Ṛk 9.98.7
Saṃhitā
परि॒ त्यं ह॑र्य॒तं हरिं॑ ब॒भ्रुं पु॑नंति॒ वारे॑ण ।
यो दे॒वान्विश्वाँ॒ इत्परि॒ मदे॑न स॒ह गच्छ॑ति ॥
परि त्यं हर्यतं हरिम् बभ्रुम् पुनन्ति वारेण |
यो देवान् विश्वां इत् परि मदेन सह गच्छति ||
pári tyám haryatám hárim babhrúm punanti vā́reṇa ǀ
yó devā́nvíśvām̐ ítpári mádena sahá gácchati ǁ
pari tyaṃ haryataṃ harim babhrum punanti vāreṇa |
yo devān viśvāṃ it pari madena saha gacchati ||
Padapāṭha
परि॑ । त्यम् । ह॒र्य॒तम् । हरि॑म् । ब॒भ्रुम् । पु॒न॒न्ति॒ । वारे॑ण ।
यः । दे॒वान् । विश्वा॑न् । इत् । परि॑ । मदे॑न । स॒ह । गच्छ॑ति ॥
परि । त्यम् । हर्यतम् । हरिम् । बभ्रुम् । पुनन्ति । वारेण ।
यः । देवान् । विश्वान् । इत् । परि । मदेन । सह । गच्छति ॥
pári ǀ tyám ǀ haryatám ǀ hárim ǀ babhrúm ǀ punanti ǀ vā́reṇa ǀ
yáḥ ǀ devā́n ǀ víśvān ǀ ít ǀ pári ǀ mádena ǀ sahá ǀ gácchati ǁ
pari ǀ tyam ǀ haryatam ǀ harim ǀ babhrum ǀ punanti ǀ vāreṇa ǀ
yaḥ ǀ devān ǀ viśvān ǀ it ǀ pari ǀ madena ǀ saha ǀ gacchati ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.098.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.4.24.01
- Maṇḍala · Anuvāka · Ṛk
- 09.06.065
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Ambarīṣa Vārṣāgira; Ṛjiśvan Bhāradvāja
- Chandas छन्दस्
- Anuṣṭubh, Bṛhatī
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.