Ṛgveda · Maṇḍala 9

Sūkta 108

Soma Pavamāna · 1, 2: Gaurivīti Śāktya; 3, 14-16: Śakti Vāsiṣṭha; 4, 5: Ūru Āṅgirasa; 6, 7: Ṛjiśvan Bhāradvāja; 8, 9: Ūrdhvasadman Āṅgirasa; 10, 11: Kṛtayaśas Āṅgirasa; 12, 13: Ṛṇaṃcaya · 16 ṛks

Link
Devatā देवता
Soma Pavamāna
Ṛṣi ऋषि
1, 2: Gaurivīti Śāktya; 3, 14-16: Śakti Vāsiṣṭha; 4, 5: Ūru Āṅgirasa; 6, 7: Ṛjiśvan Bhāradvāja; 8, 9: Ūrdhvasadman Āṅgirasa; 10, 11: Kṛtayaśas Āṅgirasa; 12, 13: Ṛṇaṃcaya
Chandas छन्दस्
Satobṛhatī, Kakubh, Gāyatrī Yavamadhyā
Metres by ṛk

1st set of styles svarāḍbṛhatī (4, 6, 10, 12); kakubuṣṇik (1, 9, 11); nicṛduṣṇik (5, 7, 15); paṅktiḥ (8, 16); nicṛdbṛhatī (2); pādanicṛduṣṇik (3); gāyatrī (13); nicṛtpaṅkti (14)

2nd set of styles satobṛhatī (2, 4, 6, 8, 10, 12, 14, 16); kakubh (1, 3, 5, 7, 9, 11, 15); gāyatrī yavamadhyā (13)

  1. Ṛk 1

    पव॑स्व॒ मधु॑मत्तम॒ इंद्रा॑य सोम क्रतु॒वित्त॑मो॒ मदः॑ ।
    महि॑ द्यु॒क्षत॑मो॒ मदः॑ ॥

    पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः |
    महि द्युक्षतमो मदः ||

    pávasva mádhumattama índrāya soma kratuvíttamo mádaḥ ǀ
    máhi dyukṣátamo mádaḥ ǁ

    pavasva madhumattama indrāya soma kratuvittamo madaḥ |
    mahi dyukṣatamo madaḥ ||

    पव॑स्व । मधु॑मत्ऽतमः । इन्द्रा॑य । सो॒म॒ । क्र॒तु॒वित्ऽत॑मः । मदः॑ ।
    महि॑ । द्यु॒क्षऽत॑मः । मदः॑ ॥

    पवस्व । मधुमत्ऽतमः । इन्द्राय । सोम । क्रतुवित्ऽतमः । मदः ।
    महि । द्युक्षऽतमः । मदः ॥

    pávasva ǀ mádhumat-tamaḥ ǀ índrāya ǀ soma ǀ kratuvít-tamaḥ ǀ mádaḥ ǀ
    máhi ǀ dyukṣá-tamaḥ ǀ mádaḥ ǁ

    pavasva ǀ madhumat-tamaḥ ǀ indrāya ǀ soma ǀ kratuvit-tamaḥ ǀ madaḥ ǀ
    mahi ǀ dyukṣa-tamaḥ ǀ madaḥ ǁ

    9.108.1 Aṣṭaka 7.5.17.1Anuvāka 9.7.53

  2. Ṛk 2

    यस्य॑ ते पी॒त्वा वृ॑ष॒भो वृ॑षा॒यते॒ऽस्य पी॒ता स्व॒र्विदः॑ ।
    स सु॒प्रके॑तो अ॒भ्य॑क्रमी॒दिषोऽच्छा॒ वाजं॒ नैत॑शः ॥

    यस्य ते पीत्वा वृषभो वृषायते ऽस्य पीता स्वर्विदः |
    स सुप्रकेतो अभ्य् अक्रमीद् इषो ऽच्छा वाजं नैतशः ||

    yásya te pītvā́ vṛṣabhó vṛṣāyáte’syá pītā́ svarvídaḥ ǀ
    sá supráketo abhyákramīdíṣó’cchā vā́jam náitaśaḥ ǁ

    yasya te pītvā vṛṣabho vṛṣāyate 'sya pītā svarvidaḥ |
    sa supraketo abhy akramīd iṣo 'cchā vājaṃ naitaśaḥ ||

    यस्य॑ । ते॒ । पी॒त्वा । वृ॒ष॒भः । वृ॒ष॒ऽयते॑ । अ॒स्य । पी॒ता । स्वः॒ऽविदः॑ ।
    सः । सु॒ऽप्रके॑तः । अ॒भि । अ॒क्र॒मी॒त् । इषः॑ । अच्छ॑ । वाज॑म् । न । एत॑शः ॥

