Sūkta 72
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Harimanta Āṅgirasa
- Chandas छन्दस्
- Jagatī
Metres by ṛk
1st set of styles nicṛjjagatī (1-3, 6, 7); jagatī (4, 8); virāḍjagatī (5); pādanicṛjjgatī (9)
2nd set of styles jagatī
-
Ṛk 1
हरिं॑ मृजंत्यरु॒षो न यु॑ज्यते॒ सं धे॒नुभिः॑ क॒लशे॒ सोमो॑ अज्यते ।
उद्वाच॑मी॒रय॑ति हि॒न्वते॑ म॒ती पु॑रुष्टु॒तस्य॒ कति॑ चित्परि॒प्रियः॑ ॥हरिम् मृजन्त्य् अरुषो न युज्यते सं धेनुभिः कलशे सोमो अज्यते |
उद् वाचम् ईरयति हिन्वते मती पुरुष्टुतस्य कति चित् परिप्रियः ||hárim mṛjantyaruṣó ná yujyate sám dhenúbhiḥ kaláśe sómo ajyate ǀ
údvā́camīráyati hinváte matī́ puruṣṭutásya káti citparipríyaḥ ǁharim mṛjanty aruṣo na yujyate saṃ dhenubhiḥ kalaśe somo ajyate |
ud vācam īrayati hinvate matī puruṣṭutasya kati cit paripriyaḥ ||हरि॑म् । मृ॒ज॒न्ति॒ । अ॒रु॒षः । न । यु॒ज्य॒ते॒ । सम् । धे॒नुऽभिः॑ । क॒लशे॑ । सोमः॑ । अ॒ज्य॒ते॒ ।
उत् । वाच॑म् । ई॒रय॑ति । हि॒न्वते॑ । म॒ती । पु॒रु॒ऽस्तु॒तस्य॑ । कति॑ । चि॒त् । प॒रि॒ऽप्रियः॑ ॥हरिम् । मृजन्ति । अरुषः । न । युज्यते । सम् । धेनुऽभिः । कलशे । सोमः । अज्यते ।
उत् । वाचम् । ईरयति । हिन्वते । मती । पुरुऽस्तुतस्य । कति । चित् । परिऽप्रियः ॥hárim ǀ mṛjanti ǀ aruṣáḥ ǀ ná ǀ yujyate ǀ sám ǀ dhenú-bhiḥ ǀ kaláśe ǀ sómaḥ ǀ ajyate ǀ
út ǀ vā́cam ǀ īráyati ǀ hinváte ǀ matī́ ǀ puru-stutásya ǀ káti ǀ cit ǀ pari-príyaḥ ǁharim ǀ mṛjanti ǀ aruṣaḥ ǀ na ǀ yujyate ǀ sam ǀ dhenu-bhiḥ ǀ kalaśe ǀ somaḥ ǀ ajyate ǀ
ut ǀ vācam ǀ īrayati ǀ hinvate ǀ matī ǀ puru-stutasya ǀ kati ǀ cit ǀ pari-priyaḥ ǁ9.72.1 Aṣṭaka 7.2.27.1Anuvāka 9.4.40
-
Ṛk 2
सा॒कं व॑दंति ब॒हवो॑ मनी॒षिण॒ इंद्र॑स्य॒ सोमं॑ ज॒ठरे॒ यदा॑दु॒हुः ।
यदी॑ मृ॒जंति॒ सुग॑भस्तयो॒ नरः॒ सनी॑ळाभिर्द॒शभिः॒ काम्यं॒ मधु॑ ॥साकं वदन्ति बहवो मनीषिण इन्द्रस्य सोमं जठरे यद् आदुहुः |
