Sūkta 14
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Asita Kāśyapa Or Devala Kāśyapa
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (1-3, 5, 7); nicṛdgāyatrī (4, 8); kakummatīgāyatrī (6)
2nd set of styles gāyatrī
-
Ṛk 1
परि॒ प्रासि॑ष्यदत्क॒विः सिंधो॑रू॒र्मावधि॑ श्रि॒तः ।
का॒रं बिभ्र॑त्पुरु॒स्पृहं॑ ॥परि प्रासिष्यदत् कविः सिन्धोर् ऊर्माव् अधि श्रितः |
कारम् बिभ्रत् पुरुस्पृहम् ||pári prā́siṣyadatkavíḥ síndhorūrmā́vádhi śritáḥ ǀ
kārám bíbhratpuruspṛ́ham ǁpari prāsiṣyadat kaviḥ sindhor ūrmāv adhi śritaḥ |
kāram bibhrat puruspṛham ||परि॑ । प्र । अ॒सि॒स्य॒द॒त् । क॒विः । सिन्धोः॑ । ऊ॒र्मौ । अधि॑ । श्रि॒तः ।
का॒रम् । बिभ्र॑त् । पु॒रु॒ऽस्पृह॑म् ॥परि । प्र । असिस्यदत् । कविः । सिन्धोः । ऊर्मौ । अधि । श्रितः ।
कारम् । बिभ्रत् । पुरुऽस्पृहम् ॥pári ǀ prá ǀ asisyadat ǀ kavíḥ ǀ síndhoḥ ǀ ūrmáu ǀ ádhi ǀ śritáḥ ǀ
kārám ǀ bíbhrat ǀ puru-spṛ́ham ǁpari ǀ pra ǀ asisyadat ǀ kaviḥ ǀ sindhoḥ ǀ ūrmau ǀ adhi ǀ śritaḥ ǀ
kāram ǀ bibhrat ǀ puru-spṛham ǁ9.14.1 Aṣṭaka 6.8.3.1Anuvāka 9.1.124
-
Ṛk 2
गि॒रा यदी॒ सबं॑धवः॒ पंच॒ व्राता॑ अप॒स्यवः॑ ।
प॒रि॒ष्कृ॒ण्वंति॑ धर्ण॒सिं ॥गिरा यदी सबन्धवः पञ्च व्राता अपस्यवः |
परिष्कृण्वन्ति धर्णसिम् ||girā́ yádī sábandhavaḥ páñca vrā́tā apasyávaḥ ǀ
pariṣkṛṇvánti dharṇasím ǁgirā yadī sabandhavaḥ pañca vrātā apasyavaḥ |
pariṣkṛṇvanti dharṇasim ||गि॒रा । यदि॑ । सऽब॑न्धवः । पञ्च॑ । व्राताः॑ । अ॒प॒स्यवः॑ ।
प॒रि॒ऽकृ॒ण्वन्ति॑ । ध॒र्ण॒सिम् ॥गिरा । यदि । सऽबन्धवः । पञ्च । व्राताः । अपस्यवः ।
परिऽकृण्वन्ति । धर्णसिम् ॥girā́ ǀ yádi ǀ sá-bandhavaḥ ǀ páñca ǀ vrā́tāḥ ǀ apasyávaḥ ǀ
pari-kṛṇvánti ǀ dharṇasím ǁgirā ǀ yadi ǀ sa-bandhavaḥ ǀ pañca ǀ vrātāḥ ǀ apasyavaḥ ǀ
pari-kṛṇvanti ǀ dharṇasim ǁ9.14.2 Aṣṭaka 6.8.3.2Anuvāka 9.1.125
-
Ṛk 3
आद॑स्य शु॒ष्मिणो॒ रसे॒ विश्वे॑ दे॒वा अ॑मत्सत ।
यदी॒ गोभि॑र्वसा॒यते॑ ॥आद् अस्य शुष्मिणो रसे विश्वे देवा अमत्सत |
यदी गोभिर् वसायते ||ā́dasya śuṣmíṇo ráse víśve devā́ amatsata ǀ
yádī góbhirvasāyáte ǁād asya śuṣmiṇo rase viśve devā amatsata |