    यस्य । ते । पीत्वा । वृषभः । वृषऽयते । अस्य । पीता । स्वःऽविदः ।
    सः । सुऽप्रकेतः । अभि । अक्रमीत् । इषः । अच्छ । वाजम् । न । एतशः ॥

    yásya ǀ te ǀ pītvā́ ǀ vṛṣabháḥ ǀ vṛṣa-yáte ǀ asyá ǀ pītā́ ǀ svaḥ-vídaḥ ǀ
    sáḥ ǀ su-práketaḥ ǀ abhí ǀ akramīt ǀ íṣaḥ ǀ áccha ǀ vā́jam ǀ ná ǀ étaśaḥ ǁ

    yasya ǀ te ǀ pītvā ǀ vṛṣabhaḥ ǀ vṛṣa-yate ǀ asya ǀ pītā ǀ svaḥ-vidaḥ ǀ
    saḥ ǀ su-praketaḥ ǀ abhi ǀ akramīt ǀ iṣaḥ ǀ accha ǀ vājam ǀ na ǀ etaśaḥ ǁ

    9.108.2 Aṣṭaka 7.5.17.2Anuvāka 9.7.54

  3. Ṛk 3

    त्वं ह्यं१॒॑ग दैव्या॒ पव॑मान॒ जनि॑मानि द्यु॒मत्त॑मः ।
    अ॒मृ॒त॒त्वाय॑ घो॒षयः॑ ॥

    त्वं ह्य् अङ्ग दैव्या पवमान जनिमानि द्युमत्तमः |
    अमृतत्वाय घोषयः ||

    tvám hyáṅgá dáivyā pávamāna jánimāni dyumáttamaḥ ǀ
    amṛtatvā́ya ghoṣáyaḥ ǁ

    tvaṃ hy aṅga daivyā pavamāna janimāni dyumattamaḥ |
    amṛtatvāya ghoṣayaḥ ||

    त्वम् । हि । अ॒ङ्ग । दैव्या॑ । पव॑मान । जनि॑मानि । द्यु॒मत्ऽत॑मः ।
    अ॒मृ॒त॒ऽत्वाय॑ । घो॒षयः॑ ॥

    त्वम् । हि । अङ्ग । दैव्या । पवमान । जनिमानि । द्युमत्ऽतमः ।
    अमृतऽत्वाय । घोषयः ॥

    tvám ǀ hí ǀ aṅgá ǀ dáivyā ǀ pávamāna ǀ jánimāni ǀ dyumát-tamaḥ ǀ
    amṛta-tvā́ya ǀ ghoṣáyaḥ ǁ

    tvam ǀ hi ǀ aṅga ǀ daivyā ǀ pavamāna ǀ janimāni ǀ dyumat-tamaḥ ǀ
    amṛta-tvāya ǀ ghoṣayaḥ ǁ

    9.108.3 Aṣṭaka 7.5.17.3Anuvāka 9.7.55

  4. Ṛk 4

    येना॒ नव॑ग्वो द॒ध्यङ्ङ॑पोर्णु॒ते येन॒ विप्रा॑स आपि॒रे ।
    दे॒वानां॑ सु॒म्ने अ॒मृत॑स्य॒ चारु॑णो॒ येन॒ श्रवां॑स्यान॒शुः ॥

    येना नवग्वो दध्यङ्ङ् अपोर्णुते येन विप्रास आपिरे |
    देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्य् आनशुः ||

    yénā návagvo dadhyáṅṅaporṇuté yéna víprāsa āpiré ǀ
    devā́nām sumné amṛ́tasya cā́ruṇo yéna śrávāṃsyānaśúḥ ǁ

    yenā navagvo dadhyaṅṅ aporṇute yena viprāsa āpire |
    devānāṃ sumne amṛtasya cāruṇo yena śravāṃsy ānaśuḥ ||

    येन॑ । नव॑ऽग्वः । द॒ध्यङ् । अ॒प॒ऽऊ॒र्णु॒ते । येन॑ । विप्रा॑सः । आ॒पि॒रे ।
    दे॒वाना॑म् । सु॒म्ने । अ॒मृत॑स्य । चारु॑णः । येन॑ । श्रवां॑सि । आ॒न॒शुः ॥

    येन । नवऽग्वः । दध्यङ् । अपऽऊर्णुते । येन । विप्रासः । आपिरे ।
    देवानाम् । सुम्ने । अमृतस्य । चारुणः । येन । श्रवांसि । आनशुः ॥

    yéna ǀ náva-gvaḥ ǀ dadhyáṅ ǀ apa-ūrṇuté ǀ yéna ǀ víprāsaḥ ǀ āpiré ǀ
    devā́nām ǀ sumné ǀ amṛ́tasya ǀ cā́ruṇaḥ ǀ yéna ǀ śrávāṃsi ǀ ānaśúḥ ǁ

    yena ǀ nava-gvaḥ ǀ dadhyaṅ ǀ apa-ūrṇute ǀ yena ǀ viprāsaḥ ǀ āpire ǀ
    devānām ǀ sumne ǀ amṛtasya ǀ cāruṇaḥ ǀ yena ǀ śravāṃsi ǀ ānaśuḥ ǁ

