Sūkta 112
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Śiśu Āṅgirasa
- Chandas छन्दस्
- Paṅkti
Metres by ṛk
1st set of styles virāṭpaṅkti (1-3); nicṛtpaṅkti (4)
2nd set of styles paṅkti
-
Ṛk 1
ना॒ना॒नं वा उ॑ नो॒ धियो॒ वि व्र॒तानि॒ जना॑नां ।
तक्षा॑ रि॒ष्टं रु॒तं भि॒षग्ब्र॒ह्मा सु॒न्वंत॑मिच्छ॒तींद्रा॑येंदो॒ परि॑ स्रव ॥नानानं वा उ नो धियो वि व्रतानि जनानाम् |
तक्षा रिष्टं रुतम् भिषग् ब्रह्मा सुन्वन्तम् इच्छतीन्द्रायेन्दो परि स्रव ||nānānám vā́ u no dhíyo ví vratā́ni jánānām ǀ
tákṣā riṣṭám rutám bhiṣágbrahmā́ sunvántamicchatī́ndrāyendo pári srava ǁnānānaṃ vā u no dhiyo vi vratāni janānām |
takṣā riṣṭaṃ rutam bhiṣag brahmā sunvantam icchatīndrāyendo pari srava ||ना॒ना॒नम् । वै । ऊं॒ इति॑ । नः॒ । धियः॑ । वि । व्र॒तानि॑ । जना॑नाम् ।
तक्षा॑ । रि॒ष्टम् । रु॒तम् । भि॒षक् । ब्र॒ह्मा । सु॒न्वन्त॑म् । इ॒च्छ॒ति॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥नानानम् । वै । ऊं इति । नः । धियः । वि । व्रतानि । जनानाम् ।
तक्षा । रिष्टम् । रुतम् । भिषक् । ब्रह्मा । सुन्वन्तम् । इच्छति । इन्द्राय । इन्दो इति । परि । स्रव ॥nānānám ǀ vái ǀ ūṃ íti ǀ naḥ ǀ dhíyaḥ ǀ ví ǀ vratā́ni ǀ jánānām ǀ
tákṣā ǀ riṣṭám ǀ rutám ǀ bhiṣák ǀ brahmā́ ǀ sunvántam ǀ icchati ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁnānānam ǀ vai ǀ ūṃ iti ǀ naḥ ǀ dhiyaḥ ǀ vi ǀ vratāni ǀ janānām ǀ
takṣā ǀ riṣṭam ǀ rutam ǀ bhiṣak ǀ brahmā ǀ sunvantam ǀ icchati ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ9.112.1 Aṣṭaka 7.5.25.1Anuvāka 9.7.106
-
Ṛk 2
जर॑तीभि॒रोष॑धीभिः प॒र्णेभिः॑ शकु॒नानां॑ ।
का॒र्मा॒रो अश्म॑भि॒र्द्युभि॒र्हिर॑ण्यवंतमिच्छ॒तींद्रा॑येंदो॒ परि॑ स्रव ॥जरतीभिर् ओषधीभिः पर्णेभिः शकुनानाम् |
कार्मारो अश्मभिर् द्युभिर् हिरण्यवन्तम् इच्छतीन्द्रायेन्दो परि स्रव ||járatībhiróṣadhībhiḥ parṇébhiḥ śakunā́nām ǀ
kārmāró áśmabhirdyúbhirhíraṇyavantamicchatī́ndrāyendo pári srava ǁjaratībhir oṣadhībhiḥ parṇebhiḥ śakunānām |
kārmāro aśmabhir dyubhir hiraṇyavantam icchatīndrāyendo pari srava ||जर॑तीभिः । ओष॑धीभिः । प॒र्णेभिः॑ । श॒कु॒नाना॑म् ।
का॒र्मा॒रः । अश्म॑ऽभिः । द्युऽभिः॑ । हिर॑ण्यऽवन्तम् । इ॒च्छ॒ति॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥जरतीभिः । ओषधीभिः । पर्णेभिः । शकुनानाम् ।
कार्मारः । अश्मऽभिः । द्युऽभिः । हिरण्यऽवन्तम् । इच्छति । इन्द्राय । इन्दो इति । परि । स्रव ॥járatībhiḥ ǀ óṣadhībhiḥ ǀ parṇébhiḥ ǀ śakunā́nām ǀ
kārmāráḥ ǀ áśma-bhiḥ ǀ dyú-bhiḥ ǀ híraṇya-vantam ǀ icchati ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁjaratībhiḥ ǀ oṣadhībhiḥ ǀ parṇebhiḥ ǀ śakunānām ǀ
