Ṛgveda · Maṇḍala 9

Sūkta 109

Soma Pavamāna · Agni Dhiṣṇya Aiśvaryaḥ · 22 ṛks

Link
Devatā देवता
Soma Pavamāna
Ṛṣi ऋषि
Agni Dhiṣṇya Aiśvaryaḥ
Chandas छन्दस्
Dvipadā Virāj
Metres by ṛk

1st set of styles svarāḍārcīgāyatrī (2-6, 9, 11, 12, 19, 22); bhurigārcīgāyatrī (1, 7, 8, 10, 13-15, 17, 18); ārcīgāyatrī (20, 21); gāyatrī (pādanicṛdgāyatrī) (16)

2nd set of styles dvipadā virāj

  1. Ṛk 1

    परि॒ प्र ध॒न्वेंद्रा॑य सोम स्वा॒दुर्मि॒त्राय॑ पू॒ष्णे भगा॑य ॥

    परि प्र धन्वेन्द्राय सोम स्वादुर् मित्राय पूष्णे भगाय ||

    pári prá dhanvéndrāya soma svādúrmitrā́ya pūṣṇé bhágāya ǁ

    pari pra dhanvendrāya soma svādur mitrāya pūṣṇe bhagāya ||

    परि॑ । प्र । ध॒न्व॒ । इन्द्रा॑य । सो॒म॒ । स्वा॒दुः । मि॒त्राय॑ । पू॒ष्णे । भगा॑य ॥

    परि । प्र । धन्व । इन्द्राय । सोम । स्वादुः । मित्राय । पूष्णे । भगाय ॥

    pári ǀ prá ǀ dhanva ǀ índrāya ǀ soma ǀ svādúḥ ǀ mitrā́ya ǀ pūṣṇé ǀ bhágāya ǁ

    pari ǀ pra ǀ dhanva ǀ indrāya ǀ soma ǀ svāduḥ ǀ mitrāya ǀ pūṣṇe ǀ bhagāya ǁ

    9.109.1 Aṣṭaka 7.5.20.1Anuvāka 9.7.69

  2. Ṛk 2

    इंद्र॑स्ते सोम सु॒तस्य॑ पेयाः॒ क्रत्वे॒ दक्षा॑य॒ विश्वे॑ च दे॒वाः ॥

    इन्द्रस् ते सोम सुतस्य पेयाः क्रत्वे दक्षाय विश्वे च देवाः ||

    índraste soma sutásya peyāḥ krátve dákṣāya víśve ca devā́ḥ ǁ

    indras te soma sutasya peyāḥ kratve dakṣāya viśve ca devāḥ ||

    इन्द्रः॑ । ते॒ । सो॒म॒ । सु॒तस्य॑ । पे॒याः॒ । क्रत्वे॑ । दक्षा॑य । विश्वे॑ । च॒ । दे॒वाः ॥

