Sūkta 6
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Asita Kāśyapa Or Devala Kāśyapa
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (3-6, 9); nicṛdgāyatrī (1, 2, 7); virāḍgāyatrī (8)
2nd set of styles gāyatrī
-
Ṛk 1
मं॒द्रया॑ सोम॒ धार॑या॒ वृषा॑ पवस्व देव॒युः ।
अव्यो॒ वारे॑ष्वस्म॒युः ॥मन्द्रया सोम धारया वृषा पवस्व देवयुः |
अव्यो वारेष्व् अस्मयुः ||mandráyā soma dhā́rayā vṛ́ṣā pavasva devayúḥ ǀ
ávyo vā́reṣvasmayúḥ ǁmandrayā soma dhārayā vṛṣā pavasva devayuḥ |
avyo vāreṣv asmayuḥ ||म॒न्द्रया॑ । सो॒म॒ । धार॑या । वृषा॑ । प॒व॒स्व॒ । दे॒व॒ऽयुः ।
अव्यः॑ । वारे॑षु । अ॒स्म॒ऽयुः ॥मन्द्रया । सोम । धारया । वृषा । पवस्व । देवऽयुः ।
अव्यः । वारेषु । अस्मऽयुः ॥mandráyā ǀ soma ǀ dhā́rayā ǀ vṛ́ṣā ǀ pavasva ǀ deva-yúḥ ǀ
ávyaḥ ǀ vā́reṣu ǀ asma-yúḥ ǁmandrayā ǀ soma ǀ dhārayā ǀ vṛṣā ǀ pavasva ǀ deva-yuḥ ǀ
avyaḥ ǀ vāreṣu ǀ asma-yuḥ ǁ9.6.1 Aṣṭaka 6.7.26.1Anuvāka 9.1.52
-
Ṛk 2
अ॒भि त्यं मद्यं॒ मद॒मिंद॒विंद्र॒ इति॑ क्षर ।
अ॒भि वा॒जिनो॒ अर्व॑तः ॥अभि त्यम् मद्यम् मदम् इन्दव् इन्द्र इति क्षर |
अभि वाजिनो अर्वतः ||abhí tyám mádyam mádamíndavíndra íti kṣara ǀ
abhí vājíno árvataḥ ǁabhi tyam madyam madam indav indra iti kṣara |
abhi vājino arvataḥ ||अ॒भि । त्यम् । मद्य॑म् । मद॑म् । इन्दो॒ इति॑ । इन्द्रः॑ । इति॑ । क्ष॒र॒ ।
अ॒भि । वा॒जिनः॑ । अर्व॑तः ॥अभि । त्यम् । मद्यम् । मदम् । इन्दो इति । इन्द्रः । इति । क्षर ।
अभि । वाजिनः । अर्वतः ॥abhí ǀ tyám ǀ mádyam ǀ mádam ǀ índo íti ǀ índraḥ ǀ íti ǀ kṣara ǀ
abhí ǀ vājínaḥ ǀ árvataḥ ǁabhi ǀ tyam ǀ madyam ǀ madam ǀ indo iti ǀ indraḥ ǀ iti ǀ kṣara ǀ
abhi ǀ vājinaḥ ǀ arvataḥ ǁ9.6.2 Aṣṭaka 6.7.26.2Anuvāka 9.1.53
-
Ṛk 3
अ॒भि त्यं पू॒र्व्यं मदं॑ सुवा॒नो अ॑र्ष प॒वित्र॒ आ ।
अ॒भि वाज॑मु॒त श्रवः॑ ॥अभि त्यम् पूर्व्यम् मदं सुवानो अर्ष पवित्र आ |
अभि वाजम् उत श्रवः ||abhí tyám pūrvyám mádam suvānó arṣa pavítra ā́ ǀ
abhí vā́jamutá śrávaḥ ǁabhi tyam pūrvyam madaṃ suvāno arṣa pavitra ā |
abhi vājam uta śravaḥ ||अ॒भि । त्यम् । पू॒र्व्यम् । मद॑म् । सु॒वा॒नः । अ॒र्ष॒ । प॒वित्रे॑ । आ ।
अ॒भि । वाज॑म् । उ॒त । श्रवः॑ ॥अभि । त्यम् । पूर्व्यम् । मदम् । सुवानः । अर्ष । पवित्रे । आ ।
अभि । वाजम् । उत । श्रवः ॥abhí ǀ tyám ǀ pūrvyám ǀ mádam ǀ suvānáḥ ǀ arṣa ǀ pavítre ǀ ā́ ǀ