यदी मृजन्ति सुगभस्तयो नरः सनीऌआभिर् दशभिः काम्यम् मधु ||sākám vadanti bahávo manīṣíṇa índrasya sómam jaṭháre yádāduhúḥ ǀ
yádī mṛjánti súgabhastayo náraḥ sánīḷābhirdaśábhiḥ kā́myam mádhu ǁsākaṃ vadanti bahavo manīṣiṇa indrasya somaṃ jaṭhare yad āduhuḥ |
yadī mṛjanti sugabhastayo naraḥ sanīḷābhir daśabhiḥ kāmyam madhu ||सा॒कम् । व॒द॒न्ति॒ । ब॒हवः॑ । म॒नी॒षिणः॑ । इन्द्र॑स्य । सोम॑म् । ज॒ठरे॑ । यत् । आ॒ऽदु॒हुः ।
यदि॑ । मृ॒जन्ति॑ । सुऽग॑भस्तयः । नरः॑ । सऽनी॑ळाभिः । द॒शऽभिः॑ । काम्य॑म् । मधु॑ ॥साकम् । वदन्ति । बहवः । मनीषिणः । इन्द्रस्य । सोमम् । जठरे । यत् । आऽदुहुः ।
यदि । मृजन्ति । सुऽगभस्तयः । नरः । सऽनीळाभिः । दशऽभिः । काम्यम् । मधु ॥sākám ǀ vadanti ǀ bahávaḥ ǀ manīṣíṇaḥ ǀ índrasya ǀ sómam ǀ jaṭháre ǀ yát ǀ ā-duhúḥ ǀ
yádi ǀ mṛjánti ǀ sú-gabhastayaḥ ǀ náraḥ ǀ sá-nīḷābhiḥ ǀ daśá-bhiḥ ǀ kā́myam ǀ mádhu ǁsākam ǀ vadanti ǀ bahavaḥ ǀ manīṣiṇaḥ ǀ indrasya ǀ somam ǀ jaṭhare ǀ yat ǀ ā-duhuḥ ǀ
yadi ǀ mṛjanti ǀ su-gabhastayaḥ ǀ naraḥ ǀ sa-nīḷābhiḥ ǀ daśa-bhiḥ ǀ kāmyam ǀ madhu ǁ9.72.2 Aṣṭaka 7.2.27.2Anuvāka 9.4.41
-
Ṛk 3
अर॑ममाणो॒ अत्ये॑ति॒ गा अ॒भि सूर्य॑स्य प्रि॒यं दु॑हि॒तुस्ति॒रो रवं॑ ।
अन्व॑स्मै॒ जोष॑मभरद्विनंगृ॒सः सं द्व॒यीभिः॒ स्वसृ॑भिः क्षेति जा॒मिभिः॑ ॥अरममाणो अत्य् एति गा अभि सूर्यस्य प्रियं दुहितुस् तिरो रवम् |
अन्व् अस्मै जोषम् अभरद् विनङ्गृसः सं द्वयीभिः स्वसृभिः क्षेति जामिभिः ||áramamāṇo átyeti gā́ abhí sū́ryasya priyám duhitústiró rávam ǀ
ánvasmai jóṣamabharadvinaṃgṛsáḥ sám dvayī́bhiḥ svásṛbhiḥ kṣeti jāmíbhiḥ ǁaramamāṇo aty eti gā abhi sūryasya priyaṃ duhitus tiro ravam |
anv asmai joṣam abharad vinaṅgṛsaḥ saṃ dvayībhiḥ svasṛbhiḥ kṣeti jāmibhiḥ ||अर॑ममाणः । अति॑ । ए॒ति॒ । गाः । अ॒भि । सूर्य॑स्य । प्रि॒यम् । दु॒हि॒तुः । ति॒रः । रव॑म् ।