    इन्द्रः । ते । सोम । सुतस्य । पेयाः । क्रत्वे । दक्षाय । विश्वे । च । देवाः ॥

    índraḥ ǀ te ǀ soma ǀ sutásya ǀ peyāḥ ǀ krátve ǀ dákṣāya ǀ víśve ǀ ca ǀ devā́ḥ ǁ

    indraḥ ǀ te ǀ soma ǀ sutasya ǀ peyāḥ ǀ kratve ǀ dakṣāya ǀ viśve ǀ ca ǀ devāḥ ǁ

    9.109.2 Aṣṭaka 7.5.20.2Anuvāka 9.7.70

  3. Ṛk 3

    ए॒वामृता॑य म॒हे क्षया॑य॒ स शु॒क्रो अ॑र्ष दि॒व्यः पी॒यूषः॑ ॥

    एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः ||

    evā́mṛ́tāya mahé kṣáyāya sá śukró arṣa divyáḥ pīyū́ṣaḥ ǁ

    evāmṛtāya mahe kṣayāya sa śukro arṣa divyaḥ pīyūṣaḥ ||

    ए॒व । अ॒मृता॑य । म॒हे । क्षया॑य । सः । शु॒क्रः । अ॒र्ष॒ । दि॒व्यः । पी॒यूषः॑ ॥

    एव । अमृताय । महे । क्षयाय । सः । शुक्रः । अर्ष । दिव्यः । पीयूषः ॥

    evá ǀ amṛ́tāya ǀ mahé ǀ kṣáyāya ǀ sáḥ ǀ śukráḥ ǀ arṣa ǀ divyáḥ ǀ pīyū́ṣaḥ ǁ

    eva ǀ amṛtāya ǀ mahe ǀ kṣayāya ǀ saḥ ǀ śukraḥ ǀ arṣa ǀ divyaḥ ǀ pīyūṣaḥ ǁ

    9.109.3 Aṣṭaka 7.5.20.3Anuvāka 9.7.71

  4. Ṛk 4

    पव॑स्व सोम म॒हान्त्स॑मु॒द्रः पि॒ता दे॒वानां॒ विश्वा॒भि धाम॑ ॥

    पवस्व सोम महान् समुद्रः पिता देवानां विश्वाभि धाम ||

    pávasva soma mahā́ntsamudráḥ pitā́ devā́nām víśvābhí dhā́ma ǁ

    pavasva soma mahān samudraḥ pitā devānāṃ viśvābhi dhāma ||

    पव॑स्व । सो॒म॒ । म॒हान् । स॒मु॒द्रः । पि॒ता । दे॒वाना॑म् । विश्वा॑ । अ॒भि । धाम॑ ॥

    पवस्व । सोम । महान् । समुद्रः । पिता । देवानाम् । विश्वा । अभि । धाम ॥

    pávasva ǀ soma ǀ mahā́n ǀ samudráḥ ǀ pitā́ ǀ devā́nām ǀ víśvā ǀ abhí ǀ dhā́ma ǁ

    pavasva ǀ soma ǀ mahān ǀ samudraḥ ǀ pitā ǀ devānām ǀ viśvā ǀ abhi ǀ dhāma ǁ

    9.109.4 Aṣṭaka 7.5.20.4Anuvāka 9.7.72

  5. Ṛk 5

    शु॒क्रः प॑वस्व दे॒वेभ्यः॑ सोम दि॒वे पृ॑थि॒व्यै शं च॑ प्र॒जायै॑ ॥

    शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजायै ||

    śukráḥ pavasva devébhyaḥ soma divé pṛthivyái śám ca prajā́yai ǁ

    śukraḥ pavasva devebhyaḥ soma dive pṛthivyai śaṃ ca prajāyai ||

    शु॒क्रः । प॒व॒स्व॒ । दे॒वेभ्यः॑ । सो॒म॒ । दि॒वे । पृ॒थि॒व्यै । शम् । च॒ । प्र॒ऽजायै॑ ॥

    शुक्रः । पवस्व । देवेभ्यः । सोम । दिवे । पृथिव्यै । शम् । च । प्रऽजायै ॥

    śukráḥ ǀ pavasva ǀ devébhyaḥ ǀ soma ǀ divé ǀ pṛthivyái ǀ śám ǀ ca ǀ pra-jā́yai ǁ

    śukraḥ ǀ pavasva ǀ devebhyaḥ ǀ soma ǀ dive ǀ pṛthivyai ǀ śam ǀ ca ǀ pra-jāyai ǁ

    9.109.5 Aṣṭaka 7.5.20.5Anuvāka 9.7.73

  6. Ṛk 6

    दि॒वो ध॒र्तासि॑ शु॒क्रः पी॒यूषः॑ स॒त्ये विध॑र्मन्वा॒जी प॑वस्व ॥

    दिवो धर्तासि शुक्रः पीयूषः सत्ये विधर्मन् वाजी पवस्व ||

    divó dhartā́si śukráḥ pīyū́ṣaḥ satyé vídharmanvājī́ pavasva ǁ

    divo dhartāsi śukraḥ pīyūṣaḥ satye vidharman vājī pavasva ||

    दि॒वः । ध॒र्ता । अ॒सि॒ । शु॒क्रः । पी॒यूषः॑ । स॒त्ये । विऽध॑र्मन् । वा॒जी । प॒व॒स्व॒ ॥