abhí ǀ vā́jam ǀ utá ǀ śrávaḥ ǁabhi ǀ tyam ǀ pūrvyam ǀ madam ǀ suvānaḥ ǀ arṣa ǀ pavitre ǀ ā ǀ
abhi ǀ vājam ǀ uta ǀ śravaḥ ǁ9.6.3 Aṣṭaka 6.7.26.3Anuvāka 9.1.54
-
Ṛk 4
अनु॑ द्र॒प्सास॒ इंद॑व॒ आपो॒ न प्र॒वता॑सरन् ।
पु॒ना॒ना इंद्र॑माशत ॥अनु द्रप्सास इन्दव आपो न प्रवतासरन् |
पुनाना इन्द्रम् आशत ||ánu drapsā́sa índava ā́po ná pravátāsaran ǀ
punānā́ índramāśata ǁanu drapsāsa indava āpo na pravatāsaran |
punānā indram āśata ||अनु॑ । द्र॒प्सासः॑ । इन्द॑वः । आपः॑ । न । प्र॒ऽवता॑ । अ॒स॒र॒न् ।
पु॒ना॒नाः । इन्द्र॑म् । आ॒श॒त॒ ॥अनु । द्रप्सासः । इन्दवः । आपः । न । प्रऽवता । असरन् ।
पुनानाः । इन्द्रम् । आशत ॥ánu ǀ drapsā́saḥ ǀ índavaḥ ǀ ā́paḥ ǀ ná ǀ pra-vátā ǀ asaran ǀ
punānā́ḥ ǀ índram ǀ āśata ǁanu ǀ drapsāsaḥ ǀ indavaḥ ǀ āpaḥ ǀ na ǀ pra-vatā ǀ asaran ǀ
punānāḥ ǀ indram ǀ āśata ǁ9.6.4 Aṣṭaka 6.7.26.4Anuvāka 9.1.55
-
Ṛk 5
यमत्य॑मिव वा॒जिनं॑ मृ॒जंति॒ योष॑णो॒ दश॑ ।
वने॒ क्रीळं॑त॒मत्य॑विं ॥यम् अत्यम् इव वाजिनम् मृजन्ति योषणो दश |
वने क्रीऌअन्तम् अत्यविम् ||yámátyamiva vājínam mṛjánti yóṣaṇo dáśa ǀ
váne krī́ḷantamátyavim ǁyam atyam iva vājinam mṛjanti yoṣaṇo daśa |
vane krīḷantam atyavim ||यम् । अत्य॑म्ऽइव । वा॒जिन॑म् । मृ॒जन्ति॑ । योष॑णः । दश॑ ।
वने॑ । क्रीळ॑न्तम् । अति॑ऽअविम् ॥यम् । अत्यम्ऽइव । वाजिनम् । मृजन्ति । योषणः । दश ।
वने । क्रीळन्तम् । अतिऽअविम् ॥yám ǀ átyam-iva ǀ vājínam ǀ mṛjánti ǀ yóṣaṇaḥ ǀ dáśa ǀ
váne ǀ krī́ḷantam ǀ áti-avim ǁyam ǀ atyam-iva ǀ vājinam ǀ mṛjanti ǀ yoṣaṇaḥ ǀ daśa ǀ
vane ǀ krīḷantam ǀ ati-avim ǁ9.6.5 Aṣṭaka 6.7.26.5Anuvāka 9.1.56
-
Ṛk 6
तं गोभि॒र्वृष॑णं॒ रसं॒ मदा॑य दे॒ववी॑तये ।
सु॒तं भरा॑य॒ सं सृ॑ज ॥तं गोभिर् वृषणं रसम् मदाय देववीतये |
सुतम् भराय सं सृज ||tám góbhirvṛ́ṣaṇam rásam mádāya devávītaye ǀ
sutám bhárāya sám sṛja ǁtaṃ gobhir vṛṣaṇaṃ rasam madāya devavītaye |
sutam bharāya saṃ sṛja ||तम् । गोभिः॑ । वृष॑णम् । रस॑म् । मदा॑य । दे॒वऽवी॑तये ।
सु॒तम् । भरा॑य । सम् । सृ॒ज॒ ॥तम् । गोभिः । वृषणम् । रसम् । मदाय । देवऽवीतये ।
सुतम् । भराय । सम् । सृज ॥tám ǀ góbhiḥ ǀ vṛ́ṣaṇam ǀ rásam ǀ mádāya ǀ devá-vītaye ǀ
sutám ǀ bhárāya ǀ sám ǀ sṛja ǁtam ǀ gobhiḥ ǀ vṛṣaṇam ǀ rasam ǀ madāya ǀ deva-vītaye ǀ
