑ ॥उत् ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः |
नुदस्व याः परिस्पृधः ||útte śúṣmāso asthū rákṣo bhindánto adrivaḥ ǀ
nudásva yā́ḥ parispṛ́dhaḥ ǁut te śuṣmāso asthū rakṣo bhindanto adrivaḥ |
nudasva yāḥ parispṛdhaḥ ||उत् । ते॒ । शुष्मा॑सः । अ॒स्थुः॒ । रक्षः॑ । भि॒न्दन्तः॑ । अ॒द्रि॒ऽवः॒ ।
नु॒दस्व॑ । याः । प॒रि॒ऽस्पृधः॑ ॥उत् । ते । शुष्मासः । अस्थुः । रक्षः । भिन्दन्तः । अद्रिऽवः ।
नुदस्व । याः । परिऽस्पृधः ॥út ǀ te ǀ śúṣmāsaḥ ǀ asthuḥ ǀ rákṣaḥ ǀ bhindántaḥ ǀ adri-vaḥ ǀ
nudásva ǀ yā́ḥ ǀ pari-spṛ́dhaḥ ǁut ǀ te ǀ śuṣmāsaḥ ǀ asthuḥ ǀ rakṣaḥ ǀ bhindantaḥ ǀ adri-vaḥ ǀ
nudasva ǀ yāḥ ǀ pari-spṛdhaḥ ǁ9.53.1 Aṣṭaka 7.1.10.1Anuvāka 9.2.163
-
Ṛk 2
अ॒या नि॑ज॒घ्निरोज॑सा रथसं॒गे धने॑ हि॒ते ।
स्तवा॒ अबि॑भ्युषा हृ॒दा ॥अया निजघ्निर् ओजसा रथसंगे धने हिते |
स्तवा अबिभ्युषा हृदा ||ayā́ nijaghnírójasā rathasaṃgé dháne hité ǀ
stávā ábibhyuṣā hṛdā́ ǁayā nijaghnir ojasā rathasaṃge dhane hite |
stavā abibhyuṣā hṛdā ||अ॒या । नि॒ऽज॒घ्निः । ओज॑सा । र॒थ॒ऽस॒ङ्गे । धने॑ । हि॒ते ।
स्तवै॑ । अबि॑भ्युषा । हृ॒दा ॥अया । निऽजघ्निः । ओजसा । रथऽसङ्गे । धने । हिते ।
स्तवै । अबिभ्युषा । हृदा ॥ayā́ ǀ ni-jaghníḥ ǀ ójasā ǀ ratha-saṅgé ǀ dháne ǀ hité ǀ
stávai ǀ ábibhyuṣā ǀ hṛdā́ ǁayā ǀ ni-jaghniḥ ǀ ojasā ǀ ratha-saṅge ǀ dhane ǀ hite ǀ
stavai ǀ abibhyuṣā ǀ hṛdā ǁ9.53.2 Aṣṭaka 7.1.10.2Anuvāka 9.2.164
-
Ṛk 3
अस्य॑ व्र॒तानि॒ नाधृषे॒ पव॑मानस्य दू॒ढ्या॑ ।
रु॒ज यस्त्वा॑ पृत॒न्यति॑ ॥अस्य व्रतानि नाधृषे पवमानस्य दूढ्या |
रुज यस् त्वा पृतन्यति ||ásya vratā́ni nā́dhṛ́ṣe pávamānasya dūḍhyā́ ǀ
rujá yástvā pṛtanyáti ǁasya vratāni nādhṛṣe pavamānasya dūḍhyā |
ruja yas tvā pṛtanyati ||अस्य॑ । व्र॒तानि॑ । न । आ॒ऽधृषे॑ । पव॑मानस्य । दुः॒ऽध्या॑ ।
रु॒ज । यः । त्वा॒ । पृ॒त॒न्यति॑ ॥अस्य । व्रतानि । न । आऽधृषे । पवमानस्य । दुःऽध्या ।
रुज । यः । त्वा । पृतन्यति ॥ásya ǀ vratā́ni ǀ ná ǀ ā-dhṛ́ṣe ǀ pávamānasya ǀ duḥ-dhyā́ ǀ
rujá ǀ yáḥ ǀ tvā ǀ pṛtanyáti ǁasya ǀ vratāni ǀ na ǀ ā-dhṛṣe ǀ pavamānasya ǀ duḥ-dhyā ǀ
ruja ǀ yaḥ ǀ tvā ǀ pṛtanyati ǁ9.53.3 Aṣṭaka 7.1.10.3Anuvāka 9.2.165
-
Ṛk 4
तं हि॑न्वंति मद॒च्युतं॒ हरिं॑ न॒दीषु॑ वा॒जिनं॑ ।
इंदु॒मिंद्रा॑य मत्स॒रं ॥तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनम् |
इन्दुम् इन्द्राय मत्सरम् ||tám hinvanti madacyútam hárim nadī́ṣu vājínam ǀ
índumíndrāya matsarám ǁtaṃ hinvanti madacyutaṃ hariṃ nadīṣu vājinam |
indum indrāya matsaram ||तम् । हि॒न्व॒न्ति॒ । म॒द॒ऽच्युत॑म् । हरि॑म् । न॒दीषु॑ । वा॒जिन॑म् ।
इन्दु॑म् । इन्द्रा॑य । म॒त्स॒रम् ॥तम् । हिन्वन्ति । मदऽच्युतम् । हरिम् । नदीषु । वाजिनम् ।
इन्दुम् । इन्द्राय । मत्सरम् ॥tám ǀ hinvanti ǀ mada-cyútam ǀ hárim ǀ nadī́ṣu ǀ vājínam ǀ
índum ǀ índrāya ǀ matsarám ǁtam ǀ hinvanti ǀ mada-cyutam ǀ harim ǀ nadīṣu ǀ vājinam ǀ
indum ǀ indrāya ǀ matsaram ǁ9.53.4 Aṣṭaka 7.1.10.4Anuvāka 9.2.166
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.