    9.108.4 Aṣṭaka 7.5.17.4Anuvāka 9.7.56

  5. Ṛk 5

    ए॒ष स्य धार॑या सु॒तोऽव्यो॒ वारे॑भिः पवते म॒दिंत॑मः ।
    क्रीळ॑न्नू॒र्मिर॒पामि॑व ॥

    एष स्य धारया सुतो ऽव्यो वारेभिः पवते मदिन्तमः |
    क्रीऌअन्न् ऊर्मिर् अपाम् इव ||

    eṣá syá dhā́rayā sutó’vyo vā́rebhiḥ pavate madíntamaḥ ǀ
    krī́ḷannūrmírapā́miva ǁ

    eṣa sya dhārayā suto 'vyo vārebhiḥ pavate madintamaḥ |
    krīḷann ūrmir apām iva ||

    ए॒षः । स्यः । धार॑या । सु॒तः । अव्यः॑ । वारे॑भिः । प॒व॒ते॒ । म॒दिन्ऽत॑मः ।
    क्रीळ॑न् । ऊ॒र्मिः । अ॒पाम्ऽइ॑व ॥

    एषः । स्यः । धारया । सुतः । अव्यः । वारेभिः । पवते । मदिन्ऽतमः ।
    क्रीळन् । ऊर्मिः । अपाम्ऽइव ॥

    eṣáḥ ǀ syáḥ ǀ dhā́rayā ǀ sutáḥ ǀ ávyaḥ ǀ vā́rebhiḥ ǀ pavate ǀ madín-tamaḥ ǀ
    krī́ḷan ǀ ūrmíḥ ǀ apā́m-iva ǁ

    eṣaḥ ǀ syaḥ ǀ dhārayā ǀ sutaḥ ǀ avyaḥ ǀ vārebhiḥ ǀ pavate ǀ madin-tamaḥ ǀ
    krīḷan ǀ ūrmiḥ ǀ apām-iva ǁ

    9.108.5 Aṣṭaka 7.5.17.5Anuvāka 9.7.57

  6. Ṛk 6

    य उ॒स्रिया॒ अप्या॑ अं॒तरश्म॑नो॒ निर्गा अकृं॑त॒दोज॑सा ।
    अ॒भि व्र॒जं त॑त्निषे॒ गव्य॒मश्व्यं॑ व॒र्मीव॑ धृष्ण॒वा रु॑ज ॥

    य उस्रिया अप्या अन्तर् अश्मनो निर् गा अकृन्तद् ओजसा |
    अभि व्रजं तत्निषे गव्यम् अश्व्यं वर्मीव धृष्णव् आ रुज ||

    yá usríyā ápyā antáráśmano nírgā́ ákṛntadójasā ǀ
    abhí vrajám tatniṣe gávyamáśvyam varmī́va dhṛṣṇavā́ ruja ǁ

    ya usriyā apyā antar aśmano nir gā akṛntad ojasā |
    abhi vrajaṃ tatniṣe gavyam aśvyaṃ varmīva dhṛṣṇav ā ruja ||

    यः । उ॒स्रियाः॑ । अप्याः॑ । अ॒न्तः । अश्म॑नः । निः । गाः । अकृ॑न्तत् । ओज॑सा ।
    अ॒भि । व्र॒जम् । त॒त्नि॒षे॒ । गव्य॑म् । अश्व्य॑म् । व॒र्मीऽइ॑व । धृ॒ष्णो॒ इति॑ । आ । रु॒ज॒ ॥

    यः । उस्रियाः । अप्याः । अन्तः । अश्मनः । निः । गाः । अकृन्तत् । ओजसा ।
    अभि । व्रजम् । तत्निषे । गव्यम् । अश्व्यम् । वर्मीऽइव । धृष्णो इति । आ । रुज ॥

    yáḥ ǀ usríyāḥ ǀ ápyāḥ ǀ antáḥ ǀ áśmanaḥ ǀ níḥ ǀ gā́ḥ ǀ ákṛntat ǀ ójasā ǀ
    abhí ǀ vrajám ǀ tatniṣe ǀ gávyam ǀ áśvyam ǀ varmī́-iva ǀ dhṛṣṇo íti ǀ ā́ ǀ ruja ǁ

    yaḥ ǀ usriyāḥ ǀ apyāḥ ǀ antaḥ ǀ aśmanaḥ ǀ niḥ ǀ gāḥ ǀ akṛntat ǀ ojasā ǀ
    abhi ǀ vrajam ǀ tatniṣe ǀ gavyam ǀ aśvyam ǀ varmī-iva ǀ dhṛṣṇo iti ǀ ā ǀ ruja ǁ