    दिवः । धर्ता । असि । शुक्रः । पीयूषः । सत्ये । विऽधर्मन् । वाजी । पवस्व ॥

    diváḥ ǀ dhartā́ ǀ asi ǀ śukráḥ ǀ pīyū́ṣaḥ ǀ satyé ǀ ví-dharman ǀ vājī́ ǀ pavasva ǁ

    divaḥ ǀ dhartā ǀ asi ǀ śukraḥ ǀ pīyūṣaḥ ǀ satye ǀ vi-dharman ǀ vājī ǀ pavasva ǁ

    9.109.6 Aṣṭaka 7.5.20.6Anuvāka 9.7.74

  7. Ṛk 7

    पव॑स्व सोम द्यु॒म्नी सु॑धा॒रो म॒हामवी॑ना॒मनु॑ पू॒र्व्यः ॥

    पवस्व सोम द्युम्नी सुधारो महाम् अवीनाम् अनु पूर्व्यः ||

    pávasva soma dyumnī́ sudhāró mahā́mávīnāmánu pūrvyáḥ ǁ

    pavasva soma dyumnī sudhāro mahām avīnām anu pūrvyaḥ ||

    पव॑स्व । सो॒म॒ । द्यु॒म्नी । सु॒ऽधा॒रः । म॒हाम् । अवी॑नाम् । अनु॑ । पू॒र्व्यः ॥

    पवस्व । सोम । द्युम्नी । सुऽधारः । महाम् । अवीनाम् । अनु । पूर्व्यः ॥

    pávasva ǀ soma ǀ dyumnī́ ǀ su-dhāráḥ ǀ mahā́m ǀ ávīnām ǀ ánu ǀ pūrvyáḥ ǁ

    pavasva ǀ soma ǀ dyumnī ǀ su-dhāraḥ ǀ mahām ǀ avīnām ǀ anu ǀ pūrvyaḥ ǁ

    9.109.7 Aṣṭaka 7.5.20.7Anuvāka 9.7.75

  8. Ṛk 8

    नृभि॑र्येमा॒नो ज॑ज्ञा॒नः पू॒तः क्षर॒द्विश्वा॑नि मं॒द्रः स्व॒र्वित् ॥

    नृभिर् येमानो जज्ञानः पूतः क्षरद् विश्वानि मन्द्रः स्वर्वित् ||

    nṛ́bhiryemānó jajñānáḥ pūtáḥ kṣáradvíśvāni mandráḥ svarvít ǁ

    nṛbhir yemāno jajñānaḥ pūtaḥ kṣarad viśvāni mandraḥ svarvit ||

    नृऽभिः॑ । ये॒मा॒नः । ज॒ज्ञा॒नः । पू॒तः । क्षर॑त् । विश्वा॑नि । म॒न्द्रः । स्वः॒ऽवित् ॥

    नृऽभिः । येमानः । जज्ञानः । पूतः । क्षरत् । विश्वानि । मन्द्रः । स्वःऽवित् ॥

    nṛ́-bhiḥ ǀ yemānáḥ ǀ jajñānáḥ ǀ pūtáḥ ǀ kṣárat ǀ víśvāni ǀ mandráḥ ǀ svaḥ-vít ǁ

    nṛ-bhiḥ ǀ yemānaḥ ǀ jajñānaḥ ǀ pūtaḥ ǀ kṣarat ǀ viśvāni ǀ mandraḥ ǀ svaḥ-vit ǁ

    9.109.8 Aṣṭaka 7.5.20.8Anuvāka 9.7.76

  9. Ṛk 9

    इंदुः॑ पुना॒नः प्र॒जामु॑रा॒णः कर॒द्विश्वा॑नि॒ द्रवि॑णानि नः ॥

    इन्दुः पुनानः प्रजाम् उराणः करद् विश्वानि द्रविणानि नः ||

    índuḥ punānáḥ prajā́murāṇáḥ káradvíśvāni dráviṇāni naḥ ǁ

    induḥ punānaḥ prajām urāṇaḥ karad viśvāni draviṇāni naḥ ||

    इन्दुः॑ । पु॒ना॒नः । प्र॒ऽजाम् । उ॒रा॒णः । कर॑त् । विश्वा॑नि । द्रवि॑णानि । नः॒ ॥