yadī gobhir vasāyate ||आत् । अ॒स्य॒ । शु॒ष्मिणः॑ । रसे॑ । विश्वे॑ । दे॒वाः । अ॒म॒त्स॒त॒ ।
यदि॑ । गोभिः॑ । व॒सा॒यते॑ ॥आत् । अस्य । शुष्मिणः । रसे । विश्वे । देवाः । अमत्सत ।
यदि । गोभिः । वसायते ॥ā́t ǀ asya ǀ śuṣmíṇaḥ ǀ ráse ǀ víśve ǀ devā́ḥ ǀ amatsata ǀ
yádi ǀ góbhiḥ ǀ vasāyáte ǁāt ǀ asya ǀ śuṣmiṇaḥ ǀ rase ǀ viśve ǀ devāḥ ǀ amatsata ǀ
yadi ǀ gobhiḥ ǀ vasāyate ǁ9.14.3 Aṣṭaka 6.8.3.3Anuvāka 9.1.126
-
Ṛk 4
नि॒रि॒णा॒नो वि धा॑वति॒ जह॒च्छर्या॑णि॒ तान्वा॑ ।
अत्रा॒ सं जि॑घ्नते यु॒जा ॥निरिणानो वि धावति जहच् छर्याणि तान्वा |
अत्रा सं जिघ्नते युजा ||niriṇānó ví dhāvati jáhaccháryāṇi tā́nvā ǀ
átrā sám jighnate yujā́ ǁniriṇāno vi dhāvati jahac charyāṇi tānvā |
atrā saṃ jighnate yujā ||नि॒ऽरि॒णा॒नः । वि । धा॒व॒ति॒ । जह॑त् । शर्या॑णि । तान्वा॑ ।
अत्र॑ । सम् । जि॒घ्न॒ते॒ । यु॒जा ॥निऽरिणानः । वि । धावति । जहत् । शर्याणि । तान्वा ।
अत्र । सम् । जिघ्नते । युजा ॥ni-riṇānáḥ ǀ ví ǀ dhāvati ǀ jáhat ǀ śáryāṇi ǀ tā́nvā ǀ
átra ǀ sám ǀ jighnate ǀ yujā́ ǁni-riṇānaḥ ǀ vi ǀ dhāvati ǀ jahat ǀ śaryāṇi ǀ tānvā ǀ
atra ǀ sam ǀ jighnate ǀ yujā ǁ9.14.4 Aṣṭaka 6.8.3.4Anuvāka 9.1.127
-
Ṛk 5
न॒प्तीभि॒र्यो वि॒वस्व॑तः शु॒भ्रो न मा॑मृ॒जे युवा॑ ।
गाः कृ॑ण्वा॒नो न नि॒र्णिजं॑ ॥नप्तीभिर् यो विवस्वतः शुभ्रो न मामृजे युवा |
गाः कृण्वानो न निर्णिजम् ||naptī́bhiryó vivásvataḥ śubhró ná māmṛjé yúvā ǀ
gā́ḥ kṛṇvānó ná nirṇíjam ǁnaptībhir yo vivasvataḥ śubhro na māmṛje yuvā |
gāḥ kṛṇvāno na nirṇijam ||न॒प्तीभिः॑ । यः । वि॒वस्व॑तः । शु॒भ्रः । न । म॒मृ॒जे । युवा॑ ।
गाः । कृ॒ण्वा॒नः । न । निः॒ऽनिज॑म् ॥नप्तीभिः । यः । विवस्वतः । शुभ्रः । न । ममृजे । युवा ।
गाः । कृण्वानः । न । निःऽनिजम् ॥naptī́bhiḥ ǀ yáḥ ǀ vivásvataḥ ǀ śubhráḥ ǀ ná ǀ mamṛjé ǀ yúvā ǀ
gā́ḥ ǀ kṛṇvānáḥ ǀ ná ǀ niḥ-níjam ǁnaptībhiḥ ǀ yaḥ ǀ vivasvataḥ ǀ śubhraḥ ǀ na ǀ mamṛje ǀ yuvā ǀ
gāḥ ǀ kṛṇvānaḥ ǀ na ǀ niḥ-nijam ǁ9.14.5 Aṣṭaka 6.8.3.5Anuvāka 9.1.128
-
Ṛk 6
अति॑ श्रि॒ती ति॑र॒श्चता॑ ग॒व्या जि॑गा॒त्यण्व्या॑ ।
व॒ग्नुमि॑यर्ति॒ यं वि॒दे ॥अति श्रिती तिरश्चता गव्या जिगात्य् अण्व्या |
