Sūkta 47
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Kavi Bhārgava
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (1, 3, 4); nicṛdgāyatrī (2); virāḍgāyatrī (5)
2nd set of styles gāyatrī
-
Ṛk 1
अ॒या सोमः॑ सुकृ॒त्यया॑ म॒हश्चि॑द॒भ्य॑वर्धत ।
मं॒दा॒न उद्वृ॑षायते ॥अया सोमः सुकृत्यया महश् चिद् अभ्य् अवर्धत |
मन्दान उद् वृषायते ||ayā́ sómaḥ sukṛtyáyā maháścidabhyávardhata ǀ
mandāná údvṛṣāyate ǁayā somaḥ sukṛtyayā mahaś cid abhy avardhata |
mandāna ud vṛṣāyate ||अ॒या । सोमः॑ । सु॒ऽकृ॒त्यया॑ । म॒हः । चि॒त् । अ॒भि । अ॒व॒र्ध॒त॒ ।
म॒न्दा॒नः । उत् । वृ॒ष॒ऽय॒ते॒ ॥अया । सोमः । सुऽकृत्यया । महः । चित् । अभि । अवर्धत ।
मन्दानः । उत् । वृषऽयते ॥ayā́ ǀ sómaḥ ǀ su-kṛtyáyā ǀ maháḥ ǀ cit ǀ abhí ǀ avardhata ǀ
mandānáḥ ǀ út ǀ vṛṣa-yate ǁayā ǀ somaḥ ǀ su-kṛtyayā ǀ mahaḥ ǀ cit ǀ abhi ǀ avardhata ǀ
mandānaḥ ǀ ut ǀ vṛṣa-yate ǁ9.47.1 Aṣṭaka 7.1.4.1Anuvāka 9.2.133
-
Ṛk 2
कृ॒तानीद॑स्य॒ कर्त्वा॒ चेतं॑ते दस्यु॒तर्ह॑णा ।
ऋ॒णा च॑ धृ॒ष्णुश्च॑यते ॥कृतानीद् अस्य कर्त्वा चेतन्ते दस्युतर्हणा |
ऋणा च धृष्णुश् चयते ||kṛtā́nī́dasya kártvā cétante dasyutárhaṇā ǀ
ṛṇā́ ca dhṛṣṇúścayate ǁkṛtānīd asya kartvā cetante dasyutarhaṇā |
ṛṇā ca dhṛṣṇuś cayate ||कृ॒तानि॑ । इत् । अ॒स्य॒ । कर्त्वा॑ । चेत॑न्ते । द॒स्यु॒ऽतर्ह॑णा ।
ऋ॒णा । च॒ । धृ॒ष्णुः । च॒य॒ते॒ ॥कृतानि । इत् । अस्य । कर्त्वा । चेतन्ते । दस्युऽतर्हणा ।
ऋणा । च । धृष्णुः । चयते ॥kṛtā́ni ǀ ít ǀ asya ǀ kártvā ǀ cétante ǀ dasyu-tárhaṇā ǀ
ṛṇā́ ǀ ca ǀ dhṛṣṇúḥ ǀ cayate ǁkṛtāni ǀ it ǀ asya ǀ kartvā ǀ cetante ǀ dasyu-tarhaṇā ǀ
ṛṇā ǀ ca ǀ dhṛṣṇuḥ ǀ cayate ǁ9.47.2 Aṣṭaka 7.1.4.2Anuvāka 9.2.134
-
Ṛk 3
आत्सोम॑ इंद्रि॒यो रसो॒ वज्रः॑ सहस्र॒सा भु॑वत् ।
उ॒क्थं यद॑स्य॒ जाय॑ते ॥आत् सोम इन्द्रियो रसो वज्रः सहस्रसा भुवत् |
उक्थं यद् अस्य जायते ||ā́tsóma indriyó ráso vájraḥ sahasrasā́ bhuvat ǀ
ukthám yádasya jā́yate ǁāt soma indriyo raso vajraḥ sahasrasā bhuvat |
ukthaṃ yad asya jāyate ||आत् । सोमः॑ । इ॒न्द्रि॒यः । रसः॑ । वज्रः॑ । स॒ह॒स्र॒ऽसाः । भु॒व॒त् ।
उ॒क्थम् । यत् । अ॒स्य॒ । जाय॑ते ॥आत् । सोमः । इन्द्रियः । रसः । वज्रः । सहस्रऽसाः । भुवत् ।
उक्थम् । यत् । अस्य । जायते ॥ā́t ǀ sómaḥ ǀ indriyáḥ ǀ rásaḥ ǀ vájraḥ ǀ sahasra-sā́ḥ ǀ bhuvat ǀ
ukthám ǀ yát ǀ asya ǀ jā́yate ǁāt ǀ somaḥ ǀ indriyaḥ ǀ rasaḥ ǀ vajraḥ ǀ sahasra-sāḥ ǀ bhuvat ǀ
uktham ǀ yat ǀ asya ǀ jāyate ǁ9.47.3 Aṣṭaka 7.1.4.3Anuvāka 9.2.135
-
Ṛk 4
स्व॒यं क॒विर्वि॑ध॒र्तरि॒ विप्रा॑य॒ रत्न॑मिच्छति ।
यदी॑ मर्मृ॒ज्यते॒ धियः॑ ॥स्वयं कविर् विधर्तरि विप्राय रत्नम् इच्छति |
यदी मर्मृज्यते धियः ||svayám kavírvidhartári víprāya rátnamicchati ǀ
yádī marmṛjyáte dhíyaḥ ǁsvayaṃ kavir vidhartari viprāya ratnam icchati |
yadī marmṛjyate dhiyaḥ ||स्व॒यम् । क॒विः । वि॒ऽध॒र्तरि॑ । विप्रा॑य । रत्न॑म् । इ॒च्छ॒ति॒ ।
यदि॑ । म॒र्मृ॒ज्यते॑ । धियः॑ ॥स्वयम् । कविः । विऽधर्तरि । विप्राय । रत्नम् । इच्छति ।
यदि । मर्मृज्यते । धियः ॥svayám ǀ kavíḥ ǀ vi-dhartári ