Ṛgveda · Maṇḍala 9

Sūkta 98

Soma Pavamāna · Ambarīṣa Vārṣāgira; Ṛjiśvan Bhāradvāja · 12 ṛks

Link
Devatā देवता
Soma Pavamāna
Ṛṣi ऋषि
Ambarīṣa Vārṣāgira; Ṛjiśvan Bhāradvāja
Chandas छन्दस्
Anuṣṭubh, Bṛhatī
Metres by ṛk

1st set of styles anuṣṭup (1, 2, 4, 7, 10); nicṛdanuṣṭup (3, 5, 9); virāḍanuṣṭup (6, 12); aarchiswaraadnushtup (8); nicṛdbṛhatī (11)

2nd set of styles anuṣṭubh (1-10, 12); bṛhatī (11)

  1. Ṛk 1

    अ॒भि नो॑ वाज॒सात॑मं र॒यिम॑र्ष पुरु॒स्पृहं॑ ।
    इंदो॑ स॒हस्र॑भर्णसं तुविद्यु॒म्नं वि॑भ्वा॒सहं॑ ॥

    अभि नो वाजसातमं रयिम् अर्ष पुरुस्पृहम् |
    इन्दो सहस्रभर्णसं तुविद्युम्नं विभ्वासहम् ||

    abhí no vājasā́tamam rayímarṣa puruspṛ́ham ǀ
    índo sahásrabharṇasam tuvidyumnám vibhvāsáham ǁ

    abhi no vājasātamaṃ rayim arṣa puruspṛham |
    indo sahasrabharṇasaṃ tuvidyumnaṃ vibhvāsaham ||

    अ॒भि । नः॒ । वा॒ज॒ऽसात॑मम् । र॒यिम् । अ॒र्ष॒ । पु॒रु॒ऽस्पृह॑म् ।
    इन्दो॒ इति॑ । स॒हस्र॑ऽभर्णसम् । तु॒वि॒ऽद्यु॒म्नम् । वि॒भ्व॒ऽसह॑म् ॥

    अभि । नः । वाजऽसातमम् । रयिम् । अर्ष । पुरुऽस्पृहम् ।
    इन्दो इति । सहस्रऽभर्णसम् । तुविऽद्युम्नम् । विभ्वऽसहम् ॥

    abhí ǀ naḥ ǀ vāja-sā́tamam ǀ rayím ǀ arṣa ǀ puru-spṛ́ham ǀ
    índo íti ǀ sahásra-bharṇasam ǀ tuvi-dyumnám ǀ vibhva-sáham ǁ

    abhi ǀ naḥ ǀ vāja-sātamam ǀ rayim ǀ arṣa ǀ puru-spṛham ǀ
    indo iti ǀ sahasra-bharṇasam ǀ tuvi-dyumnam ǀ vibhva-saham ǁ

    9.98.1 Aṣṭaka 7.4.23.1Anuvāka 9.6.59

  2. Ṛk 2

    परि॒ ष्य सु॑वा॒नो अ॒व्ययं॒ रथे॒ न वर्मा॑व्यत ।
    इंदु॑र॒भि द्रुणा॑ हि॒तो हि॑या॒नो धारा॑भिरक्षाः ॥

    परि ष्य सुवानो अव्ययं रथे न वर्माव्यत |
    इन्दुर् अभि द्रुणा हितो हियानो धाराभिर् अक्षाः ||

    pári ṣyá suvānó avyáyam ráthe ná vármāvyata ǀ
    índurabhí drúṇā hitó hiyānó dhā́rābhirakṣāḥ ǁ

    pari ṣya suvāno avyayaṃ rathe na varmāvyata |
    indur abhi druṇā hito hiyāno dhārābhir akṣāḥ ||

    परि॑ । स्यः । सु॒वा॒नः । अ॒व्यय॑म् । रथे॑ । न । वर्म॑ । अ॒व्य॒त॒ ।
    इन्दुः॑ । अ॒भि । द्रुणा॑ । हि॒तः । हि॒या॒नः । धारा॑भिः । अ॒क्षा॒रिति॑ ॥