    इन्दुः । पुनानः । प्रऽजाम् । उराणः । करत् । विश्वानि । द्रविणानि । नः ॥

    índuḥ ǀ punānáḥ ǀ pra-jā́m ǀ urāṇáḥ ǀ kárat ǀ víśvāni ǀ dráviṇāni ǀ naḥ ǁ

    induḥ ǀ punānaḥ ǀ pra-jām ǀ urāṇaḥ ǀ karat ǀ viśvāni ǀ draviṇāni ǀ naḥ ǁ

    9.109.9 Aṣṭaka 7.5.20.9Anuvāka 9.7.77

  10. Ṛk 10

    पव॑स्व सोम॒ क्रत्वे॒ दक्षा॒याश्वो॒ न नि॒क्तो वा॒जी धना॑य ॥

    पवस्व सोम क्रत्वे दक्षायाश्वो न निक्तो वाजी धनाय ||

    pávasva soma krátve dákṣāyā́śvo ná niktó vājī́ dhánāya ǁ

    pavasva soma kratve dakṣāyāśvo na nikto vājī dhanāya ||

    पव॑स्व । सो॒म॒ । क्रत्वे॑ । दक्षा॑य । अश्वः॑ । न । नि॒क्तः । वा॒जी । धना॑य ॥

    पवस्व । सोम । क्रत्वे । दक्षाय । अश्वः । न । निक्तः । वाजी । धनाय ॥

    pávasva ǀ soma ǀ krátve ǀ dákṣāya ǀ áśvaḥ ǀ ná ǀ niktáḥ ǀ vājī́ ǀ dhánāya ǁ

    pavasva ǀ soma ǀ kratve ǀ dakṣāya ǀ aśvaḥ ǀ na ǀ niktaḥ ǀ vājī ǀ dhanāya ǁ

    9.109.10 Aṣṭaka 7.5.20.10Anuvāka 9.7.78

  11. Ṛk 11

    तं ते॑ सो॒तारो॒ रसं॒ मदा॑य पु॒नंति॒ सोमं॑ म॒हे द्यु॒म्नाय॑ ॥

    तं ते सोतारो रसम् मदाय पुनन्ति सोमम् महे द्युम्नाय ||

    tám te sotā́ro rásam mádāya punánti sómam mahé dyumnā́ya ǁ

    taṃ te sotāro rasam madāya punanti somam mahe dyumnāya ||

    तम् । ते॒ । सो॒तारः॑ । रस॑म् । मदा॑य । पु॒नन्ति॑ । सोम॑म् । म॒हे । द्यु॒म्नाय॑ ॥

    तम् । ते । सोतारः । रसम् । मदाय । पुनन्ति । सोमम् । महे । द्युम्नाय ॥

    tám ǀ te ǀ sotā́raḥ ǀ rásam ǀ mádāya ǀ punánti ǀ sómam ǀ mahé ǀ dyumnā́ya ǁ

    tam ǀ te ǀ sotāraḥ ǀ rasam ǀ madāya ǀ punanti ǀ somam ǀ mahe ǀ dyumnāya ǁ

    9.109.11 Aṣṭaka 7.5.21.1Anuvāka 9.7.79

  12. Ṛk 12

    शिशुं॑ जज्ञा॒नं हरिं॑ मृजंति प॒वित्रे॒ सोमं॑ दे॒वेभ्य॒ इंदुं॑ ॥

    शिशुं जज्ञानं हरिम् मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम् ||

    śíśum jajñānám hárim mṛjanti pavítre sómam devébhya índum ǁ

    śiśuṃ jajñānaṃ harim mṛjanti pavitre somaṃ devebhya indum ||

    शिशु॑म् । ज॒ज्ञा॒नम् । हरि॑म् । मृ॒ज॒न्ति॒ । प॒वित्रे॑ । सोम॑म् । दे॒वेभ्यः॑ । इन्दु॑म् ॥