    9.108.6 Aṣṭaka 7.5.18.1Anuvāka 9.7.58

  7. Ṛk 7

    आ सो॑ता॒ परि॑ षिंच॒ताश्वं॒ न स्तोम॑म॒प्तुरं॑ रज॒स्तुरं॑ ।
    व॒न॒क्र॒क्षमु॑द॒प्रुतं॑ ॥

    आ सोता परि षिञ्चताश्वं न स्तोमम् अप्तुरं रजस्तुरम् |
    वनक्रक्षम् उदप्रुतम् ||

    ā́ sotā pári ṣiñcatā́śvam ná stómamaptúram rajastúram ǀ
    vanakrakṣámudaprútam ǁ

    ā sotā pari ṣiñcatāśvaṃ na stomam apturaṃ rajasturam |
    vanakrakṣam udaprutam ||

    आ । सो॒त॒ । परि॑ । सि॒ञ्च॒त॒ । अश्व॑म् । न । स्तोम॑म् । अ॒प्ऽतुर॑म् । र॒जः॒ऽतुर॑म् ।
    व॒न॒ऽक्र॒क्षम् । उ॒द॒ऽप्रुत॑म् ॥

    आ । सोत । परि । सिञ्चत । अश्वम् । न । स्तोमम् । अप्ऽतुरम् । रजःऽतुरम् ।
    वनऽक्रक्षम् । उदऽप्रुतम् ॥

    ā́ ǀ sota ǀ pári ǀ siñcata ǀ áśvam ǀ ná ǀ stómam ǀ ap-túram ǀ rajaḥ-túram ǀ
    vana-krakṣám ǀ uda-prútam ǁ

    ā ǀ sota ǀ pari ǀ siñcata ǀ aśvam ǀ na ǀ stomam ǀ ap-turam ǀ rajaḥ-turam ǀ
    vana-krakṣam ǀ uda-prutam ǁ

    9.108.7 Aṣṭaka 7.5.18.2Anuvāka 9.7.59

  8. Ṛk 8

    स॒हस्र॑धारं वृष॒भं प॑यो॒वृधं॑ प्रि॒यं दे॒वाय॒ जन्म॑ने ।
    ऋ॒तेन॒ य ऋ॒तजा॑तो विवावृ॒धे राजा॑ दे॒व ऋ॒तं बृ॒हत् ॥

    सहस्रधारं वृषभम् पयोवृधम् प्रियं देवाय जन्मने |
    ऋतेन य ऋतजातो विवावृधे राजा देव ऋतम् बृहत् ||

    sahásradhāram vṛṣabhám payovṛ́dham priyám devā́ya jánmane ǀ
    ṛténa yá ṛtájāto vivāvṛdhé rā́jā devá ṛtám bṛhát ǁ

    sahasradhāraṃ vṛṣabham payovṛdham priyaṃ devāya janmane |
    ṛtena ya ṛtajāto vivāvṛdhe rājā deva ṛtam bṛhat ||

    स॒हस्र॑ऽधारम् । वृ॒ष॒भम् । प॒यः॒ऽवृध॑म् । प्रि॒यम् । दे॒वाय॑ । जन्म॑ने ।
    ऋ॒तेन॑ । यः । ऋ॒तऽजा॑तः । वि॒ऽव॒वृ॒धे । राजा॑ । दे॒वः । ऋ॒तम् । बृ॒हत् ॥

    सहस्रऽधारम् । वृषभम् । पयःऽवृधम् । प्रियम् । देवाय । जन्मने ।
    ऋतेन । यः । ऋतऽजातः । विऽववृधे । राजा । देवः । ऋतम् । बृहत् ॥

    sahásra-dhāram ǀ vṛṣabhám ǀ payaḥ-vṛ́dham ǀ priyám ǀ devā́ya ǀ jánmane ǀ
    ṛténa ǀ yáḥ ǀ ṛtá-jātaḥ ǀ vi-vavṛdhé ǀ rā́jā ǀ deváḥ ǀ ṛtám ǀ bṛhát ǁ

    sahasra-dhāram ǀ vṛṣabham ǀ payaḥ-vṛdham ǀ priyam ǀ devāya ǀ janmane ǀ
    ṛtena ǀ yaḥ ǀ ṛta-jātaḥ ǀ vi-vavṛdhe ǀ rājā ǀ devaḥ ǀ ṛtam ǀ bṛhat ǁ

    9.108.8 Aṣṭaka 7.5.18.3Anuvāka 9.7.60

  9. Ṛk 9

    अ॒भि द्यु॒म्नं बृ॒हद्यश॒ इष॑स्पते दिदी॒हि दे॑व देव॒युः ।
    वि कोशं॑ मध्य॒मं यु॑व ॥

    अभि द्युम्नम् बृहद् यश इषस् पते दिदीहि देव देवयुः |
    वि कोशम् मध्यमं युव ||

    abhí dyumnám bṛhádyáśa íṣaspate didīhí deva devayúḥ ǀ
    ví kóśam madhyamám yuva ǁ

    abhi dyumnam bṛhad yaśa iṣas pate didīhi deva devayuḥ |
    vi kośam madhyamaṃ yuva ||