    परि । स्यः । सुवानः । अव्ययम् । रथे । न । वर्म । अव्यत ।
    इन्दुः । अभि । द्रुणा । हितः । हियानः । धाराभिः । अक्षारिति ॥

    pári ǀ syáḥ ǀ suvānáḥ ǀ avyáyam ǀ ráthe ǀ ná ǀ várma ǀ avyata ǀ
    índuḥ ǀ abhí ǀ drúṇā ǀ hitáḥ ǀ hiyānáḥ ǀ dhā́rābhiḥ ǀ akṣāríti ǁ

    pari ǀ syaḥ ǀ suvānaḥ ǀ avyayam ǀ rathe ǀ na ǀ varma ǀ avyata ǀ
    induḥ ǀ abhi ǀ druṇā ǀ hitaḥ ǀ hiyānaḥ ǀ dhārābhiḥ ǀ akṣāriti ǁ

    9.98.2 Aṣṭaka 7.4.23.2Anuvāka 9.6.60

  3. Ṛk 3

    परि॒ ष्य सु॑वा॒नो अ॑क्षा॒ इंदु॒रव्ये॒ मद॑च्युतः ।
    धारा॒ य ऊ॒र्ध्वो अ॑ध्व॒रे भ्रा॒जा नैति॑ गव्य॒युः ॥

    परि ष्य सुवानो अक्षा इन्दुर् अव्ये मदच्युतः |
    धारा य ऊर्ध्वो अध्वरे भ्राजा नैति गव्ययुः ||

    pári ṣyá suvānó akṣā índurávye mádacyutaḥ ǀ
    dhā́rā yá ūrdhvó adhvaré bhrājā́ náiti gavyayúḥ ǁ

    pari ṣya suvāno akṣā indur avye madacyutaḥ |
    dhārā ya ūrdhvo adhvare bhrājā naiti gavyayuḥ ||

    परि॑ । स्यः । सु॒वा॒नः । अ॒क्षा॒रिति॑ । इन्दुः॑ । अव्ये॑ । मद॑ऽच्युतः ।
    धारा॑ । यः । ऊ॒र्ध्वः । अ॒ध्व॒रे । भ्रा॒जा । न । एति॑ । ग॒व्य॒ऽयुः ॥

    परि । स्यः । सुवानः । अक्षारिति । इन्दुः । अव्ये । मदऽच्युतः ।
    धारा । यः । ऊर्ध्वः । अध्वरे । भ्राजा । न । एति । गव्यऽयुः ॥

    pári ǀ syáḥ ǀ suvānáḥ ǀ akṣāríti ǀ índuḥ ǀ ávye ǀ máda-cyutaḥ ǀ
    dhā́rā ǀ yáḥ ǀ ūrdhváḥ ǀ adhvaré ǀ bhrājā́ ǀ ná ǀ éti ǀ gavya-yúḥ ǁ

    pari ǀ syaḥ ǀ suvānaḥ ǀ akṣāriti ǀ induḥ ǀ avye ǀ mada-cyutaḥ ǀ
    dhārā ǀ yaḥ ǀ ūrdhvaḥ ǀ adhvare ǀ bhrājā ǀ na ǀ eti ǀ gavya-yuḥ ǁ

    9.98.3 Aṣṭaka 7.4.23.3Anuvāka 9.6.61

  4. Ṛk 4

    स हि त्वं दे॑व॒ शश्व॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑ ।
    इंदो॑ सह॒स्रिणं॑ र॒यिं श॒तात्मा॑नं विवाससि ॥

    स हि त्वं देव शश्वते वसु मर्ताय दाशुषे |
    इन्दो सहस्रिणं रयिं शतात्मानं विवाससि ||

    sá hí tvám deva śáśvate vásu mártāya dāśúṣe ǀ
    índo sahasríṇam rayím śatā́tmānam vivāsasi ǁ

    sa hi tvaṃ deva śaśvate vasu martāya dāśuṣe |
    indo sahasriṇaṃ rayiṃ śatātmānaṃ vivāsasi ||