    शिशुम् । जज्ञानम् । हरिम् । मृजन्ति । पवित्रे । सोमम् । देवेभ्यः । इन्दुम् ॥

    śíśum ǀ jajñānám ǀ hárim ǀ mṛjanti ǀ pavítre ǀ sómam ǀ devébhyaḥ ǀ índum ǁ

    śiśum ǀ jajñānam ǀ harim ǀ mṛjanti ǀ pavitre ǀ somam ǀ devebhyaḥ ǀ indum ǁ

    9.109.12 Aṣṭaka 7.5.21.2Anuvāka 9.7.80

  13. Ṛk 13

    इंदुः॑ पविष्ट॒ चारु॒र्मदा॑या॒पामु॒पस्थे॑ क॒विर्भगा॑य ॥

    इन्दुः पविष्ट चारुर् मदायापाम् उपस्थे कविर् भगाय ||

    índuḥ paviṣṭa cā́rurmádāyāpā́mupásthe kavírbhágāya ǁ

    induḥ paviṣṭa cārur madāyāpām upasthe kavir bhagāya ||

    इन्दुः॑ । प॒वि॒ष्ट॒ । चारुः॑ । मदा॑य । अ॒पाम् । उ॒पऽस्थे॑ । क॒विः । भगा॑य ॥

    इन्दुः । पविष्ट । चारुः । मदाय । अपाम् । उपऽस्थे । कविः । भगाय ॥

    índuḥ ǀ paviṣṭa ǀ cā́ruḥ ǀ mádāya ǀ apā́m ǀ upá-sthe ǀ kavíḥ ǀ bhágāya ǁ

    induḥ ǀ paviṣṭa ǀ cāruḥ ǀ madāya ǀ apām ǀ upa-sthe ǀ kaviḥ ǀ bhagāya ǁ

    9.109.13 Aṣṭaka 7.5.21.3Anuvāka 9.7.81

  14. Ṛk 14

    बिभ॑र्ति॒ चार्विंद्र॑स्य॒ नाम॒ येन॒ विश्वा॑नि वृ॒त्रा ज॒घान॑ ॥

    बिभर्ति चार्व् इन्द्रस्य नाम येन विश्वानि वृत्रा जघान ||

    bíbharti cā́rvíndrasya nā́ma yéna víśvāni vṛtrā́ jaghā́na ǁ

    bibharti cārv indrasya nāma yena viśvāni vṛtrā jaghāna ||

    बिभ॑र्ति । चारु॑ । इन्द्र॑स्य । नाम॑ । येन॑ । विश्वा॑नि । वृ॒त्रा । ज॒घान॑ ॥

    बिभर्ति । चारु । इन्द्रस्य । नाम । येन । विश्वानि । वृत्रा । जघान ॥

    bíbharti ǀ cā́ru ǀ índrasya ǀ nā́ma ǀ yéna ǀ víśvāni ǀ vṛtrā́ ǀ jaghā́na ǁ

    bibharti ǀ cāru ǀ indrasya ǀ nāma ǀ yena ǀ viśvāni ǀ vṛtrā ǀ jaghāna ǁ

    9.109.14 Aṣṭaka 7.5.21.4Anuvāka 9.7.82

  15. Ṛk 15

    पिबं॑त्यस्य॒ विश्वे॑ दे॒वासो॒ गोभिः॑ श्री॒तस्य॒ नृभिः॑ सु॒तस्य॑ ॥

    पिबन्त्य् अस्य विश्वे देवासो गोभिः श्रीतस्य नृभिः सुतस्य ||

    píbantyasya víśve devā́so góbhiḥ śrītásya nṛ́bhiḥ sutásya ǁ

    pibanty asya viśve devāso gobhiḥ śrītasya nṛbhiḥ sutasya ||

    पिब॑न्ति । अ॒स्य॒ । विश्वे॑ । दे॒वासः॑ । गोभिः॑ । श्री॒तस्य॑ । नृऽभिः॑ । सु॒तस्य॑ ॥