    अ॒भि । द्यु॒म्नम् । बृ॒हत् । यशः॑ । इषः॑ । प॒ते॒ । दि॒दी॒हि । दे॒व॒ । दे॒व॒ऽयुः ।
    वि । कोश॑म् । म॒ध्य॒मम् । यु॒व॒ ॥

    अभि । द्युम्नम् । बृहत् । यशः । इषः । पते । दिदीहि । देव । देवऽयुः ।
    वि । कोशम् । मध्यमम् । युव ॥

    abhí ǀ dyumnám ǀ bṛhát ǀ yáśaḥ ǀ íṣaḥ ǀ pate ǀ didīhí ǀ deva ǀ deva-yúḥ ǀ
    ví ǀ kóśam ǀ madhyamám ǀ yuva ǁ

    abhi ǀ dyumnam ǀ bṛhat ǀ yaśaḥ ǀ iṣaḥ ǀ pate ǀ didīhi ǀ deva ǀ deva-yuḥ ǀ
    vi ǀ kośam ǀ madhyamam ǀ yuva ǁ

    9.108.9 Aṣṭaka 7.5.18.4Anuvāka 9.7.61

  10. Ṛk 10

    आ व॑च्यस्व सुदक्ष च॒म्वोः॑ सु॒तो वि॒शां वह्नि॒र्न वि॒श्पतिः॑ ।
    वृ॒ष्टिं दि॒वः प॑वस्व री॒तिम॒पां जिन्वा॒ गवि॑ष्टये॒ धियः॑ ॥

    आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर् न विश्पतिः |
    वृष्टिं दिवः पवस्व रीतिम् अपां जिन्वा गविष्टये धियः ||

    ā́ vacyasva sudakṣa camvóḥ sutó viśā́m váhnirná viśpátiḥ ǀ
    vṛṣṭím diváḥ pavasva rītímapā́m jínvā gáviṣṭaye dhíyaḥ ǁ

    ā vacyasva sudakṣa camvoḥ suto viśāṃ vahnir na viśpatiḥ |
    vṛṣṭiṃ divaḥ pavasva rītim apāṃ jinvā gaviṣṭaye dhiyaḥ ||

    आ । व॒च्य॒स्व॒ । सु॒ऽद॒क्ष॒ । च॒म्वोः॑ । सु॒तः । वि॒शाम् । वह्निः॑ । न । वि॒श्पतिः॑ ।
    वृ॒ष्टिम् । दि॒वः । प॒व॒स्व॒ । री॒तिम् । अ॒पाम् । जिन्व॑ । गोऽइ॑ष्टये । धियः॑ ॥

    आ । वच्यस्व । सुऽदक्ष । चम्वोः । सुतः । विशाम् । वह्निः । न । विश्पतिः ।
    वृष्टिम् । दिवः । पवस्व । रीतिम् । अपाम् । जिन्व । गोऽइष्टये । धियः ॥

    ā́ ǀ vacyasva ǀ su-dakṣa ǀ camvóḥ ǀ sutáḥ ǀ viśā́m ǀ váhniḥ ǀ ná ǀ viśpátiḥ ǀ
    vṛṣṭím ǀ diváḥ ǀ pavasva ǀ rītím ǀ apā́m ǀ jínva ǀ gó-iṣṭaye ǀ dhíyaḥ ǁ

    ā ǀ vacyasva ǀ su-dakṣa ǀ camvoḥ ǀ sutaḥ ǀ viśām ǀ vahniḥ ǀ na ǀ viśpatiḥ ǀ
    vṛṣṭim ǀ divaḥ ǀ pavasva ǀ rītim ǀ apām ǀ jinva ǀ go-iṣṭaye ǀ dhiyaḥ ǁ

    9.108.10 Aṣṭaka 7.5.18.5Anuvāka 9.7.62

  11. Ṛk 11

    ए॒तमु॒ त्यं म॑द॒च्युतं॑ स॒हस्र॑धारं वृष॒भं दिवो॑ दुहुः ।
    विश्वा॒ वसू॑नि॒ बिभ्र॑तं ॥

    एतम् उ त्यम् मदच्युतं सहस्रधारं वृषभं दिवो दुहुः |
    विश्वा वसूनि बिभ्रतम् ||

    etámu tyám madacyútam sahásradhāram vṛṣabhám dívo duhuḥ ǀ
    víśvā vásūni bíbhratam ǁ

    etam u tyam madacyutaṃ sahasradhāraṃ vṛṣabhaṃ divo duhuḥ |
    viśvā vasūni bibhratam ||