    सः । हि । त्वम् । दे॒व॒ । शश्व॑ते । वसु॑ । मर्ता॑य । दा॒शुषे॑ ।
    इन्दो॒ इति॑ । स॒ह॒स्रिण॑म् । र॒यिम् । श॒तऽआ॑त्मानम् । वि॒वा॒स॒सि॒ ॥

    सः । हि । त्वम् । देव । शश्वते । वसु । मर्ताय । दाशुषे ।
    इन्दो इति । सहस्रिणम् । रयिम् । शतऽआत्मानम् । विवाससि ॥

    sáḥ ǀ hí ǀ tvám ǀ deva ǀ śáśvate ǀ vásu ǀ mártāya ǀ dāśúṣe ǀ
    índo íti ǀ sahasríṇam ǀ rayím ǀ śatá-ātmānam ǀ vivāsasi ǁ

    saḥ ǀ hi ǀ tvam ǀ deva ǀ śaśvate ǀ vasu ǀ martāya ǀ dāśuṣe ǀ
    indo iti ǀ sahasriṇam ǀ rayim ǀ śata-ātmānam ǀ vivāsasi ǁ

    9.98.4 Aṣṭaka 7.4.23.4Anuvāka 9.6.62

  5. Ṛk 5

    व॒यं ते॑ अ॒स्य वृ॑त्रह॒न्वसो॒ वस्वः॑ पुरु॒स्पृहः॑ ।
    नि नेदि॑ष्ठतमा इ॒षः स्याम॑ सु॒म्नस्या॑ध्रिगो ॥

    वयं ते अस्य वृत्रहन् वसो वस्वः पुरुस्पृहः |
    नि नेदिष्ठतमा इषः स्याम सुम्नस्याध्रिगो ||

    vayám te asyá vṛtrahanváso vásvaḥ puruspṛ́haḥ ǀ
    ní nédiṣṭhatamā iṣáḥ syā́ma sumnásyādhrigo ǁ

    vayaṃ te asya vṛtrahan vaso vasvaḥ puruspṛhaḥ |
    ni nediṣṭhatamā iṣaḥ syāma sumnasyādhrigo ||

    व॒यम् । ते॒ । अ॒स्य । वृ॒त्र॒ऽह॒न् । वसो॒ इति॑ । वस्वः॑ । पु॒रु॒ऽस्पृहः॑ ।
    नि । नेदि॑ष्ठऽतमाः । इ॒षः । स्याम॑ । सु॒म्नस्य॑ । अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो ॥

    वयम् । ते । अस्य । वृत्रऽहन् । वसो इति । वस्वः । पुरुऽस्पृहः ।
    नि । नेदिष्ठऽतमाः । इषः । स्याम । सुम्नस्य । अध्रिगो इत्यध्रिऽगो ॥

    vayám ǀ te ǀ asyá ǀ vṛtra-han ǀ váso íti ǀ vásvaḥ ǀ puru-spṛ́haḥ ǀ
    ní ǀ nédiṣṭha-tamāḥ ǀ iṣáḥ ǀ syā́ma ǀ sumnásya ǀ adhrigo ítyadhri-go ǁ

    vayam ǀ te ǀ asya ǀ vṛtra-han ǀ vaso iti ǀ vasvaḥ ǀ puru-spṛhaḥ ǀ
    ni ǀ nediṣṭha-tamāḥ ǀ iṣaḥ ǀ syāma ǀ sumnasya ǀ adhrigo ityadhri-go ǁ

    9.98.5 Aṣṭaka 7.4.23.5Anuvāka 9.6.63

  6. Ṛk 6

    द्विर्यं पंच॒ स्वय॑शसं॒ स्वसा॑रो॒ अद्रि॑संहतं ।
    प्रि॒यमिंद्र॑स्य॒ काम्यं॑ प्रस्ना॒पयं॑त्यू॒र्मिणं॑ ॥