kārmāraḥ ǀ aśma-bhiḥ ǀ dyu-bhiḥ ǀ hiraṇya-vantam ǀ icchati ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ9.112.2 Aṣṭaka 7.5.25.2Anuvāka 9.7.107
-
Ṛk 3
का॒रुर॒हं त॒तो भि॒षगु॑पलप्र॒क्षिणी॑ न॒ना ।
नाना॑धियो वसू॒यवोऽनु॒ गा इ॑व तस्थि॒मेंद्रा॑येंदो॒ परि॑ स्रव ॥कारुर् अहं ततो भिषग् उपलप्रक्षिणी नना |
नानाधियो वसूयवो ऽनु गा इव तस्थिमेन्द्रायेन्दो परि स्रव ||kārúrahám tató bhiṣágupalaprakṣíṇī nanā́ ǀ
nā́nādhiyo vasūyávó’nu gā́ iva tasthiméndrāyendo pári srava ǁkārur ahaṃ tato bhiṣag upalaprakṣiṇī nanā |
nānādhiyo vasūyavo 'nu gā iva tasthimendrāyendo pari srava ||का॒रुः । अ॒हम् । त॒तः । भि॒षक् । उ॒प॒ल॒ऽप्र॒क्षिणी॑ । न॒ना ।
नाना॑ऽधियः । व॒सु॒ऽयवः॑ । अनु॑ । गाःऽइ॑व । त॒स्थि॒म॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥कारुः । अहम् । ततः । भिषक् । उपलऽप्रक्षिणी । नना ।
नानाऽधियः । वसुऽयवः । अनु । गाःऽइव । तस्थिम । इन्द्राय । इन्दो इति । परि । स्रव ॥kārúḥ ǀ ahám ǀ tatáḥ ǀ bhiṣák ǀ upala-prakṣíṇī ǀ nanā́ ǀ
nā́nā-dhiyaḥ ǀ vasu-yávaḥ ǀ ánu ǀ gā́ḥ-iva ǀ tasthima ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁkāruḥ ǀ aham ǀ tataḥ ǀ bhiṣak ǀ upala-prakṣiṇī ǀ nanā ǀ
nānā-dhiyaḥ ǀ vasu-yavaḥ ǀ anu ǀ gāḥ-iva ǀ tasthima ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ9.112.3 Aṣṭaka 7.5.25.3Anuvāka 9.7.108
-
Ṛk 4
अश्वो॒ वोळ्हा॑ सु॒खं रथं॑ हस॒नामु॑पमं॒त्रिणः॑ ।
शेपो॒ रोम॑ण्वंतौ भे॒दौ वारिन्मं॒डूक॑ इच्छ॒तींद्रा॑येंदो॒ परि॑ स्रव ॥अश्वो वोऌहा सुखं रथं हसनाम् उपमन्त्रिणः |
शेपो रोमण्वन्तौ भेदौ वार् इन् मण्डूक इच्छतीन्द्रायेन्दो परि स्रव ||áśvo vóḷhā sukhám rátham hasanā́mupamantríṇaḥ ǀ
śépo rómaṇvantau bhedáu vā́rínmaṇḍū́ka icchatī́ndrāyendo pári srava ǁaśvo voḷhā sukhaṃ rathaṃ hasanām upamantriṇaḥ |
śepo romaṇvantau bhedau vār in maṇḍūka icchatīndrāyendo pari srava ||अश्वः॑ । वोळ्हा॑ । सु॒ऽखम् । रथ॑म् । ह॒स॒नाम् । उ॒प॒ऽम॒न्त्रिणः॑ ।
शेपः॑ । रोम॑ण्ऽवन्तौ । भे॒दौ । वाः । इत् । म॒ण्डूकः॑ । इ॒च्छ॒ति॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥अश्वः । वोळ्हा । सुऽखम् । रथम् । हसनाम् । उपऽमन्त्रिणः ।
शेपः । रोमण्ऽवन्तौ । भेदौ । वाः । इत् । मण्डूकः । इच्छति । इन्द्राय । इन्दो इति । परि । स्रव ॥áśvaḥ ǀ vóḷhā ǀ su-khám ǀ rátham ǀ hasanā́m ǀ upa-mantríṇaḥ ǀ
śépaḥ ǀ rómaṇ-vantau ǀ bhedáu ǀ vā́ḥ ǀ ít ǀ maṇḍū́kaḥ ǀ icchati ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁaśvaḥ ǀ voḷhā ǀ su-kham ǀ ratham ǀ hasanām ǀ upa-mantriṇaḥ ǀ
śepaḥ ǀ romaṇ-vantau ǀ bhedau ǀ vāḥ ǀ it ǀ maṇḍūkaḥ ǀ icchati ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ9.112.4 Aṣṭaka 7.5.25.4Anuvāka 9.7.109
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.