अनु॑ । अ॒स्मै॒ । जोष॑म् । अ॒भ॒र॒त् । वि॒न॒म्ऽगृ॒सः । सम् । द्व॒यीभिः॑ । स्वसृ॑ऽभिः । क्षे॒ति॒ । जा॒मिऽभिः॑ ॥अरममाणः । अति । एति । गाः । अभि । सूर्यस्य । प्रियम् । दुहितुः । तिरः । रवम् ।
अनु । अस्मै । जोषम् । अभरत् । विनम्ऽगृसः । सम् । द्वयीभिः । स्वसृऽभिः । क्षेति । जामिऽभिः ॥áramamāṇaḥ ǀ áti ǀ eti ǀ gā́ḥ ǀ abhí ǀ sū́ryasya ǀ priyám ǀ duhitúḥ ǀ tiráḥ ǀ rávam ǀ
ánu ǀ asmai ǀ jóṣam ǀ abharat ǀ vinam-gṛsáḥ ǀ sám ǀ dvayī́bhiḥ ǀ svásṛ-bhiḥ ǀ kṣeti ǀ jāmí-bhiḥ ǁaramamāṇaḥ ǀ ati ǀ eti ǀ gāḥ ǀ abhi ǀ sūryasya ǀ priyam ǀ duhituḥ ǀ tiraḥ ǀ ravam ǀ
anu ǀ asmai ǀ joṣam ǀ abharat ǀ vinam-gṛsaḥ ǀ sam ǀ dvayībhiḥ ǀ svasṛ-bhiḥ ǀ kṣeti ǀ jāmi-bhiḥ ǁ9.72.3 Aṣṭaka 7.2.27.3Anuvāka 9.4.42
-
Ṛk 4
नृधू॑तो॒ अद्रि॑षुतो ब॒र्हिषि॑ प्रि॒यः पति॒र्गवां॑ प्र॒दिव॒ इंदु॑र्ऋ॒त्वियः॑ ।
पुरं॑धिवा॒न्मनु॑षो यज्ञ॒साध॑नः॒ शुचि॑र्धि॒या प॑वते॒ सोम॑ इंद्र ते ॥नृधूतो अद्रिषुतो बर्हिषि प्रियः पतिर् गवाम् प्रदिव इन्दुर् ऋत्वियः |
पुरन्धिवान् मनुषो यज्ञसाधनः शुचिर् धिया पवते सोम इन्द्र ते ||nṛ́dhūto ádriṣuto barhíṣi priyáḥ pátirgávām pradíva índurṛtvíyaḥ ǀ
púraṃdhivānmánuṣo yajñasā́dhanaḥ śúcirdhiyā́ pavate sóma indra te ǁnṛdhūto adriṣuto barhiṣi priyaḥ patir gavām pradiva indur ṛtviyaḥ |
purandhivān manuṣo yajñasādhanaḥ śucir dhiyā pavate soma indra te ||नृऽधू॑तः । अद्रि॑ऽसुतः । ब॒र्हिषि॑ । प्रि॒यः । पतिः॑ । गवा॑म् । प्र॒ऽदिवः॑ । इन्दुः॑ । ऋ॒त्वियः॑ ।
पुर॑न्धिऽवान् । मनु॑षः । य॒ज्ञ॒ऽसाध॑नः । शुचिः॑ । धि॒या । प॒व॒ते॒ । सोमः॑ । इ॒न्द्र॒ । ते॒ ॥नृऽधूतः । अद्रिऽसुतः । बर्हिषि । प्रियः । पतिः । गवाम् । प्रऽदिवः । इन्दुः । ऋत्वियः ।
पुरन्धिऽवान् । मनुषः । यज्ञऽसाधनः । शुचिः । धिया । पवते । सोमः । इन्द्र । ते ॥nṛ́-dhūtaḥ ǀ ádri-sutaḥ ǀ barhíṣi ǀ priyáḥ ǀ pátiḥ ǀ gávām ǀ pra-dívaḥ ǀ índuḥ ǀ ṛtvíyaḥ ǀ
púrandhi-vān ǀ mánuṣaḥ ǀ yajña-sā́dhanaḥ ǀ śúciḥ ǀ dhiyā́ ǀ pavate ǀ sómaḥ ǀ indra ǀ te ǁnṛ-dhūtaḥ ǀ adri-sutaḥ ǀ barhiṣi ǀ priyaḥ ǀ patiḥ ǀ gavām ǀ pra-divaḥ ǀ induḥ ǀ ṛtviyaḥ ǀ