    द्विर् यम् पञ्च स्वयशसं स्वसारो अद्रिसंहतम् |
    प्रियम् इन्द्रस्य काम्यम् प्रस्नापयन्त्य् ऊर्मिणम् ||

    dvíryám páñca sváyaśasam svásāro ádrisaṃhatam ǀ
    priyámíndrasya kā́myam prasnāpáyantyūrmíṇam ǁ

    dvir yam pañca svayaśasaṃ svasāro adrisaṃhatam |
    priyam indrasya kāmyam prasnāpayanty ūrmiṇam ||

    द्विः । यम् । पञ्च॑ । स्वऽय॑शसम् । स्वसा॑रः । अद्रि॑ऽसंहतम् ।
    प्रि॒यम् । इन्द्र॑स्य । काम्य॑म् । प्र॒ऽस्ना॒पय॑न्ति । ऊ॒र्मिण॑म् ॥

    द्विः । यम् । पञ्च । स्वऽयशसम् । स्वसारः । अद्रिऽसंहतम् ।
    प्रियम् । इन्द्रस्य । काम्यम् । प्रऽस्नापयन्ति । ऊर्मिणम् ॥

    dvíḥ ǀ yám ǀ páñca ǀ svá-yaśasam ǀ svásāraḥ ǀ ádri-saṃhatam ǀ
    priyám ǀ índrasya ǀ kā́myam ǀ pra-snāpáyanti ǀ ūrmíṇam ǁ

    dviḥ ǀ yam ǀ pañca ǀ sva-yaśasam ǀ svasāraḥ ǀ adri-saṃhatam ǀ
    priyam ǀ indrasya ǀ kāmyam ǀ pra-snāpayanti ǀ ūrmiṇam ǁ

    9.98.6 Aṣṭaka 7.4.23.6Anuvāka 9.6.64

  7. Ṛk 7

    परि॒ त्यं ह॑र्य॒तं हरिं॑ ब॒भ्रुं पु॑नंति॒ वारे॑ण ।
    यो दे॒वान्विश्वाँ॒ इत्परि॒ मदे॑न स॒ह गच्छ॑ति ॥

    परि त्यं हर्यतं हरिम् बभ्रुम् पुनन्ति वारेण |
    यो देवान् विश्वां इत् परि मदेन सह गच्छति ||

    pári tyám haryatám hárim babhrúm punanti vā́reṇa ǀ
    yó devā́nvíśvām̐ ítpári mádena sahá gácchati ǁ

    pari tyaṃ haryataṃ harim babhrum punanti vāreṇa |
    yo devān viśvāṃ it pari madena saha gacchati ||

    परि॑ । त्यम् । ह॒र्य॒तम् । हरि॑म् । ब॒भ्रुम् । पु॒न॒न्ति॒ । वारे॑ण ।
    यः । दे॒वान् । विश्वा॑न् । इत् । परि॑ । मदे॑न । स॒ह । गच्छ॑ति ॥

    परि । त्यम् । हर्यतम् । हरिम् । बभ्रुम् । पुनन्ति । वारेण ।
    यः । देवान् । विश्वान् । इत् । परि । मदेन । सह । गच्छति ॥

    pári ǀ tyám ǀ haryatám ǀ hárim ǀ babhrúm ǀ punanti ǀ vā́reṇa ǀ
    yáḥ ǀ devā́n ǀ víśvān ǀ ít ǀ pári ǀ mádena ǀ sahá ǀ gácchati ǁ

    pari ǀ tyam ǀ haryatam ǀ harim ǀ babhrum ǀ punanti ǀ vāreṇa ǀ
    yaḥ ǀ devān ǀ viśvān ǀ it ǀ pari ǀ madena ǀ saha ǀ gacchati ǁ

    9.98.7 Aṣṭaka 7.4.24.1Anuvāka 9.6.65

  8. Ṛk 8

    अ॒स्य वो॒ ह्यव॑सा॒ पांतो॑ दक्ष॒साध॑नं ।
    यः सू॒रिषु॒ श्रवो॑ बृ॒हद्द॒धे स्व१॒॑र्ण ह॑र्य॒तः ॥