    पिबन्ति । अस्य । विश्वे । देवासः । गोभिः । श्रीतस्य । नृऽभिः । सुतस्य ॥

    píbanti ǀ asya ǀ víśve ǀ devā́saḥ ǀ góbhiḥ ǀ śrītásya ǀ nṛ́-bhiḥ ǀ sutásya ǁ

    pibanti ǀ asya ǀ viśve ǀ devāsaḥ ǀ gobhiḥ ǀ śrītasya ǀ nṛ-bhiḥ ǀ sutasya ǁ

    9.109.15 Aṣṭaka 7.5.21.5Anuvāka 9.7.83

  16. Ṛk 16

    प्र सु॑वा॒नो अ॑क्षाः स॒हस्र॑धारस्ति॒रः प॒वित्रं॒ वि वार॒मव्यं॑ ॥

    प्र सुवानो अक्षाः सहस्रधारस् तिरः पवित्रं वि वारम् अव्यम् ||

    prá suvānó akṣāḥ sahásradhārastiráḥ pavítram ví vā́ramávyam ǁ

    pra suvāno akṣāḥ sahasradhāras tiraḥ pavitraṃ vi vāram avyam ||

    प्र । सु॒वा॒नः । अ॒क्षा॒रिति॑ । स॒हस्र॑ऽधारः । ति॒रः । प॒वित्र॑म् । वि । वार॑म् । अव्य॑म् ॥

    प्र । सुवानः । अक्षारिति । सहस्रऽधारः । तिरः । पवित्रम् । वि । वारम् । अव्यम् ॥

    prá ǀ suvānáḥ ǀ akṣāríti ǀ sahásra-dhāraḥ ǀ tiráḥ ǀ pavítram ǀ ví ǀ vā́ram ǀ ávyam ǁ

    pra ǀ suvānaḥ ǀ akṣāriti ǀ sahasra-dhāraḥ ǀ tiraḥ ǀ pavitram ǀ vi ǀ vāram ǀ avyam ǁ

    9.109.16 Aṣṭaka 7.5.21.6Anuvāka 9.7.84

  17. Ṛk 17

    स वा॒ज्य॑क्षाः स॒हस्र॑रेता अ॒द्भिर्मृ॑जा॒नो गोभिः॑ श्रीणा॒नः ॥

    स वाज्य् अक्षाः सहस्ररेता अद्भिर् मृजानो गोभिः श्रीणानः ||

    sá vājyákṣāḥ sahásraretā adbhírmṛjānó góbhiḥ śrīṇānáḥ ǁ

    sa vājy akṣāḥ sahasraretā adbhir mṛjāno gobhiḥ śrīṇānaḥ ||

    सः । वा॒जी । अ॒क्षा॒रिति॑ । स॒हस्र॑ऽरेताः । अ॒त्ऽभिः । मृ॒जा॒नः । गोभिः॑ । श्री॒णा॒नः ॥

    सः । वाजी । अक्षारिति । सहस्रऽरेताः । अत्ऽभिः । मृजानः । गोभिः । श्रीणानः ॥

    sáḥ ǀ vājī́ ǀ akṣāríti ǀ sahásra-retāḥ ǀ at-bhíḥ ǀ mṛjānáḥ ǀ góbhiḥ ǀ śrīṇānáḥ ǁ

    saḥ ǀ vājī ǀ akṣāriti ǀ sahasra-retāḥ ǀ at-bhiḥ ǀ mṛjānaḥ ǀ gobhiḥ ǀ śrīṇānaḥ ǁ

    9.109.17 Aṣṭaka 7.5.21.7Anuvāka 9.7.85

  18. Ṛk 18

    प्र सो॑म या॒हींद्र॑स्य कु॒क्षा नृभि॑र्येमा॒नो अद्रि॑भिः सु॒तः ॥

    प्र सोम याहीन्द्रस्य कुक्षा नृभिर् येमानो अद्रिभिः सुतः ||

    prá soma yāhī́ndrasya kukṣā́ nṛ́bhiryemānó ádribhiḥ sutáḥ ǁ

    pra soma yāhīndrasya kukṣā nṛbhir yemāno adribhiḥ sutaḥ ||

    प्र । सो॒म॒ । या॒हि॒ । इन्द्र॑स्य । कु॒क्षा । नृऽभिः॑ । ये॒मा॒नः । अद्रि॑ऽभिः । सु॒तः ॥