वग्नुम् इयर्ति यं विदे ||áti śritī́ tiraścátā gavyā́ jigātyáṇvyā ǀ
vagnúmiyarti yám vidé ǁati śritī tiraścatā gavyā jigāty aṇvyā |
vagnum iyarti yaṃ vide ||अति॑ । श्रि॒ती । ति॒र॒श्चता॑ । ग॒व्या । जि॒गा॒ति॒ । अण्व्या॑ ।
व॒ग्नुम् । इ॒य॒र्ति॒ । यम् । वि॒दे ॥अति । श्रिती । तिरश्चता । गव्या । जिगाति । अण्व्या ।
वग्नुम् । इयर्ति । यम् । विदे ॥áti ǀ śritī́ ǀ tiraścátā ǀ gavyā́ ǀ jigāti ǀ áṇvyā ǀ
vagnúm ǀ iyarti ǀ yám ǀ vidé ǁati ǀ śritī ǀ tiraścatā ǀ gavyā ǀ jigāti ǀ aṇvyā ǀ
vagnum ǀ iyarti ǀ yam ǀ vide ǁ9.14.6 Aṣṭaka 6.8.4.1Anuvāka 9.1.129
-
Ṛk 7
अ॒भि क्षिपः॒ सम॑ग्मत म॒र्जयं॑तीरि॒षस्पतिं॑ ।
पृ॒ष्ठा गृ॑भ्णत वा॒जिनः॑ ॥अभि क्षिपः सम् अग्मत मर्जयन्तीर् इषस् पतिम् |
पृष्ठा गृभ्णत वाजिनः ||abhí kṣípaḥ sámagmata marjáyantīriṣáspátim ǀ
pṛṣṭhā́ gṛbhṇata vājínaḥ ǁabhi kṣipaḥ sam agmata marjayantīr iṣas patim |
pṛṣṭhā gṛbhṇata vājinaḥ ||अ॒भि । क्षिपः॑ । सम् । अ॒ग्म॒त॒ । म॒र्जय॑न्तीः । इ॒षः । पति॑म् ।
पृ॒ष्ठा । गृ॒भ्ण॒त॒ । वा॒जिनः॑ ॥अभि । क्षिपः । सम् । अग्मत । मर्जयन्तीः । इषः । पतिम् ।
पृष्ठा । गृभ्णत । वाजिनः ॥abhí ǀ kṣípaḥ ǀ sám ǀ agmata ǀ marjáyantīḥ ǀ iṣáḥ ǀ pátim ǀ
pṛṣṭhā́ ǀ gṛbhṇata ǀ vājínaḥ ǁabhi ǀ kṣipaḥ ǀ sam ǀ agmata ǀ marjayantīḥ ǀ iṣaḥ ǀ patim ǀ
pṛṣṭhā ǀ gṛbhṇata ǀ vājinaḥ ǁ9.14.7 Aṣṭaka 6.8.4.2Anuvāka 9.1.130
-
Ṛk 8
परि॑ दि॒व्यानि॒ मर्मृ॑श॒द्विश्वा॑नि सोम॒ पार्थि॑वा ।
वसू॑नि याह्यस्म॒युः ॥परि दिव्यानि मर्मृशद् विश्वानि सोम पार्थिवा |
वसूनि याह्य् अस्मयुः ||pári divyā́ni mármṛśadvíśvāni soma pā́rthivā ǀ
vásūni yāhyasmayúḥ ǁpari divyāni marmṛśad viśvāni soma pārthivā |
vasūni yāhy asmayuḥ ||परि॑ । दि॒व्यानि॑ । मर्मृ॑शत् । विश्वा॑नि । सो॒म॒ । पार्थि॑वा ।
वसू॑नि । या॒हि॒ । अ॒स्म॒ऽयुः ॥परि । दिव्यानि । मर्मृशत् । विश्वानि । सोम । पार्थिवा ।
वसूनि । याहि । अस्मऽयुः ॥pári ǀ divyā́ni ǀ mármṛśat ǀ víśvāni ǀ soma ǀ pā́rthivā ǀ
vásūni ǀ yāhi ǀ asma-yúḥ ǁpari ǀ divyāni ǀ marmṛśat ǀ viśvāni ǀ soma ǀ pārthivā ǀ
vasūni ǀ yāhi ǀ asma-yuḥ ǁ9.14.8 Aṣṭaka 6.8.4.3Anuvāka 9.1.131
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.