    अस्य वो ह्य् अवसा पान्तो दक्षसाधनम् |
    यः सूरिषु श्रवो बृहद् दधे स्वर् ण हर्यतः ||

    asyá vo hyávasā pā́nto dakṣasā́dhanam ǀ
    yáḥ sūríṣu śrávo bṛháddadhé svárṇá haryatáḥ ǁ

    asya vo hy avasā pānto dakṣasādhanam |
    yaḥ sūriṣu śravo bṛhad dadhe svar ṇa haryataḥ ||

    अ॒स्य । वः॒ । हि । अव॑सा । पान्तः॑ । द॒क्ष॒ऽसाध॑नम् ।
    यः । सू॒रिषु॑ । श्रवः॑ । बृ॒हत् । द॒धे । स्वः॑ । न । ह॒र्य॒तः ॥

    अस्य । वः । हि । अवसा । पान्तः । दक्षऽसाधनम् ।
    यः । सूरिषु । श्रवः । बृहत् । दधे । स्वः । न । हर्यतः ॥

    asyá ǀ vaḥ ǀ hí ǀ ávasā ǀ pā́ntaḥ ǀ dakṣa-sā́dhanam ǀ
    yáḥ ǀ sūríṣu ǀ śrávaḥ ǀ bṛhát ǀ dadhé ǀ sváḥ ǀ ná ǀ haryatáḥ ǁ

    asya ǀ vaḥ ǀ hi ǀ avasā ǀ pāntaḥ ǀ dakṣa-sādhanam ǀ
    yaḥ ǀ sūriṣu ǀ śravaḥ ǀ bṛhat ǀ dadhe ǀ svaḥ ǀ na ǀ haryataḥ ǁ

    9.98.8 Aṣṭaka 7.4.24.2Anuvāka 9.6.66

  9. Ṛk 9

    स वां॑ य॒ज्ञेषु॑ मानवी॒ इंदु॑र्जनिष्ट रोदसी ।
    दे॒वो दे॑वी गिरि॒ष्ठा अस्रे॑धं॒तं तु॑वि॒ष्वणि॑ ॥

    स वां यज्ञेषु मानवी इन्दुर् जनिष्ट रोदसी |
    देवो देवी गिरिष्ठा अस्रेधन् तं तुविष्वणि ||

    sá vām yajñéṣu mānavī índurjaniṣṭa rodasī ǀ
    devó devī giriṣṭhā́ ásredhantám tuviṣváṇi ǁ

    sa vāṃ yajñeṣu mānavī indur janiṣṭa rodasī |
    devo devī giriṣṭhā asredhan taṃ tuviṣvaṇi ||

    सः । वा॒म् । य॒ज्ञेषु॑ । मा॒न॒वी॒ इति॑ । इन्दुः॑ । ज॒नि॒ष्ट॒ । रो॒द॒सी॒ इति॑ ।
    दे॒वः । दे॒वी॒ इति॑ । गि॒रि॒ऽस्थाः । अस्रे॑धन् । तम् । तु॒वि॒ऽस्वनि॑ ॥

    सः । वाम् । यज्ञेषु । मानवी इति । इन्दुः । जनिष्ट । रोदसी इति ।
    देवः । देवी इति । गिरिऽस्थाः । अस्रेधन् । तम् । तुविऽस्वनि ॥

    sáḥ ǀ vām ǀ yajñéṣu ǀ mānavī íti ǀ índuḥ ǀ janiṣṭa ǀ rodasī íti ǀ
    deváḥ ǀ devī íti ǀ giri-sthā́ḥ ǀ ásredhan ǀ tám ǀ tuvi-sváni ǁ

    saḥ ǀ vām ǀ yajñeṣu ǀ mānavī iti ǀ induḥ ǀ janiṣṭa ǀ rodasī iti ǀ
    devaḥ ǀ devī iti ǀ giri-sthāḥ ǀ asredhan ǀ tam ǀ tuvi-svani ǁ

