Sūkta 95
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Praskaṇva Kāṇva
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (1); saṃstārapaṅkti (2); virāṭtrisṭup (3); nicṛttriṣṭup (4); pādanicṛttriṣṭup (5)
2nd set of styles triṣṭubh
-
Ṛk 1
कनि॑क्रंति॒ हरि॒रा सृ॒ज्यमा॑नः॒ सीद॒न्वन॑स्य ज॒ठरे॑ पुना॒नः ।
नृभि॑र्य॒तः कृ॑णुते नि॒र्णिजं॒ गा अतो॑ म॒तीर्ज॑नयत स्व॒धाभिः॑ ॥कनिक्रन्ति हरिर् आ सृज्यमानः सीदन् वनस्य जठरे पुनानः |
नृभिर् यतः कृणुते निर्णिजं गा अतो मतीर् जनयत स्वधाभिः ||kánikranti hárirā́ sṛjyámānaḥ sī́danvánasya jaṭháre punānáḥ ǀ
nṛ́bhiryatáḥ kṛṇute nirṇíjam gā́ áto matī́rjanayata svadhā́bhiḥ ǁkanikranti harir ā sṛjyamānaḥ sīdan vanasya jaṭhare punānaḥ |
nṛbhir yataḥ kṛṇute nirṇijaṃ gā ato matīr janayata svadhābhiḥ ||कनि॑क्रन्ति । हरिः॑ । आ । सृ॒ज्यमा॑नः । सीद॑न् । वन॑स्य । ज॒ठरे॑ । पु॒ना॒नः ।
नृऽभिः॑ । य॒तः । कृ॒णु॒ते॒ । निः॒ऽनिज॑म् । गाः । अतः॑ । म॒तीः । ज॒न॒य॒त॒ । स्व॒धाभिः॑ ॥कनिक्रन्ति । हरिः । आ । सृज्यमानः । सीदन् । वनस्य । जठरे । पुनानः ।
नृऽभिः । यतः । कृणुते । निःऽनिजम् । गाः । अतः । मतीः । जनयत । स्वधाभिः ॥kánikranti ǀ háriḥ ǀ ā́ ǀ sṛjyámānaḥ ǀ sī́dan ǀ vánasya ǀ jaṭháre ǀ punānáḥ ǀ
nṛ́-bhiḥ ǀ yatáḥ ǀ kṛṇute ǀ niḥ-níjam ǀ gā́ḥ ǀ átaḥ ǀ matī́ḥ ǀ janayata ǀ svadhā́bhiḥ ǁkanikranti ǀ hariḥ ǀ ā ǀ sṛjyamānaḥ ǀ sīdan ǀ vanasya ǀ jaṭhare ǀ punānaḥ ǀ
nṛ-bhiḥ ǀ yataḥ ǀ kṛṇute ǀ niḥ-nijam ǀ gāḥ ǀ ataḥ ǀ matīḥ ǀ janayata ǀ svadhābhiḥ ǁ9.95.1 Aṣṭaka 7.4.5.1Anuvāka 9.5.101
-
Ṛk 2
हरिः॑ सृजा॒नः प॒थ्या॑मृ॒तस्येय॑र्ति॒ वाच॑मरि॒तेव॒ नावं॑ ।
दे॒वो दे॒वानां॒ गुह्या॑नि॒ नामा॒विष्कृ॑णोति ब॒र्हिषि॑ प्र॒वाचे॑ ॥हरिः सृजानः पथ्याम् ऋतस्येयर्ति वाचम् अरितेव नावम् |
देवो देवानां गुह्यानि नामाविष् कृणोति बर्हिषि प्रवाचे ||háriḥ sṛjānáḥ pathyā́mṛtásyéyarti vā́camaritéva nā́vam ǀ
devó devā́nām gúhyāni nā́māvíṣkṛṇoti barhíṣi pravā́ce ǁhariḥ sṛjānaḥ pathyām ṛtasyeyarti vācam ariteva nāvam |
devo devānāṃ guhyāni nāmāviṣ kṛṇoti barhiṣi pravāce ||हरिः॑ । सृ॒जा॒नः । प॒थ्या॑म् । ऋ॒तस्य॑ । इय॑र्ति । वाच॑म् । अ॒रि॒ताऽइ॑व । नाव॑म् ।
दे॒वः । दे॒वाना॑म् । गुह्या॑नि । नाम॑ । आ॒विः । कृ॒णो॒ति॒ । ब॒र्हिषि॑ । प्र॒ऽवाचे॑ ॥हरिः । सृजानः । पथ्याम् । ऋतस्य । इयर्ति । वाचम् । अरिताऽइव । नावम् ।
