Ṛk 9.95.4
Saṃhitā
तं म॑र्मृजा॒नं म॑हि॒षं न साना॑वं॒शुं दु॑हंत्यु॒क्षणं॑ गिरि॒ष्ठां ।
तं वा॑वशा॒नं म॒तयः॑ सचंते त्रि॒तो बि॑भर्ति॒ वरु॑णं समु॒द्रे ॥
तम् मर्मृजानम् महिषं न सानाव् अंशुं दुहन्त्य् उक्षणं गिरिष्ठाम् |
तं वावशानम् मतयः सचन्ते त्रितो बिभर्ति वरुणं समुद्रे ||
tám marmṛjānám mahiṣám ná sā́nāvaṃśúm duhantyukṣáṇam giriṣṭhā́m ǀ
tám vāvaśānám matáyaḥ sacante tritó bibharti váruṇam samudré ǁ
tam marmṛjānam mahiṣaṃ na sānāv aṃśuṃ duhanty ukṣaṇaṃ giriṣṭhām |
taṃ vāvaśānam matayaḥ sacante trito bibharti varuṇaṃ samudre ||
Padapāṭha
तम् । म॒र्मृ॒जा॒नम् । म॒हि॒षम् । न । सानौ॑ । अं॒शुम् । दु॒ह॒न्ति॒ । उ॒क्षण॑म् । गि॒रि॒ऽस्थाम् ।
तम् । वा॒व॒शा॒नम् । म॒तयः॑ । स॒च॒न्ते॒ । त्रि॒तः । बि॒भ॒र्ति॒ । वरु॑णम् । स॒मु॒द्रे ॥
तम् । मर्मृजानम् । महिषम् । न । सानौ । अंशुम् । दुहन्ति । उक्षणम् । गिरिऽस्थाम् ।
तम् । वावशानम् । मतयः । सचन्ते । त्रितः । बिभर्ति । वरुणम् । समुद्रे ॥
tám ǀ marmṛjānám ǀ mahiṣám ǀ ná ǀ sā́nau ǀ aṃśúm ǀ duhanti ǀ ukṣáṇam ǀ giri-sthā́m ǀ
tám ǀ vāvaśānám ǀ matáyaḥ ǀ sacante ǀ tritáḥ ǀ bibharti ǀ váruṇam ǀ samudré ǁ
tam ǀ marmṛjānam ǀ mahiṣam ǀ na ǀ sānau ǀ aṃśum ǀ duhanti ǀ ukṣaṇam ǀ giri-sthām ǀ
tam ǀ vāvaśānam ǀ matayaḥ ǀ sacante ǀ tritaḥ ǀ bibharti ǀ varuṇam ǀ samudre ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.095.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.4.05.04
- Maṇḍala · Anuvāka · Ṛk
- 09.05.104
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Praskaṇva Kāṇva
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.