Sūkta 34
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Trita Āptya
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles nicṛdgāyatrī (1, 2, 4); gāyatrī (3, 5, 6)
2nd set of styles gāyatrī
-
Ṛk 1
प्र सु॑वा॒नो धार॑या॒ तनेंदु॑र्हिन्वा॒नो अ॑र्षति ।
रु॒जद्दृ॒ळ्हा व्योज॑सा ॥प्र सुवानो धारया तनेन्दुर् हिन्वानो अर्षति |
रुजद् दृऌहा व्य् ओजसा ||prá suvānó dhā́rayā tánéndurhinvānó arṣati ǀ
rujáddṛḷhā́ vyójasā ǁpra suvāno dhārayā tanendur hinvāno arṣati |
rujad dṛḷhā vy ojasā ||प्र । सु॒वा॒नः । धार॑या । तना॑ । इन्दुः॑ । हि॒न्वा॒नः । अ॒र्ष॒ति॒ ।
रु॒जत् । दृ॒ळ्हा । वि । ओज॑सा ॥प्र । सुवानः । धारया । तना । इन्दुः । हिन्वानः । अर्षति ।
रुजत् । दृळ्हा । वि । ओजसा ॥prá ǀ suvānáḥ ǀ dhā́rayā ǀ tánā ǀ índuḥ ǀ hinvānáḥ ǀ arṣati ǀ
ruját ǀ dṛḷhā́ ǀ ví ǀ ójasā ǁpra ǀ suvānaḥ ǀ dhārayā ǀ tanā ǀ induḥ ǀ hinvānaḥ ǀ arṣati ǀ
rujat ǀ dṛḷhā ǀ vi ǀ ojasā ǁ9.34.1 Aṣṭaka 6.8.24.1Anuvāka 9.2.55
-
Ṛk 2
सु॒त इंद्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ ।
सोमो॑ अर्षति॒ विष्ण॑वे ॥सुत इन्द्राय वायवे वरुणाय मरुद्भ्यः |
सोमो अर्षति विष्णवे ||sutá índrāya vāyáve váruṇāya marúdbhyaḥ ǀ
sómo arṣati víṣṇave ǁsuta indrāya vāyave varuṇāya marudbhyaḥ |
somo arṣati viṣṇave ||सु॒तः । इन्द्रा॑य । वा॒यवे॑ । वरु॑णाय । म॒रुत्ऽभ्यः॑ ।
सोमः॑ । अ॒र्ष॒ति॒ । विष्ण॑वे ॥सुतः । इन्द्राय । वायवे । वरुणाय । मरुत्ऽभ्यः ।
सोमः । अर्षति । विष्णवे ॥sutáḥ ǀ índrāya ǀ vāyáve ǀ váruṇāya ǀ marút-bhyaḥ ǀ
sómaḥ ǀ arṣati ǀ víṣṇave ǁsutaḥ ǀ indrāya ǀ vāyave ǀ varuṇāya ǀ marut-bhyaḥ ǀ
somaḥ ǀ arṣati ǀ viṣṇave ǁ9.34.2 Aṣṭaka 6.8.24.2Anuvāka 9.2.56
-
Ṛk 3
वृषा॑णं॒ वृष॑भिर्य॒तं सु॒न्वंति॒ सोम॒मद्रि॑भिः ।
दु॒हंति॒ शक्म॑ना॒ पयः॑ ॥वृषाणं वृषभिर् यतं सुन्वन्ति सोमम् अद्रिभिः |
दुहन्ति शक्मना पयः ||vṛ́ṣāṇam vṛ́ṣabhiryatám sunvánti sómamádribhiḥ ǀ
duhánti śákmanā páyaḥ ǁvṛṣāṇaṃ vṛṣabhir yataṃ sunvanti somam adribhiḥ |
duhanti śakmanā payaḥ ||वृषा॑णम् । वृष॑ऽभिः । य॒तम् । सु॒न्वन्ति॑ । सोम॑म् । अद्रि॑ऽभिः ।
दु॒हन्ति॑ । शक्म॑ना । पयः॑ ॥वृषाणम् । वृषऽभिः । यतम् । सुन्वन्ति । सोमम् । अद्रिऽभिः ।
दुहन्ति । शक्मना । पयः ॥vṛ́ṣāṇam ǀ vṛ́ṣa-bhiḥ ǀ yatám ǀ sunvánti ǀ sómam ǀ ádri-bhiḥ ǀ
duhánti ǀ śákmanā ǀ páyaḥ ǁvṛṣāṇam ǀ vṛṣa-bhiḥ ǀ yatam ǀ sunvanti ǀ somam ǀ adri-bhiḥ ǀ