    9.98.9 Aṣṭaka 7.4.24.3Anuvāka 9.6.67

  10. Ṛk 10

    इंद्रा॑य सोम॒ पात॑वे वृत्र॒घ्ने परि॑ षिच्यसे ।
    नरे॑ च॒ दक्षि॑णावते दे॒वाय॑ सदना॒सदे॑ ॥

    इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे |
    नरे च दक्षिणावते देवाय सदनासदे ||

    índrāya soma pā́tave vṛtraghné pári ṣicyase ǀ
    náre ca dákṣiṇāvate devā́ya sadanāsáde ǁ

    indrāya soma pātave vṛtraghne pari ṣicyase |
    nare ca dakṣiṇāvate devāya sadanāsade ||

    इन्द्रा॑य । सो॒म॒ । पात॑वे । वृ॒त्र॒ऽघ्ने । परि॑ । सि॒च्य॒से॒ ।
    नरे॑ । च॒ । दक्षि॑णाऽवते । दे॒वाय॑ । स॒द॒न॒ऽसदे॑ ॥

    इन्द्राय । सोम । पातवे । वृत्रऽघ्ने । परि । सिच्यसे ।
    नरे । च । दक्षिणाऽवते । देवाय । सदनऽसदे ॥

    índrāya ǀ soma ǀ pā́tave ǀ vṛtra-ghné ǀ pári ǀ sicyase ǀ
    náre ǀ ca ǀ dákṣiṇā-vate ǀ devā́ya ǀ sadana-sáde ǁ

    indrāya ǀ soma ǀ pātave ǀ vṛtra-ghne ǀ pari ǀ sicyase ǀ
    nare ǀ ca ǀ dakṣiṇā-vate ǀ devāya ǀ sadana-sade ǁ

    9.98.10 Aṣṭaka 7.4.24.4Anuvāka 9.6.68

  11. Ṛk 11

    ते प्र॒त्नासो॒ व्यु॑ष्टिषु॒ सोमाः॑ प॒वित्रे॑ अक्षरन् ।
    अ॒प॒प्रोथं॑तः सनु॒तर्हु॑र॒श्चितः॑ प्रा॒तस्ताँ अप्र॑चेतसः ॥

    ते प्रत्नासो व्युष्टिषु सोमाः पवित्रे अक्षरन् |
    अपप्रोथन्तः सनुतर् हुरश्चितः प्रातस् तां अप्रचेतसः ||

    té pratnā́so vyúṣṭiṣu sómāḥ pavítre akṣaran ǀ
    apapróthantaḥ sanutárhuraścítaḥ prātástā́m̐ ápracetasaḥ ǁ

    te pratnāso vyuṣṭiṣu somāḥ pavitre akṣaran |
    apaprothantaḥ sanutar huraścitaḥ prātas tāṃ apracetasaḥ ||

    ते । प्र॒त्नासः॑ । विऽउ॑ष्टिषु । सोमाः॑ । प॒वित्रे॑ । अ॒क्ष॒र॒न् ।
    अ॒प॒ऽप्रोथ॑न्तः । स॒नु॒तः । हु॒रः॒ऽचितः॑ । प्रा॒तरिति॑ । तान् । अप्र॑ऽचेतसः ॥

    ते । प्रत्नासः । विऽउष्टिषु । सोमाः । पवित्रे । अक्षरन् ।
    अपऽप्रोथन्तः । सनुतः । हुरःऽचितः । प्रातरिति । तान् । अप्रऽचेतसः ॥

    té ǀ pratnā́saḥ ǀ ví-uṣṭiṣu ǀ sómāḥ ǀ pavítre ǀ akṣaran ǀ
    apa-próthantaḥ ǀ sanutáḥ ǀ huraḥ-cítaḥ ǀ prātáríti ǀ tā́n ǀ ápra-cetasaḥ ǁ

    te ǀ pratnāsaḥ ǀ vi-uṣṭiṣu ǀ somāḥ ǀ pavitre ǀ akṣaran ǀ
    apa-prothantaḥ ǀ sanutaḥ ǀ huraḥ-citaḥ ǀ prātariti ǀ tān ǀ apra-cetasaḥ ǁ

