Ṛgveda · Maṇḍala 9 · Sūkta 112

Ṛk 9.112.4

Soma Pavamāna · Śiśu Āṅgirasa

The whole sūkta Link

Saṃhitā

अश्वो॒ वोळ्हा॑ सु॒खं रथं॑ हस॒नामु॑पमं॒त्रिणः॑ ।
शेपो॒ रोम॑ण्वंतौ भे॒दौ वारिन्मं॒डूक॑ इच्छ॒तींद्रा॑येंदो॒ परि॑ स्रव ॥

अश्वो वोऌहा सुखं रथं हसनाम् उपमन्त्रिणः |
शेपो रोमण्वन्तौ भेदौ वार् इन् मण्डूक इच्छतीन्द्रायेन्दो परि स्रव ||

áśvo vóḷhā sukhám rátham hasanā́mupamantríṇaḥ ǀ
śépo rómaṇvantau bhedáu vā́rínmaṇḍū́ka icchatī́ndrāyendo pári srava ǁ

aśvo voḷhā sukhaṃ rathaṃ hasanām upamantriṇaḥ |
śepo romaṇvantau bhedau vār in maṇḍūka icchatīndrāyendo pari srava ||

Padapāṭha

अश्वः॑ । वोळ्हा॑ । सु॒ऽखम् । रथ॑म् । ह॒स॒नाम् । उ॒प॒ऽम॒न्त्रिणः॑ ।
शेपः॑ । रोम॑ण्ऽवन्तौ । भे॒दौ । वाः । इत् । म॒ण्डूकः॑ । इ॒च्छ॒ति॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

अश्वः । वोळ्हा । सुऽखम् । रथम् । हसनाम् । उपऽमन्त्रिणः ।
शेपः । रोमण्ऽवन्तौ । भेदौ । वाः । इत् । मण्डूकः । इच्छति । इन्द्राय । इन्दो इति । परि । स्रव ॥

áśvaḥ ǀ vóḷhā ǀ su-khám ǀ rátham ǀ hasanā́m ǀ upa-mantríṇaḥ ǀ
śépaḥ ǀ rómaṇ-vantau ǀ bhedáu ǀ vā́ḥ ǀ ít ǀ maṇḍū́kaḥ ǀ icchati ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁ

aśvaḥ ǀ voḷhā ǀ su-kham ǀ ratham ǀ hasanām ǀ upa-mantriṇaḥ ǀ
śepaḥ ǀ romaṇ-vantau ǀ bhedau ǀ vāḥ ǀ it ǀ maṇḍūkaḥ ǀ icchati ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ

References

Maṇḍala · Sūkta · Ṛk
09.112.04
Aṣṭaka · Adhyāya · Varga · Ṛk
7.5.25.04
Maṇḍala · Anuvāka · Ṛk
09.07.109
Devatā देवता
Soma Pavamāna
Ṛṣi ऋषि
Śiśu Āṅgirasa
Chandas छन्दस्
Paṅkti
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 9.112.4

Interpretations

Sāyaṇa

शर्यणावतीत्येकादशर्चं दशमं सूक्तं मारीचस्य कश्यपस्यार्षं पूर्वत्रहीत्युक्तत्वात् इदमु- त्तरंच पांक्तं पवमानसोमदेवताकं । तथाचानुक्रम्यते—शर्यणावत्येकादशकाश्यपइति । गतोविनियोगः ।