Ṛgveda · Maṇḍala 9 · Sūkta 98

Ṛk 9.98.12

Soma Pavamāna · Ambarīṣa Vārṣāgira; Ṛjiśvan Bhāradvāja

The whole sūkta Link

Saṃhitā

तं स॑खायः पुरो॒रुचं॑ यू॒यं व॒यं च॑ सू॒रयः॑ ।
अ॒श्याम॒ वाज॑गंध्यं स॒नेम॒ वाज॑पस्त्यं ॥

तं सखायः पुरोरुचं यूयं वयं च सूरयः |
अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम् ||

tám sakhāyaḥ purorúcam yūyám vayám ca sūráyaḥ ǀ
aśyā́ma vā́jagandhyam sanéma vā́japastyam ǁ

taṃ sakhāyaḥ purorucaṃ yūyaṃ vayaṃ ca sūrayaḥ |
aśyāma vājagandhyaṃ sanema vājapastyam ||

Padapāṭha

तम् । स॒खा॒यः॒ । पु॒रः॒ऽरुच॑म् । यू॒यम् । व॒यम् । च॒ । सू॒रयः॑ ।
अ॒श्याम॑ । वाज॑ऽगन्ध्यम् । स॒नेम॑ । वाज॑ऽपस्त्यम् ॥

तम् । सखायः । पुरःऽरुचम् । यूयम् । वयम् । च । सूरयः ।
अश्याम । वाजऽगन्ध्यम् । सनेम । वाजऽपस्त्यम् ॥

tám ǀ sakhāyaḥ ǀ puraḥ-rúcam ǀ yūyám ǀ vayám ǀ ca ǀ sūráyaḥ ǀ
aśyā́ma ǀ vā́ja-gandhyam ǀ sanéma ǀ vā́ja-pastyam ǁ

tam ǀ sakhāyaḥ ǀ puraḥ-rucam ǀ yūyam ǀ vayam ǀ ca ǀ sūrayaḥ ǀ
aśyāma ǀ vāja-gandhyam ǀ sanema ǀ vāja-pastyam ǁ

References

Maṇḍala · Sūkta · Ṛk
09.098.12
Aṣṭaka · Adhyāya · Varga · Ṛk
7.4.24.06
Maṇḍala · Anuvāka · Ṛk
09.06.070
Devatā देवता
Soma Pavamāna
Ṛṣi ऋषि
Ambarīṣa Vārṣāgira; Ṛjiśvan Bhāradvāja
Chandas छन्दस्
Anuṣṭubh, Bṛhatī
Svara स्वरः
गान्धारः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 9.98.12

Interpretations

Sāyaṇa

आहर्यतायेत्यष्टर्चं तृतीयंसूक्तं कश्यपगोत्रौरेभसून् एतत्संज्ञौ द्वावृषी आद्याबृहती सप्ता- नुष्टुभः पवमानः सोमोदेवता । तथाचानुक्रान्तं—आहर्यतायाष्टौ रेभसूनूकाश्यपौबृहत्याद्येति । गतोविनियोगः ।