sutam ǀ bharāya ǀ sam ǀ sṛja ǁ9.6.6 Aṣṭaka 6.7.27.1Anuvāka 9.1.57
-
Ṛk 7
दे॒वो दे॒वाय॒ धार॒येंद्रा॑य पवते सु॒तः ।
पयो॒ यद॑स्य पी॒पय॑त् ॥देवो देवाय धारयेन्द्राय पवते सुतः |
पयो यद् अस्य पीपयत् ||devó devā́ya dhā́rayéndrāya pavate sutáḥ ǀ
páyo yádasya pīpáyat ǁdevo devāya dhārayendrāya pavate sutaḥ |
payo yad asya pīpayat ||दे॒वः । दे॒वाय॑ । धार॑या । इन्द्रा॑य । प॒व॒ते॒ । सु॒तः ।
पयः॑ । यत् । अ॒स्य॒ । पी॒पय॑त् ॥देवः । देवाय । धारया । इन्द्राय । पवते । सुतः ।
पयः । यत् । अस्य । पीपयत् ॥deváḥ ǀ devā́ya ǀ dhā́rayā ǀ índrāya ǀ pavate ǀ sutáḥ ǀ
páyaḥ ǀ yát ǀ asya ǀ pīpáyat ǁdevaḥ ǀ devāya ǀ dhārayā ǀ indrāya ǀ pavate ǀ sutaḥ ǀ
payaḥ ǀ yat ǀ asya ǀ pīpayat ǁ9.6.7 Aṣṭaka 6.7.27.2Anuvāka 9.1.58
-
Ṛk 8
आ॒त्मा य॒ज्ञस्य॒ रंह्या॑ सुष्वा॒णः प॑वते सु॒तः ।
प्र॒त्नं नि पा॑ति॒ काव्यं॑ ॥आत्मा यज्ञस्य रंह्या सुष्वाणः पवते सुतः |
प्रत्नं नि पाति काव्यम् ||ātmā́ yajñásya ráṃhyā suṣvāṇáḥ pavate sutáḥ ǀ
pratnám ní pāti kā́vyam ǁātmā yajñasya raṃhyā suṣvāṇaḥ pavate sutaḥ |
pratnaṃ ni pāti kāvyam ||आ॒त्मा । य॒ज्ञस्य॑ । रंह्या॑ । सु॒स्वा॒नः । प॒व॒ते॒ । सु॒तः ।
प्र॒त्नम् । नि । पा॒ति॒ । काव्य॑म् ॥आत्मा । यज्ञस्य । रंह्या । सुस्वानः । पवते । सुतः ।
प्रत्नम् । नि । पाति । काव्यम् ॥ātmā́ ǀ yajñásya ǀ ráṃhyā ǀ susvānáḥ ǀ pavate ǀ sutáḥ ǀ
pratnám ǀ ní ǀ pāti ǀ kā́vyam ǁātmā ǀ yajñasya ǀ raṃhyā ǀ susvānaḥ ǀ pavate ǀ sutaḥ ǀ
pratnam ǀ ni ǀ pāti ǀ kāvyam ǁ9.6.8 Aṣṭaka 6.7.27.3Anuvāka 9.1.59
-
Ṛk 9
ए॒वा पु॑ना॒न इं॑द्र॒युर्मदं॑ मदिष्ठ वी॒तये॑ ।
गुहा॑ चिद्दधिषे॒ गिरः॑ ॥एवा पुनान इन्द्रयुर् मदम् मदिष्ठ वीतये |
गुहा चिद् दधिषे गिरः ||evā́ punāná indrayúrmádam madiṣṭha vītáye ǀ
gúhā ciddadhiṣe gíraḥ ǁevā punāna indrayur madam madiṣṭha vītaye |
guhā cid dadhiṣe giraḥ ||ए॒व । पु॒ना॒नः । इ॒न्द्र॒ऽयुः । मद॑म् । म॒दि॒ष्ठ॒ । वी॒तये॑ ।
गुहा॑ । चि॒त् । द॒धि॒षे॒ । गिरः॑ ॥एव । पुनानः । इन्द्रऽयुः । मदम् । मदिष्ठ । वीतये ।
गुहा । चित् । दधिषे । गिरः ॥evá ǀ punānáḥ ǀ indra-yúḥ ǀ mádam ǀ madiṣṭha ǀ vītáye ǀ
gúhā ǀ cit ǀ dadhiṣe ǀ gíraḥ ǁeva ǀ punānaḥ ǀ indra-yuḥ ǀ madam ǀ madiṣṭha ǀ vītaye ǀ
guhā ǀ cit ǀ dadhiṣe ǀ giraḥ ǁ9.6.9 Aṣṭaka 6.7.27.4Anuvāka 9.1.60
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.