    ए॒तम् । ऊं॒ इति॑ । त्यम् । म॒द॒ऽच्युत॑म् । स॒हस्र॑ऽधारम् । वृ॒ष॒भम् । दिवः॑ । दु॒हुः॒ ।
    विश्वा॑ । वसू॑नि । बिभ्र॑तम् ॥

    एतम् । ऊं इति । त्यम् । मदऽच्युतम् । सहस्रऽधारम् । वृषभम् । दिवः । दुहुः ।
    विश्वा । वसूनि । बिभ्रतम् ॥

    etám ǀ ūṃ íti ǀ tyám ǀ mada-cyútam ǀ sahásra-dhāram ǀ vṛṣabhám ǀ dívaḥ ǀ duhuḥ ǀ
    víśvā ǀ vásūni ǀ bíbhratam ǁ

    etam ǀ ūṃ iti ǀ tyam ǀ mada-cyutam ǀ sahasra-dhāram ǀ vṛṣabham ǀ divaḥ ǀ duhuḥ ǀ
    viśvā ǀ vasūni ǀ bibhratam ǁ

    9.108.11 Aṣṭaka 7.5.19.1Anuvāka 9.7.63

  12. Ṛk 12

    वृषा॒ वि ज॑ज्ञे ज॒नय॒न्नम॑र्त्यः प्र॒तपं॒ज्योति॑षा॒ तमः॑ ।
    स सुष्टु॑तः क॒विभि॑र्नि॒र्णिजं॑ दधे त्रि॒धात्व॑स्य॒ दंस॑सा ॥

    वृषा वि जज्ञे जनयन्न् अमर्त्यः प्रतपञ् ज्योतिषा तमः |
    स सुष्टुतः कविभिर् निर्णिजं दधे त्रिधात्व् अस्य दंससा ||

    vṛ́ṣā ví jajñe janáyannámartyaḥ pratápañjyótiṣā támaḥ ǀ
    sá súṣṭutaḥ kavíbhirnirṇíjam dadhe tridhā́tvasya dáṃsasā ǁ

    vṛṣā vi jajñe janayann amartyaḥ pratapañ jyotiṣā tamaḥ |
    sa suṣṭutaḥ kavibhir nirṇijaṃ dadhe tridhātv asya daṃsasā ||

    वृषा॑ । वि । ज॒ज्ञे॒ । ज॒नय॑न् । अम॑र्त्यः । प्र॒ऽतप॑न् । ज्योति॑षा । तमः॑ ।
    सः । सुऽस्तु॑तः । क॒विऽभिः॑ । निः॒ऽनिज॑म् । द॒धे॒ । त्रि॒ऽधातु॑ । अ॒स्य॒ । दंस॑सा ॥

    वृषा । वि । जज्ञे । जनयन् । अमर्त्यः । प्रऽतपन् । ज्योतिषा । तमः ।
    सः । सुऽस्तुतः । कविऽभिः । निःऽनिजम् । दधे । त्रिऽधातु । अस्य । दंससा ॥

    vṛ́ṣā ǀ ví ǀ jajñe ǀ janáyan ǀ ámartyaḥ ǀ pra-tápan ǀ jyótiṣā ǀ támaḥ ǀ
    sáḥ ǀ sú-stutaḥ ǀ kaví-bhiḥ ǀ niḥ-níjam ǀ dadhe ǀ tri-dhā́tu ǀ asya ǀ dáṃsasā ǁ

    vṛṣā ǀ vi ǀ jajñe ǀ janayan ǀ amartyaḥ ǀ pra-tapan ǀ jyotiṣā ǀ tamaḥ ǀ
    saḥ ǀ su-stutaḥ ǀ kavi-bhiḥ ǀ niḥ-nijam ǀ dadhe ǀ tri-dhātu ǀ asya ǀ daṃsasā ǁ

    9.108.12 Aṣṭaka 7.5.19.2Anuvāka 9.7.64

  13. Ṛk 13

    स सु॑न्वे॒ यो वसू॑नां॒ यो रा॒यामा॑ने॒ता य इळा॑नां ।
    सोमो॒ यः सु॑क्षिती॒नां ॥

    स सुन्वे यो वसूनां यो रायाम् आनेता य इऌआनाम् |
    सोमो यः सुक्षितीनाम् ||

    sá sunve yó vásūnām yó rāyā́mānetā́ yá íḷānām ǀ
    sómo yáḥ sukṣitīnā́m ǁ

    sa sunve yo vasūnāṃ yo rāyām ānetā ya iḷānām |
    somo yaḥ sukṣitīnām ||

    सः । सु॒न्वे॒ । यः । वसू॑नाम् । यः । रा॒याम् । आ॒ऽने॒ता । यः । इळा॑नाम् ।
    सोमः॑ । यः । सु॒ऽक्षि॒ती॒नाम् ॥