    9.98.11 Aṣṭaka 7.4.24.5Anuvāka 9.6.69

  12. Ṛk 12

    तं स॑खायः पुरो॒रुचं॑ यू॒यं व॒यं च॑ सू॒रयः॑ ।
    अ॒श्याम॒ वाज॑गंध्यं स॒नेम॒ वाज॑पस्त्यं ॥

    तं सखायः पुरोरुचं यूयं वयं च सूरयः |
    अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम् ||

    tám sakhāyaḥ purorúcam yūyám vayám ca sūráyaḥ ǀ
    aśyā́ma vā́jagandhyam sanéma vā́japastyam ǁ

    taṃ sakhāyaḥ purorucaṃ yūyaṃ vayaṃ ca sūrayaḥ |
    aśyāma vājagandhyaṃ sanema vājapastyam ||

    तम् । स॒खा॒यः॒ । पु॒रः॒ऽरुच॑म् । यू॒यम् । व॒यम् । च॒ । सू॒रयः॑ ।
    अ॒श्याम॑ । वाज॑ऽगन्ध्यम् । स॒नेम॑ । वाज॑ऽपस्त्यम् ॥

    तम् । सखायः । पुरःऽरुचम् । यूयम् । वयम् । च । सूरयः ।
    अश्याम । वाजऽगन्ध्यम् । सनेम । वाजऽपस्त्यम् ॥

    tám ǀ sakhāyaḥ ǀ puraḥ-rúcam ǀ yūyám ǀ vayám ǀ ca ǀ sūráyaḥ ǀ
    aśyā́ma ǀ vā́ja-gandhyam ǀ sanéma ǀ vā́ja-pastyam ǁ

    tam ǀ sakhāyaḥ ǀ puraḥ-rucam ǀ yūyam ǀ vayam ǀ ca ǀ sūrayaḥ ǀ
    aśyāma ǀ vāja-gandhyam ǀ sanema ǀ vāja-pastyam ǁ

    9.98.12 Aṣṭaka 7.4.24.6Anuvāka 9.6.70

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 9.98 · Soma Pavamāna

Interpretations

Ralph T. H. Griffith

Ṛk 1

STREAM on us riches that are sought by many, best at winning strength Riches, O Indu, thousandfold, glorious, conquering the great.

Ṛk 2

Effused, he hath, as on a car, invested him in fleecy mail: Onward hath Indu flowed in streams, impelled, surrounded by the wood.

Ṛk 3

Effused, this Indu hath flowed on, distilling rapture, to the fleece: He goes erect, as seeking kine in stream, with light, to sacrifice.

Ṛk 4

For thou thyself, O Indu, God, to every mortal worshipper Attractest riches thousandfold, made manifest in hundred forms.

Ṛk 5

Good Vṛtra-slayer, may we be still nearest to this wealth of thine Which many crave, nearest to food and happiness, Resistless One!

Ṛk 6

Whom, bright with native splendour, crushed between the pair of pressingstones- The wavy Friend whom Indra loves-the twice-five sisters dip and bathe,

Ṛk 7

Him with the fleece they purify, brown, golden-hued, beloved of all, Who with exhilarating juice goes forth to all the Deities.

Ṛk 8

Through longing for this sap of yours ye drink what brings ability, Even him who, dear as heaven's own light, gives to our princes high renown.

Ṛk 9

Indu at holy rites produced you, Heaven and Earth, the Friends of men, Hill-haunting God the Goddesses. They bruised him where the roar was loud.

Ṛk 10

For Vṛtra-slaying Indra, thou, Soma, art poured that he may drink, Poured for the guerdon-giving man, poured for the God who sitteth there.

Ṛk 11

These ancient Somas, at the break of day, have flowed into the sieve, Snorting away at early morn these foolish evil-hearted ones.