Ṛk 9.95.3
Saṃhitā
अ॒पामि॒वेदू॒र्मय॒स्तर्तु॑राणाः॒ प्र म॑नी॒षा ई॑रते॒ सोम॒मच्छ॑ ।
न॒म॒स्यंती॒रुप॑ च॒ यंति॒ सं चा च॑ विशंत्युश॒तीरु॒शंतं॑ ॥
अपाम् इवेद् ऊर्मयस् तर्तुराणाः प्र मनीषा ईरते सोमम् अच्छ |
नमस्यन्तीर् उप च यन्ति सं चा च विशन्त्य् उशतीर् उशन्तम् ||
apā́mivédūrmáyastárturāṇāḥ prá manīṣā́ īrate sómamáccha ǀ
namasyántīrúpa ca yánti sám cā́ ca viśantyuśatī́ruśántam ǁ
apām ived ūrmayas tarturāṇāḥ pra manīṣā īrate somam accha |
namasyantīr upa ca yanti saṃ cā ca viśanty uśatīr uśantam ||
Padapāṭha
अ॒पाम्ऽइ॑व । इत् । ऊ॒र्मयः॑ । तर्तु॑राणाः । प्र । म॒नी॒षाः । ई॒र॒ते॒ । सोम॑म् । अच्छ॑ ।
न॒म॒स्यन्तीः॑ । उप॑ । च॒ । यन्ति॑ । सम् । च॒ । आ । च॒ । वि॒श॒न्ति॒ । उ॒श॒तीः । उ॒शन्त॑म् ॥
अपाम्ऽइव । इत् । ऊर्मयः । तर्तुराणाः । प्र । मनीषाः । ईरते । सोमम् । अच्छ ।
नमस्यन्तीः । उप । च । यन्ति । सम् । च । आ । च । विशन्ति । उशतीः । उशन्तम् ॥
apā́m-iva ǀ ít ǀ ūrmáyaḥ ǀ tárturāṇāḥ ǀ prá ǀ manīṣā́ḥ ǀ īrate ǀ sómam ǀ áccha ǀ
namasyántīḥ ǀ úpa ǀ ca ǀ yánti ǀ sám ǀ ca ǀ ā́ ǀ ca ǀ viśanti ǀ uśatī́ḥ ǀ uśántam ǁ
apām-iva ǀ it ǀ ūrmayaḥ ǀ tarturāṇāḥ ǀ pra ǀ manīṣāḥ ǀ īrate ǀ somam ǀ accha ǀ
namasyantīḥ ǀ upa ǀ ca ǀ yanti ǀ sam ǀ ca ǀ ā ǀ ca ǀ viśanti ǀ uśatīḥ ǀ uśantam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.095.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.4.05.03
- Maṇḍala · Anuvāka · Ṛk
- 09.05.103
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Praskaṇva Kāṇva
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.