    सः । सुन्वे । यः । वसूनाम् । यः । रायाम् । आऽनेता । यः । इळानाम् ।
    सोमः । यः । सुऽक्षितीनाम् ॥

    sáḥ ǀ sunve ǀ yáḥ ǀ vásūnām ǀ yáḥ ǀ rāyā́m ǀ ā-netā́ ǀ yáḥ ǀ íḷānām ǀ
    sómaḥ ǀ yáḥ ǀ su-kṣitīnā́m ǁ

    saḥ ǀ sunve ǀ yaḥ ǀ vasūnām ǀ yaḥ ǀ rāyām ǀ ā-netā ǀ yaḥ ǀ iḷānām ǀ
    somaḥ ǀ yaḥ ǀ su-kṣitīnām ǁ

    9.108.13 Aṣṭaka 7.5.19.3Anuvāka 9.7.65

  14. Ṛk 14

    यस्य॑ न॒ इंद्रः॒ पिबा॒द्यस्य॑ म॒रुतो॒ यस्य॑ वार्य॒मणा॒ भगः॑ ।
    आ येन॑ मि॒त्रावरु॑णा॒ करा॑मह॒ एंद्र॒मव॑से म॒हे ॥

    यस्य न इन्द्रः पिबाद् यस्य मरुतो यस्य वार्यमणा भगः |
    आ येन मित्रावरुणा करामह एन्द्रम् अवसे महे ||

    yásya na índraḥ píbādyásya marúto yásya vāryamáṇā bhágaḥ ǀ
    ā́ yéna mitrā́váruṇā kárāmaha éndramávase mahé ǁ

    yasya na indraḥ pibād yasya maruto yasya vāryamaṇā bhagaḥ |
    ā yena mitrāvaruṇā karāmaha endram avase mahe ||

    यस्य॑ । नः॒ । इन्द्रः॑ । पिबा॑त् । यस्य॑ । म॒रुतः॑ । यस्य॑ । वा॒ । अ॒र्य॒मणा॑ । भगः॑ ।
    आ । येन॑ । मि॒त्रावरु॑णा । करा॑महे । आ । इन्द्र॑म् । अव॑से । म॒हे ॥

    यस्य । नः । इन्द्रः । पिबात् । यस्य । मरुतः । यस्य । वा । अर्यमणा । भगः ।
    आ । येन । मित्रावरुणा । करामहे । आ । इन्द्रम् । अवसे । महे ॥

    yásya ǀ naḥ ǀ índraḥ ǀ píbāt ǀ yásya ǀ marútaḥ ǀ yásya ǀ vā ǀ aryamáṇā ǀ bhágaḥ ǀ
    ā́ ǀ yéna ǀ mitrā́váruṇā ǀ kárāmahe ǀ ā́ ǀ índram ǀ ávase ǀ mahé ǁ

    yasya ǀ naḥ ǀ indraḥ ǀ pibāt ǀ yasya ǀ marutaḥ ǀ yasya ǀ vā ǀ aryamaṇā ǀ bhagaḥ ǀ
    ā ǀ yena ǀ mitrāvaruṇā ǀ karāmahe ǀ ā ǀ indram ǀ avase ǀ mahe ǁ

    9.108.14 Aṣṭaka 7.5.19.4Anuvāka 9.7.66

  15. Ṛk 15

    इंद्रा॑य सोम॒ पात॑वे॒ नृभि॑र्य॒तः स्वा॑यु॒धो म॒दिंत॑मः ।
    पव॑स्व॒ मधु॑मत्तमः ॥

    इन्द्राय सोम पातवे नृभिर् यतः स्वायुधो मदिन्तमः |
    पवस्व मधुमत्तमः ||

    índrāya soma pā́tave nṛ́bhiryatáḥ svāyudhó madíntamaḥ ǀ
    pávasva mádhumattamaḥ ǁ

    indrāya soma pātave nṛbhir yataḥ svāyudho madintamaḥ |
    pavasva madhumattamaḥ ||

    इन्द्रा॑य । सो॒म॒ । पात॑वे । नृऽभिः॑ । य॒तः । सु॒ऽआ॒यु॒धः । म॒दिन्ऽत॑मः ।
    पव॑स्व । मधु॑मत्ऽतमः ॥

    इन्द्राय । सोम । पातवे । नृऽभिः । यतः । सुऽआयुधः । मदिन्ऽतमः ।
    पवस्व । मधुमत्ऽतमः ॥

    índrāya ǀ soma ǀ pā́tave ǀ nṛ́-bhiḥ ǀ yatáḥ ǀ su-āyudháḥ ǀ madín-tamaḥ ǀ
    pávasva ǀ mádhumat-tamaḥ ǁ

    indrāya ǀ soma ǀ pātave ǀ nṛ-bhiḥ ǀ yataḥ ǀ su-āyudhaḥ ǀ madin-tamaḥ ǀ
    pavasva ǀ madhumat-tamaḥ ǁ