    प्र । सोम । याहि । इन्द्रस्य । कुक्षा । नृऽभिः । येमानः । अद्रिऽभिः । सुतः ॥

    prá ǀ soma ǀ yāhi ǀ índrasya ǀ kukṣā́ ǀ nṛ́-bhiḥ ǀ yemānáḥ ǀ ádri-bhiḥ ǀ sutáḥ ǁ

    pra ǀ soma ǀ yāhi ǀ indrasya ǀ kukṣā ǀ nṛ-bhiḥ ǀ yemānaḥ ǀ adri-bhiḥ ǀ sutaḥ ǁ

    9.109.18 Aṣṭaka 7.5.21.8Anuvāka 9.7.86

  19. Ṛk 19

    अस॑र्जि वा॒जी ति॒रः प॒वित्र॒मिंद्रा॑य॒ सोमः॑ स॒हस्र॑धारः ॥

    असर्जि वाजी तिरः पवित्रम् इन्द्राय सोमः सहस्रधारः ||

    ásarji vājī́ tiráḥ pavítramíndrāya sómaḥ sahásradhāraḥ ǁ

    asarji vājī tiraḥ pavitram indrāya somaḥ sahasradhāraḥ ||

    अस॑र्जि । वा॒जी । ति॒रः । प॒वित्र॑म् । इन्द्रा॑य । सोमः॑ । स॒हस्र॑ऽधारः ॥

    असर्जि । वाजी । तिरः । पवित्रम् । इन्द्राय । सोमः । सहस्रऽधारः ॥

    ásarji ǀ vājī́ ǀ tiráḥ ǀ pavítram ǀ índrāya ǀ sómaḥ ǀ sahásra-dhāraḥ ǁ

    asarji ǀ vājī ǀ tiraḥ ǀ pavitram ǀ indrāya ǀ somaḥ ǀ sahasra-dhāraḥ ǁ

    9.109.19 Aṣṭaka 7.5.21.9Anuvāka 9.7.87

  20. Ṛk 20

    अं॒जंत्ये॑नं॒ मध्वो॒ रसे॒नेंद्रा॑य॒ वृष्ण॒ इंदुं॒ मदा॑य ॥

    अञ्जन्त्य् एनम् मध्वो रसेनेन्द्राय वृष्ण इन्दुम् मदाय ||

    añjántyenam mádhvo rásenéndrāya vṛ́ṣṇa índum mádāya ǁ

    añjanty enam madhvo rasenendrāya vṛṣṇa indum madāya ||

    अ॒ञ्जन्ति॑ । ए॒न॒म् । मध्वः॑ । रसे॑न । इन्द्रा॑य । वृष्णे॑ । इन्दु॑म् । मदा॑य ॥

    अञ्जन्ति । एनम् । मध्वः । रसेन । इन्द्राय । वृष्णे । इन्दुम् । मदाय ॥

    añjánti ǀ enam ǀ mádhvaḥ ǀ rásena ǀ índrāya ǀ vṛ́ṣṇe ǀ índum ǀ mádāya ǁ

    añjanti ǀ enam ǀ madhvaḥ ǀ rasena ǀ indrāya ǀ vṛṣṇe ǀ indum ǀ madāya ǁ

    9.109.20 Aṣṭaka 7.5.21.10Anuvāka 9.7.88

  21. Ṛk 21

    दे॒वेभ्य॑स्त्वा॒ वृथा॒ पाज॑से॒ऽपो वसा॑नं॒ हरिं॑ मृजंति ॥

    देवेभ्यस् त्वा वृथा पाजसे ऽपो वसानं हरिम् मृजन्ति ||

    devébhyastvā vṛ́thā pā́jase’pó vásānam hárim mṛjanti ǁ

    devebhyas tvā vṛthā pājase 'po vasānaṃ harim mṛjanti ||

    दे॒वेभ्यः॑ । त्वा॒ । वृथा॑ । पाज॑से । अ॒पः । वसा॑नम् । हरि॑म् । मृ॒ज॒न्ति॒ ॥

    देवेभ्यः । त्वा । वृथा । पाजसे । अपः । वसानम् । हरिम् । मृजन्ति ॥

    devébhyaḥ ǀ tvā ǀ vṛ́thā ǀ pā́jase ǀ apáḥ ǀ vásānam ǀ hárim ǀ mṛjanti ǁ

    devebhyaḥ ǀ tvā ǀ vṛthā ǀ pājase ǀ apaḥ ǀ vasānam ǀ harim ǀ mṛjanti ǁ

    9.109.21 Aṣṭaka 7.5.21.11Anuvāka 9.7.89

  22. Ṛk 22

    इंदु॒रिंद्रा॑य तोशते॒ नि तो॑शते श्री॒णन्नु॒ग्रो रि॒णन्न॒पः ॥

    इन्दुर् इन्द्राय तोशते नि तोशते श्रीणन्न् उग्रो रिणन्न् अपः ||

    índuríndrāya tośate ní tośate śrīṇánnugró riṇánnapáḥ ǁ

    indur indrāya tośate ni tośate śrīṇann ugro riṇann apaḥ ||