purandhi-vān ǀ manuṣaḥ ǀ yajña-sādhanaḥ ǀ śuciḥ ǀ dhiyā ǀ pavate ǀ somaḥ ǀ indra ǀ te ǁ9.72.4 Aṣṭaka 7.2.27.4Anuvāka 9.4.43
-
Ṛk 5
नृबा॒हुभ्यां॑ चोदि॒तो धार॑या सु॒तो॑ऽनुष्व॒धं प॑वते॒ सोम॑ इंद्र ते ।
आप्राः॒ क्रतू॒न्त्सम॑जैरध्व॒रे म॒तीर्वेर्न द्रु॒षच्च॒म्वो॒३॒॑रास॑द॒द्धरिः॑ ॥नृबाहुभ्यां चोदितो धारया सुतो ऽनुष्वधम् पवते सोम इन्द्र ते |
आप्राः क्रतून् सम् अजैर् अध्वरे मतीर् वेर् न द्रुषच् चम्वोर् आसदद् धरिः ||nṛ́bāhúbhyām coditó dhā́rayā sutó’nuṣvadhám pavate sóma indra te ǀ
ā́prāḥ krátūntsámajairadhvaré matī́rvérná druṣáccamvórā́sadaddháriḥ ǁnṛbāhubhyāṃ codito dhārayā suto 'nuṣvadham pavate soma indra te |
āprāḥ kratūn sam ajair adhvare matīr ver na druṣac camvor āsadad dhariḥ ||नृ॒बा॒हुऽभ्या॑म् । चो॒दि॒तः । धार॑या । सु॒तः । अ॒नु॒ऽस्व॒धम् । प॒व॒ते॒ । सोमः॑ । इ॒न्द्र॒ । ते॒ ।
आ । अ॒प्राः॒ । क्रतू॑न् । सम् । अ॒जैः॒ । अ॒ध्व॒रे । म॒तीः । वेः । न । द्रु॒ऽसत् । च॒म्वोः॑ । आ । अ॒स॒द॒त् । हरिः॑ ॥नृबाहुऽभ्याम् । चोदितः । धारया । सुतः । अनुऽस्वधम् । पवते । सोमः । इन्द्र । ते ।
आ । अप्राः । क्रतून् । सम् । अजैः । अध्वरे । मतीः । वेः । न । द्रुऽसत् । चम्वोः । आ । असदत् । हरिः ॥nṛbāhú-bhyām ǀ coditáḥ ǀ dhā́rayā ǀ sutáḥ ǀ anu-svadhám ǀ pavate ǀ sómaḥ ǀ indra ǀ te ǀ
ā́ ǀ aprāḥ ǀ krátūn ǀ sám ǀ ajaiḥ ǀ adhvaré ǀ matī́ḥ ǀ véḥ ǀ ná ǀ dru-sát ǀ camvóḥ ǀ ā́ ǀ asadat ǀ háriḥ ǁnṛbāhu-bhyām ǀ coditaḥ ǀ dhārayā ǀ sutaḥ ǀ anu-svadham ǀ pavate ǀ somaḥ ǀ indra ǀ te ǀ
ā ǀ aprāḥ ǀ kratūn ǀ sam ǀ ajaiḥ ǀ adhvare ǀ matīḥ ǀ veḥ ǀ na ǀ dru-sat ǀ camvoḥ ǀ ā ǀ asadat ǀ hariḥ ǁ9.72.5 Aṣṭaka 7.2.27.5Anuvāka 9.4.44
-
Ṛk 6
अं॒शुं दु॑हंति स्त॒नयं॑त॒मक्षि॑तं क॒विं क॒वयो॒ऽपसो॑ मनी॒षिणः॑ ।
समी॒ गावो॑ म॒तयो॑ यंति सं॒यत॑ ऋ॒तस्य॒ योना॒ सद॑ने पुन॒र्भुवः॑ ॥अंशुं दुहन्ति स्तनयन्तम् अक्षितं कविं कवयो ऽपसो मनीषिणः |