    9.108.15 Aṣṭaka 7.5.19.5Anuvāka 9.7.67

  16. Ṛk 16

    इंद्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श समु॒द्रमि॑व॒ सिंध॑वः ।
    जुष्टो॑ मि॒त्राय॒ वरु॑णाय वा॒यवे॑ दि॒वो वि॑ष्टं॒भ उ॑त्त॒मः ॥

    इन्द्रस्य हार्दि सोमधानम् आ विश समुद्रम् इव सिन्धवः |
    जुष्टो मित्राय वरुणाय वायवे दिवो विष्टम्भ उत्तमः ||

    índrasya hā́rdi somadhā́namā́ viśa samudrámiva síndhavaḥ ǀ
    júṣṭo mitrā́ya váruṇāya vāyáve divó viṣṭambhá uttamáḥ ǁ

    indrasya hārdi somadhānam ā viśa samudram iva sindhavaḥ |
    juṣṭo mitrāya varuṇāya vāyave divo viṣṭambha uttamaḥ ||

    इन्द्र॑स्य । हार्दि॑ । सो॒म॒ऽधान॑म् । आ । वि॒श॒ । स॒मु॒द्रम्ऽइ॑व । सिन्ध॑वः ।
    जुष्टः॑ । मि॒त्राय॑ । वरु॑णाय । वा॒यवे॑ । दि॒वः । वि॒ष्ट॒म्भः । उ॒त्ऽत॒मः ॥

    इन्द्रस्य । हार्दि । सोमऽधानम् । आ । विश । समुद्रम्ऽइव । सिन्धवः ।
    जुष्टः । मित्राय । वरुणाय । वायवे । दिवः । विष्टम्भः । उत्ऽतमः ॥

    índrasya ǀ hā́rdi ǀ soma-dhā́nam ǀ ā́ ǀ viśa ǀ samudrám-iva ǀ síndhavaḥ ǀ
    júṣṭaḥ ǀ mitrā́ya ǀ váruṇāya ǀ vāyáve ǀ diváḥ ǀ viṣṭambháḥ ǀ ut-tamáḥ ǁ

    indrasya ǀ hārdi ǀ soma-dhānam ǀ ā ǀ viśa ǀ samudram-iva ǀ sindhavaḥ ǀ
    juṣṭaḥ ǀ mitrāya ǀ varuṇāya ǀ vāyave ǀ divaḥ ǀ viṣṭambhaḥ ǀ ut-tamaḥ ǁ

    9.108.16 Aṣṭaka 7.5.19.6Anuvāka 9.7.68

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 9.108 · Soma Pavamāna

Interpretations

Ralph T. H. Griffith

Ṛk 1

FOR Indra, flow thou Soma on, as gladdening juice most sweet, intelligent, Great, cheering, dwelling most in heaven.

Ṛk 2

Thou, of whom having drunk the Steer acts like a steer. drinking of this that finds the light, He, Excellently Wise, is come to strengthening food, to spoil and wealth like Etaśa.

Ṛk 3

For, verily, Pavamana, thou hast, splendidest, called all the generations of The Gods to immortality.

Ṛk 4

By whom Dadhyac Navagva opens fastened doors, by whom the sages gained their wish, By whom they won the fame of lovely Amṛta in the felicity of Gods.

Ṛk 5

Effused, he floweth in a stream, best rapture-giver, in the long wool of the sheep, Sporting, as ’twere the waters' wave.

Ṛk 6

He who from out the rocky cavern took with might the redmrefulgent watery Cows, Thou masterest the stable full of kine and steeds: burst it, brave Lord, like one in mail.

Ṛk 7

Press ye and pour him, like a steed, laudworthy, speeding through the region and the flood, Who swims in water, roan in wood;

Ṛk 8

Increaser of the water, Steer with thousand streams, dear to the race of Deities; Who born in Law hath waxen mighty by the Law, King, God, and lofty Ordinance.

Ṛk 9

Make splendid glory shine on us, thou Lord of strengthening food, God, as the Friend of Gods: Unclose the fount of middle air.

Ṛk 10

Roll onward to the bowls, O Mighty One, effused, as Prince supporter of the tribes. Pour on us rain from heaven, send us the waters' flow: incite our thoughts to win the spoil.

Ṛk 11

They have drained him the Steer of heaven, him with a thousand streams, distilling rapturous joy, Him who brings all things excellent.

Ṛk 12

The Mighty One was born Immortal, giving life, lightening darkness with his shine. Wcll-praised by. sages he hath. by his wondrous power assumed the Threefold as his robe.

Ṛk 13

Effused is he who brings good things, who brings us bounteous gifts and sweet refreshing food, Soma who brings us quiet homes:

Ṛk 14

He whom our Indra and the Marut host shall drink, Bhaga shall drink with Aryarnan, By whom we bring to us Mitra and Varuṇa and Indra for our great defence.

Ṛk 15

Soma, for Indra's drink do thou, led by the men, well-wcaponcd and most gladdening, Flow on with greatest store of sweets.