देवः । देवानाम् । गुह्यानि । नाम । आविः । कृणोति । बर्हिषि । प्रऽवाचे ॥háriḥ ǀ sṛjānáḥ ǀ pathyā́m ǀ ṛtásya ǀ íyarti ǀ vā́cam ǀ aritā́-iva ǀ nā́vam ǀ
deváḥ ǀ devā́nām ǀ gúhyāni ǀ nā́ma ǀ āvíḥ ǀ kṛṇoti ǀ barhíṣi ǀ pra-vā́ce ǁhariḥ ǀ sṛjānaḥ ǀ pathyām ǀ ṛtasya ǀ iyarti ǀ vācam ǀ aritā-iva ǀ nāvam ǀ
devaḥ ǀ devānām ǀ guhyāni ǀ nāma ǀ āviḥ ǀ kṛṇoti ǀ barhiṣi ǀ pra-vāce ǁ9.95.2 Aṣṭaka 7.4.5.2Anuvāka 9.5.102
-
Ṛk 3
अ॒पामि॒वेदू॒र्मय॒स्तर्तु॑राणाः॒ प्र म॑नी॒षा ई॑रते॒ सोम॒मच्छ॑ ।
न॒म॒स्यंती॒रुप॑ च॒ यंति॒ सं चा च॑ विशंत्युश॒तीरु॒शंतं॑ ॥अपाम् इवेद् ऊर्मयस् तर्तुराणाः प्र मनीषा ईरते सोमम् अच्छ |
नमस्यन्तीर् उप च यन्ति सं चा च विशन्त्य् उशतीर् उशन्तम् ||apā́mivédūrmáyastárturāṇāḥ prá manīṣā́ īrate sómamáccha ǀ
namasyántīrúpa ca yánti sám cā́ ca viśantyuśatī́ruśántam ǁapām ived ūrmayas tarturāṇāḥ pra manīṣā īrate somam accha |
namasyantīr upa ca yanti saṃ cā ca viśanty uśatīr uśantam ||अ॒पाम्ऽइ॑व । इत् । ऊ॒र्मयः॑ । तर्तु॑राणाः । प्र । म॒नी॒षाः । ई॒र॒ते॒ । सोम॑म् । अच्छ॑ ।
न॒म॒स्यन्तीः॑ । उप॑ । च॒ । यन्ति॑ । सम् । च॒ । आ । च॒ । वि॒श॒न्ति॒ । उ॒श॒तीः । उ॒शन्त॑म् ॥अपाम्ऽइव । इत् । ऊर्मयः । तर्तुराणाः । प्र । मनीषाः । ईरते । सोमम् । अच्छ ।
नमस्यन्तीः । उप । च । यन्ति । सम् । च । आ । च । विशन्ति । उशतीः । उशन्तम् ॥apā́m-iva ǀ ít ǀ ūrmáyaḥ ǀ tárturāṇāḥ ǀ prá ǀ manīṣā́ḥ ǀ īrate ǀ sómam ǀ áccha ǀ
namasyántīḥ ǀ úpa ǀ ca ǀ yánti ǀ sám ǀ ca ǀ ā́ ǀ ca ǀ viśanti ǀ uśatī́ḥ ǀ uśántam ǁapām-iva ǀ it ǀ ūrmayaḥ ǀ tarturāṇāḥ ǀ pra ǀ manīṣāḥ ǀ īrate ǀ somam ǀ accha ǀ
namasyantīḥ ǀ upa ǀ ca ǀ yanti ǀ sam ǀ ca ǀ ā ǀ ca ǀ viśanti ǀ uśatīḥ ǀ uśantam ǁ9.95.3 Aṣṭaka 7.4.5.3Anuvāka 9.5.103
-
Ṛk 4
तं म॑र्मृजा॒नं म॑हि॒षं न साना॑वं॒शुं दु॑हंत्यु॒क्षणं॑ गिरि॒ष्ठां ।
तं वा॑वशा॒नं म॒तयः॑ सचंते त्रि॒तो बि॑भर्ति॒ वरु॑णं समु॒द्रे ॥तम् मर्मृजानम् महिषं न सानाव् अंशुं दुहन्त्य् उक्षणं गिरिष्ठाम् |
तं वावशानम् मतयः सचन्ते त्रितो बिभर्ति वरुणं समुद्रे ||tám marmṛjānám mahiṣám ná sā́nāvaṃśúm duhantyukṣáṇam giriṣṭhā́m ǀ
tám vāvaśānám matáyaḥ sacante tritó bibharti váruṇam samudré ǁtam marmṛjānam mahiṣaṃ na sānāv aṃśuṃ duhanty ukṣaṇaṃ giriṣṭhām |
