Ṛk 9.53.4
Saṃhitā
तं हि॑न्वंति मद॒च्युतं॒ हरिं॑ न॒दीषु॑ वा॒जिनं॑ ।
इंदु॒मिंद्रा॑य मत्स॒रं ॥
तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनम् |
इन्दुम् इन्द्राय मत्सरम् ||
tám hinvanti madacyútam hárim nadī́ṣu vājínam ǀ
índumíndrāya matsarám ǁ
taṃ hinvanti madacyutaṃ hariṃ nadīṣu vājinam |
indum indrāya matsaram ||
Padapāṭha
तम् । हि॒न्व॒न्ति॒ । म॒द॒ऽच्युत॑म् । हरि॑म् । न॒दीषु॑ । वा॒जिन॑म् ।
इन्दु॑म् । इन्द्रा॑य । म॒त्स॒रम् ॥
तम् । हिन्वन्ति । मदऽच्युतम् । हरिम् । नदीषु । वाजिनम् ।
इन्दुम् । इन्द्राय । मत्सरम् ॥
tám ǀ hinvanti ǀ mada-cyútam ǀ hárim ǀ nadī́ṣu ǀ vājínam ǀ
índum ǀ índrāya ǀ matsarám ǁ
tam ǀ hinvanti ǀ mada-cyutam ǀ harim ǀ nadīṣu ǀ vājinam ǀ
indum ǀ indrāya ǀ matsaram ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.053.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.1.10.04
- Maṇḍala · Anuvāka · Ṛk
- 09.02.166
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Avatsāra Kāśyapa
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.