Ṛk 9.14.1
Saṃhitā
परि॒ प्रासि॑ष्यदत्क॒विः सिंधो॑रू॒र्मावधि॑ श्रि॒तः ।
का॒रं बिभ्र॑त्पुरु॒स्पृहं॑ ॥
परि प्रासिष्यदत् कविः सिन्धोर् ऊर्माव् अधि श्रितः |
कारम् बिभ्रत् पुरुस्पृहम् ||
pári prā́siṣyadatkavíḥ síndhorūrmā́vádhi śritáḥ ǀ
kārám bíbhratpuruspṛ́ham ǁ
pari prāsiṣyadat kaviḥ sindhor ūrmāv adhi śritaḥ |
kāram bibhrat puruspṛham ||
Padapāṭha
परि॑ । प्र । अ॒सि॒स्य॒द॒त् । क॒विः । सिन्धोः॑ । ऊ॒र्मौ । अधि॑ । श्रि॒तः ।
का॒रम् । बिभ्र॑त् । पु॒रु॒ऽस्पृह॑म् ॥
परि । प्र । असिस्यदत् । कविः । सिन्धोः । ऊर्मौ । अधि । श्रितः ।
कारम् । बिभ्रत् । पुरुऽस्पृहम् ॥
pári ǀ prá ǀ asisyadat ǀ kavíḥ ǀ síndhoḥ ǀ ūrmáu ǀ ádhi ǀ śritáḥ ǀ
kārám ǀ bíbhrat ǀ puru-spṛ́ham ǁ
pari ǀ pra ǀ asisyadat ǀ kaviḥ ǀ sindhoḥ ǀ ūrmau ǀ adhi ǀ śritaḥ ǀ
kāram ǀ bibhrat ǀ puru-spṛham ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.014.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.8.03.01
- Maṇḍala · Anuvāka · Ṛk
- 09.01.124
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Asita Kāśyapa Or Devala Kāśyapa
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.