taṃ vāvaśānam matayaḥ sacante trito bibharti varuṇaṃ samudre ||तम् । म॒र्मृ॒जा॒नम् । म॒हि॒षम् । न । सानौ॑ । अं॒शुम् । दु॒ह॒न्ति॒ । उ॒क्षण॑म् । गि॒रि॒ऽस्थाम् ।
तम् । वा॒व॒शा॒नम् । म॒तयः॑ । स॒च॒न्ते॒ । त्रि॒तः । बि॒भ॒र्ति॒ । वरु॑णम् । स॒मु॒द्रे ॥तम् । मर्मृजानम् । महिषम् । न । सानौ । अंशुम् । दुहन्ति । उक्षणम् । गिरिऽस्थाम् ।
तम् । वावशानम् । मतयः । सचन्ते । त्रितः । बिभर्ति । वरुणम् । समुद्रे ॥tám ǀ marmṛjānám ǀ mahiṣám ǀ ná ǀ sā́nau ǀ aṃśúm ǀ duhanti ǀ ukṣáṇam ǀ giri-sthā́m ǀ
tám ǀ vāvaśānám ǀ matáyaḥ ǀ sacante ǀ tritáḥ ǀ bibharti ǀ váruṇam ǀ samudré ǁtam ǀ marmṛjānam ǀ mahiṣam ǀ na ǀ sānau ǀ aṃśum ǀ duhanti ǀ ukṣaṇam ǀ giri-sthām ǀ
tam ǀ vāvaśānam ǀ matayaḥ ǀ sacante ǀ tritaḥ ǀ bibharti ǀ varuṇam ǀ samudre ǁ9.95.4 Aṣṭaka 7.4.5.4Anuvāka 9.5.104
-
Ṛk 5
इष्य॒न्वाच॑मुपव॒क्तेव॒ होतुः॑ पुना॒न इं॑दो॒ वि ष्या॑ मनी॒षां ।
इंद्र॑श्च॒ यत्क्षय॑थः॒ सौभ॑गाय सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥इष्यन् वाचम् उपवक्तेव होतुः पुनान इन्दो वि ष्या मनीषाम् |
इन्द्रश् च यत् क्षयथः सौभगाय सुवीर्यस्य पतयः स्याम ||íṣyanvā́camupavaktéva hótuḥ punāná indo ví ṣyā manīṣā́m ǀ
índraśca yátkṣáyathaḥ sáubhagāya suvī́ryasya pátayaḥ syāma ǁiṣyan vācam upavakteva hotuḥ punāna indo vi ṣyā manīṣām |
indraś ca yat kṣayathaḥ saubhagāya suvīryasya patayaḥ syāma ||इष्य॑न् । वाच॑म् । उ॒प॒व॒क्ताऽइ॑व । होतुः॑ । पु॒ना॒नः । इ॒न्दो॒ इति॑ । वि । स्य॒ । म॒नी॒षाम् ।
इन्द्रः॑ । च॒ । यत् । क्षय॑थः । सौभ॑गाय । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥इष्यन् । वाचम् । उपवक्ताऽइव । होतुः । पुनानः । इन्दो इति । वि । स्य । मनीषाम् ।
इन्द्रः । च । यत् । क्षयथः । सौभगाय । सुऽवीर्यस्य । पतयः । स्याम ॥íṣyan ǀ vā́cam ǀ upavaktā́-iva ǀ hótuḥ ǀ punānáḥ ǀ indo íti ǀ ví ǀ sya ǀ manīṣā́m ǀ
índraḥ ǀ ca ǀ yát ǀ kṣáyathaḥ ǀ sáubhagāya ǀ su-vī́ryasya ǀ pátayaḥ ǀ syāma ǁiṣyan ǀ vācam ǀ upavaktā-iva ǀ hotuḥ ǀ punānaḥ ǀ indo iti ǀ vi ǀ sya ǀ manīṣām ǀ
indraḥ ǀ ca ǀ yat ǀ kṣayathaḥ ǀ saubhagāya ǀ su-vīryasya ǀ patayaḥ ǀ syāma ǁ9.95.5 Aṣṭaka 7.4.5.5Anuvāka 9.5.105
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.