सम् ई गावो मतयो यन्ति संयत ऋतस्य योना सदने पुनर्भुवः ||aṃśúm duhanti stanáyantamákṣitam kavím kaváyo’páso manīṣíṇaḥ ǀ
sámī gā́vo matáyo yanti saṃyáta ṛtásya yónā sádane punarbhúvaḥ ǁaṃśuṃ duhanti stanayantam akṣitaṃ kaviṃ kavayo 'paso manīṣiṇaḥ |
sam ī gāvo matayo yanti saṃyata ṛtasya yonā sadane punarbhuvaḥ ||अं॒शुम् । दु॒ह॒न्ति॒ । स्त॒नय॑न्तम् । अक्षि॑तम् । क॒विम् । क॒वयः॑ । अ॒पसः॑ । म॒नी॒षिणः॑ ।
सम् । ई॒मिति॑ । गावः॑ । म॒तयः॑ । य॒न्ति॒ । स॒म्ऽयतः॑ । ऋ॒तस्य॑ । योना॑ । सद॑ने । पु॒नः॒ऽभुवः॑ ॥अंशुम् । दुहन्ति । स्तनयन्तम् । अक्षितम् । कविम् । कवयः । अपसः । मनीषिणः ।
सम् । ईमिति । गावः । मतयः । यन्ति । सम्ऽयतः । ऋतस्य । योना । सदने । पुनःऽभुवः ॥aṃśúm ǀ duhanti ǀ stanáyantam ǀ ákṣitam ǀ kavím ǀ kaváyaḥ ǀ apásaḥ ǀ manīṣíṇaḥ ǀ
sám ǀ īmíti ǀ gā́vaḥ ǀ matáyaḥ ǀ yanti ǀ sam-yátaḥ ǀ ṛtásya ǀ yónā ǀ sádane ǀ punaḥ-bhúvaḥ ǁaṃśum ǀ duhanti ǀ stanayantam ǀ akṣitam ǀ kavim ǀ kavayaḥ ǀ apasaḥ ǀ manīṣiṇaḥ ǀ
sam ǀ īmiti ǀ gāvaḥ ǀ matayaḥ ǀ yanti ǀ sam-yataḥ ǀ ṛtasya ǀ yonā ǀ sadane ǀ punaḥ-bhuvaḥ ǁ9.72.6 Aṣṭaka 7.2.28.1Anuvāka 9.4.45
-
Ṛk 7
नाभा॑ पृथि॒व्या ध॒रुणो॑ म॒हो दि॒वो॒३॒॑ऽपामू॒र्मौ सिंधु॑ष्वं॒तरु॑क्षि॒तः ।
इंद्र॑स्य॒ वज्रो॑ वृष॒भो वि॒भूव॑सुः॒ सोमो॑ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ॥नाभा पृथिव्या धरुणो महो दिवो ऽपाम् ऊर्मौ सिन्धुष्व् अन्तर् उक्षितः |
इन्द्रस्य वज्रो वृषभो विभूवसुः सोमो हृदे पवते चारु मत्सरः ||nā́bhā pṛthivyā́ dharúṇo mahó divó’pā́mūrmáu síndhuṣvantárukṣitáḥ ǀ
índrasya vájro vṛṣabhó vibhū́vasuḥ sómo hṛdé pavate cā́ru matsaráḥ ǁnābhā pṛthivyā dharuṇo maho divo 'pām ūrmau sindhuṣv antar ukṣitaḥ |
indrasya vajro vṛṣabho vibhūvasuḥ somo hṛde pavate cāru matsaraḥ ||नाभा॑ । पृ॒थि॒व्याः । ध॒रुणः॑ । म॒हः । दि॒वः । अ॒पाम् । ऊ॒र्मौ । सिन्धु॑षु । अ॒न्तः । उ॒क्षि॒तः ।
