Ṛk 9.72.5
Saṃhitā
नृबा॒हुभ्यां॑ चोदि॒तो धार॑या सु॒तो॑ऽनुष्व॒धं प॑वते॒ सोम॑ इंद्र ते ।
आप्राः॒ क्रतू॒न्त्सम॑जैरध्व॒रे म॒तीर्वेर्न द्रु॒षच्च॒म्वो॒३॒॑रास॑द॒द्धरिः॑ ॥
नृबाहुभ्यां चोदितो धारया सुतो ऽनुष्वधम् पवते सोम इन्द्र ते |
आप्राः क्रतून् सम् अजैर् अध्वरे मतीर् वेर् न द्रुषच् चम्वोर् आसदद् धरिः ||
nṛ́bāhúbhyām coditó dhā́rayā sutó’nuṣvadhám pavate sóma indra te ǀ
ā́prāḥ krátūntsámajairadhvaré matī́rvérná druṣáccamvórā́sadaddháriḥ ǁ
nṛbāhubhyāṃ codito dhārayā suto 'nuṣvadham pavate soma indra te |
āprāḥ kratūn sam ajair adhvare matīr ver na druṣac camvor āsadad dhariḥ ||
Padapāṭha
नृ॒बा॒हुऽभ्या॑म् । चो॒दि॒तः । धार॑या । सु॒तः । अ॒नु॒ऽस्व॒धम् । प॒व॒ते॒ । सोमः॑ । इ॒न्द्र॒ । ते॒ ।
आ । अ॒प्राः॒ । क्रतू॑न् । सम् । अ॒जैः॒ । अ॒ध्व॒रे । म॒तीः । वेः । न । द्रु॒ऽसत् । च॒म्वोः॑ । आ । अ॒स॒द॒त् । हरिः॑ ॥
नृबाहुऽभ्याम् । चोदितः । धारया । सुतः । अनुऽस्वधम् । पवते । सोमः । इन्द्र । ते ।
आ । अप्राः । क्रतून् । सम् । अजैः । अध्वरे । मतीः । वेः । न । द्रुऽसत् । चम्वोः । आ । असदत् । हरिः ॥
nṛbāhú-bhyām ǀ coditáḥ ǀ dhā́rayā ǀ sutáḥ ǀ anu-svadhám ǀ pavate ǀ sómaḥ ǀ indra ǀ te ǀ
ā́ ǀ aprāḥ ǀ krátūn ǀ sám ǀ ajaiḥ ǀ adhvaré ǀ matī́ḥ ǀ véḥ ǀ ná ǀ dru-sát ǀ camvóḥ ǀ ā́ ǀ asadat ǀ háriḥ ǁ
nṛbāhu-bhyām ǀ coditaḥ ǀ dhārayā ǀ sutaḥ ǀ anu-svadham ǀ pavate ǀ somaḥ ǀ indra ǀ te ǀ
ā ǀ aprāḥ ǀ kratūn ǀ sam ǀ ajaiḥ ǀ adhvare ǀ matīḥ ǀ veḥ ǀ na ǀ dru-sat ǀ camvoḥ ǀ ā ǀ asadat ǀ hariḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.072.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.2.27.05
- Maṇḍala · Anuvāka · Ṛk
- 09.04.044
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Harimanta Āṅgirasa
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.