    इन्दुः॑ । इन्द्रा॑य । तो॒श॒ते॒ । नि । तो॒श॒ते॒ । श्री॒णन् । उ॒ग्रः । रि॒णन् । अ॒पः ॥

    इन्दुः । इन्द्राय । तोशते । नि । तोशते । श्रीणन् । उग्रः । रिणन् । अपः ॥

    índuḥ ǀ índrāya ǀ tośate ǀ ní ǀ tośate ǀ śrīṇán ǀ ugráḥ ǀ riṇán ǀ apáḥ ǁ

    induḥ ǀ indrāya ǀ tośate ǀ ni ǀ tośate ǀ śrīṇan ǀ ugraḥ ǀ riṇan ǀ apaḥ ǁ

    9.109.22 Aṣṭaka 7.5.21.12Anuvāka 9.7.90

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 9.109 · Soma Pavamāna

Interpretations

Ralph T. H. Griffith

Ṛk 1

PLEASANT to Indra's Mitra's, Pūṣan's Bhaga's taste, sped onward, Soma, with thy flowing stream.

Ṛk 2

Let Indra drink, O Soma, of thy juice for wisdom, and all Deities for strength.

Ṛk 3

So flow thou on as bright celestial juice, flow to the vast, immortal dwelling-place.

Ṛk 4

Flow onward, Soma, as a mighty sea, as Father of the Gods to every form.

Ṛk 5

Flow on, O Soma, radiant for the Gods and Heaven and Earth and bless our progeny.

Ṛk 6

Thou, bright Juice, art Sustainer of the sky: flow, mighty, in accordance with true Law.

Ṛk 7

Soma, flow splendid with thy copious stream through the great fleece as in the olden time.

Ṛk 8

Bom, led by men, joyous, and purified, let the Light-finder make all blessings flow:

Ṛk 9

Indu, while cleansed, keeping the people safe, shall give us all possessions for our own.

Ṛk 10

Flow on for wisdom, Soma, and for power, as a strong courser bathed, to win the prize.

Ṛk 11

The pressers purify this juice of thine, the Soma, for delight, and lofty fame

Ṛk 12

They deck the Gold-hued Infant, newlyborn, even Soma, Indu, in the sieve for Gods.

Ṛk 13

Fair Indu hath flowed on for rapturous joy, Sage for good fortune in the waters' lap.

Ṛk 14

He bears the beauteous name of Indra, that wherewith he overcame all demon foes.

Ṛk 15

All Deities are wont to drink of him, pressed by the men and blent with milk and curds.

Ṛk 16

He hath flowed forth with thousand streams effused, flowed ihsough the filter and the sheep's long wool.

Ṛk 17

With endless genial flow the Strong hath run, purified by the waters, blent with milk.

Ṛk 18

Pressed out with stones, directed by the men, go fortli, O Soma, into Indra's throat.

Ṛk 19

The mighty Soma with a thousand streams is poured to Indra through the cleansing sieve.

Ṛk 20

Indu they balm with pleasant milky juice for Indra, for the Steer, for his delight.

Ṛk 21

Lightly, for sheen, they cleanse thee for the Gods, gold-coloured, wearing water as thy robe.