इन्द्र॑स्य । वज्रः॑ । वृ॒ष॒भः । वि॒भुऽव॑सुः । सोमः॑ । हृ॒दे । प॒व॒ते॒ । चारु॑ । म॒त्स॒रः ॥नाभा । पृथिव्याः । धरुणः । महः । दिवः । अपाम् । ऊर्मौ । सिन्धुषु । अन्तः । उक्षितः ।
इन्द्रस्य । वज्रः । वृषभः । विभुऽवसुः । सोमः । हृदे । पवते । चारु । मत्सरः ॥nā́bhā ǀ pṛthivyā́ḥ ǀ dharúṇaḥ ǀ maháḥ ǀ diváḥ ǀ apā́m ǀ ūrmáu ǀ síndhuṣu ǀ antáḥ ǀ ukṣitáḥ ǀ
índrasya ǀ vájraḥ ǀ vṛṣabháḥ ǀ vibhú-vasuḥ ǀ sómaḥ ǀ hṛdé ǀ pavate ǀ cā́ru ǀ matsaráḥ ǁnābhā ǀ pṛthivyāḥ ǀ dharuṇaḥ ǀ mahaḥ ǀ divaḥ ǀ apām ǀ ūrmau ǀ sindhuṣu ǀ antaḥ ǀ ukṣitaḥ ǀ
indrasya ǀ vajraḥ ǀ vṛṣabhaḥ ǀ vibhu-vasuḥ ǀ somaḥ ǀ hṛde ǀ pavate ǀ cāru ǀ matsaraḥ ǁ9.72.7 Aṣṭaka 7.2.28.2Anuvāka 9.4.46
-
Ṛk 8
स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रजः॑ स्तो॒त्रे शिक्ष॑न्नाधून्व॒ते च॑ सुक्रतो ।
मा नो॒ निर्भा॒ग्वसु॑नः सादन॒स्पृशो॑ र॒यिं पि॒शंगं॑ बहु॒लं व॑सीमहि ॥स तू पवस्व परि पार्थिवं रज स्तोत्रे शिक्षन्न् आधून्वते च सुक्रतो |
मा नो निर् भाग् वसुनः सादनस्पृशो रयिम् पिशङ्गम् बहुलं वसीमहि ||sá tū́ pavasva pári pā́rthivam rájaḥ stotré śíkṣannādhūnvaté ca sukrato ǀ
mā́ no nírbhāgvásunaḥ sādanaspṛ́śo rayím piśáṅgam bahulám vasīmahi ǁsa tū pavasva pari pārthivaṃ raja stotre śikṣann ādhūnvate ca sukrato |
mā no nir bhāg vasunaḥ sādanaspṛśo rayim piśaṅgam bahulaṃ vasīmahi ||सः । तु । प॒व॒स्व॒ । परि॑ । पार्थि॑वम् । रजः॑ । स्तो॒त्रे । शिक्ष॑न् । आ॒ऽधू॒न्व॒ते । च॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ।
मा । नः॒ । निः । भा॒क् । वसु॑नः । स॒द॒न॒ऽस्पृशः॑ । र॒यिम् । पि॒शङ्ग॑म् । ब॒हु॒लम् । व॒सी॒म॒हि॒ ॥सः । तु । पवस्व । परि । पार्थिवम् । रजः । स्तोत्रे । शिक्षन् । आऽधून्वते । च । सुक्रतो इति सुऽक्रतो ।