duhanti ǀ śakmanā ǀ payaḥ ǁ9.34.3 Aṣṭaka 6.8.24.3Anuvāka 9.2.57
-
Ṛk 4
भुव॑त्त्रि॒तस्य॒ मर्ज्यो॒ भुव॒दिंद्रा॑य मत्स॒रः ।
सं रू॒पैर॑ज्यते॒ हरिः॑ ॥भुवत् त्रितस्य मर्ज्यो भुवद् इन्द्राय मत्सरः |
सं रूपैर् अज्यते हरिः ||bhúvattritásya márjyo bhúvadíndrāya matsaráḥ ǀ
sám rūpáirajyate háriḥ ǁbhuvat tritasya marjyo bhuvad indrāya matsaraḥ |
saṃ rūpair ajyate hariḥ ||भुव॑त् । त्रि॒तस्य॑ । मर्ज्यः॑ । भुव॑त् । इन्द्रा॑य । म॒त्स॒रः ।
सम् । रू॒पैः । अ॒ज्य॒ते॒ । हरिः॑ ॥भुवत् । त्रितस्य । मर्ज्यः । भुवत् । इन्द्राय । मत्सरः ।
सम् । रूपैः । अज्यते । हरिः ॥bhúvat ǀ tritásya ǀ márjyaḥ ǀ bhúvat ǀ índrāya ǀ matsaráḥ ǀ
sám ǀ rūpáiḥ ǀ ajyate ǀ háriḥ ǁbhuvat ǀ tritasya ǀ marjyaḥ ǀ bhuvat ǀ indrāya ǀ matsaraḥ ǀ
sam ǀ rūpaiḥ ǀ ajyate ǀ hariḥ ǁ9.34.4 Aṣṭaka 6.8.24.4Anuvāka 9.2.58
-
Ṛk 5
अ॒भीमृ॒तस्य॑ वि॒ष्टपं॑ दुह॒ते पृश्नि॑मातरः ।
चारु॑ प्रि॒यत॑मं ह॒विः ॥अभीम् ऋतस्य विष्टपं दुहते पृश्निमातरः |
चारु प्रियतमं हविः ||abhī́mṛtásya viṣṭápam duhaté pṛ́śnimātaraḥ ǀ
cā́ru priyátamam havíḥ ǁabhīm ṛtasya viṣṭapaṃ duhate pṛśnimātaraḥ |
cāru priyatamaṃ haviḥ ||अ॒भि । ई॒म् । ऋ॒तस्य॑ । वि॒ष्टप॑म् । दु॒ह॒ते । पृश्नि॑ऽमातरः ।
चारु॑ । प्रि॒यऽत॑मम् । ह॒विः ॥अभि । ईम् । ऋतस्य । विष्टपम् । दुहते । पृश्निऽमातरः ।
चारु । प्रियऽतमम् । हविः ॥abhí ǀ īm ǀ ṛtásya ǀ viṣṭápam ǀ duhaté ǀ pṛ́śni-mātaraḥ ǀ
cā́ru ǀ priyá-tamam ǀ havíḥ ǁabhi ǀ īm ǀ ṛtasya ǀ viṣṭapam ǀ duhate ǀ pṛśni-mātaraḥ ǀ
cāru ǀ priya-tamam ǀ haviḥ ǁ9.34.5 Aṣṭaka 6.8.24.5Anuvāka 9.2.59
-
Ṛk 6
समे॑न॒मह्रु॑ता इ॒मा गिरो॑ अर्षंति स॒स्रुतः॑ ।
धे॒नूर्वा॒श्रो अ॑वीवशत् ॥सम् एनम् अह्रुता इमा गिरो अर्षन्ति सस्रुतः |
धेनूर् वाश्रो अवीवशत् ||sámenamáhrutā imā́ gíro arṣanti sasrútaḥ ǀ
dhenū́rvāśró avīvaśat ǁsam enam ahrutā imā giro arṣanti sasrutaḥ |
dhenūr vāśro avīvaśat ||सम् । ए॒न॒म् । अह्रु॑ताः । इ॒माः । गिरः॑ । अ॒र्ष॒न्ति॒ । स॒ऽस्रुतः॑ ।
धे॒नूः । वा॒श्रः । अ॒वी॒व॒श॒न् ॥सम् । एनम् । अह्रुताः । इमाः । गिरः । अर्षन्ति । सऽस्रुतः ।
धेनूः । वाश्रः । अवीवशन् ॥sám ǀ enam ǀ áhrutāḥ ǀ imā́ḥ ǀ gíraḥ ǀ arṣanti ǀ sa-srútaḥ ǀ
dhenū́ḥ ǀ vāśráḥ ǀ avīvaśan ǁsam ǀ enam ǀ ahrutāḥ ǀ imāḥ ǀ giraḥ ǀ arṣanti ǀ sa-srutaḥ ǀ
dhenūḥ ǀ vāśraḥ ǀ avīvaśan ǁ9.34.6 Aṣṭaka 6.8.24.6Anuvāka 9.2.60
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.