मा । नः । निः । भाक् । वसुनः । सदनऽस्पृशः । रयिम् । पिशङ्गम् । बहुलम् । वसीमहि ॥sáḥ ǀ tú ǀ pavasva ǀ pári ǀ pā́rthivam ǀ rájaḥ ǀ stotré ǀ śíkṣan ǀ ā-dhūnvaté ǀ ca ǀ sukrato íti su-krato ǀ
mā́ ǀ naḥ ǀ níḥ ǀ bhāk ǀ vásunaḥ ǀ sadana-spṛ́śaḥ ǀ rayím ǀ piśáṅgam ǀ bahulám ǀ vasīmahi ǁsaḥ ǀ tu ǀ pavasva ǀ pari ǀ pārthivam ǀ rajaḥ ǀ stotre ǀ śikṣan ǀ ā-dhūnvate ǀ ca ǀ sukrato iti su-krato ǀ
mā ǀ naḥ ǀ niḥ ǀ bhāk ǀ vasunaḥ ǀ sadana-spṛśaḥ ǀ rayim ǀ piśaṅgam ǀ bahulam ǀ vasīmahi ǁ9.72.8 Aṣṭaka 7.2.28.3Anuvāka 9.4.47
-
Ṛk 9
आ तू न॑ इंदो श॒तदा॒त्वश्व्यं॑ स॒हस्र॑दातु पशु॒मद्धिर॑ण्यवत् ।
उप॑ मास्व बृह॒ती रे॒वती॒रिषोऽधि॑ स्तो॒त्रस्य॑ पवमान नो गहि ॥आ तू न इन्दो शतदात्व् अश्व्यं सहस्रदातु पशुमद् धिरण्यवत् |
उप मास्व बृहती रेवतीर् इषो ऽधि स्तोत्रस्य पवमान नो गहि ||ā́ tū́ na indo śatádātváśvyam sahásradātu paśumáddhíraṇyavat ǀ
úpa māsva bṛhatī́ revátīríṣó’dhi stotrásya pavamāna no gahi ǁā tū na indo śatadātv aśvyaṃ sahasradātu paśumad dhiraṇyavat |
upa māsva bṛhatī revatīr iṣo 'dhi stotrasya pavamāna no gahi ||आ । तु । नः॒ । इ॒न्दो॒ इति॑ । श॒तऽदा॑तु । अश्व्य॑म् । स॒हस्र॑ऽदातु । प॒शु॒ऽमत् । हिर॑ण्यऽवत् ।
उप॑ । मा॒स्व॒ । बृ॒ह॒तीः । रे॒वतीः॑ । इषः॑ । अधि॑ । स्तो॒त्रस्य॑ । प॒व॒मा॒न॒ । नः॒ । ग॒हि॒ ॥आ । तु । नः । इन्दो इति । शतऽदातु । अश्व्यम् । सहस्रऽदातु । पशुऽमत् । हिरण्यऽवत् ।
उप । मास्व । बृहतीः । रेवतीः । इषः । अधि । स्तोत्रस्य । पवमान । नः । गहि ॥ā́ ǀ tú ǀ naḥ ǀ indo íti ǀ śatá-dātu ǀ áśvyam ǀ sahásra-dātu ǀ paśu-mát ǀ híraṇya-vat ǀ
úpa ǀ māsva ǀ bṛhatī́ḥ ǀ revátīḥ ǀ íṣaḥ ǀ ádhi ǀ stotrásya ǀ pavamāna ǀ naḥ ǀ gahi ǁā ǀ tu ǀ naḥ ǀ indo iti ǀ śata-dātu ǀ aśvyam ǀ sahasra-dātu ǀ paśu-mat ǀ hiraṇya-vat ǀ
upa ǀ māsva ǀ bṛhatīḥ ǀ revatīḥ ǀ iṣaḥ ǀ adhi ǀ stotrasya ǀ pavamāna ǀ naḥ ǀ gahi ǁ9.72.9 Aṣṭaka 7.2.28.4Anuvāka 9.4.48
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.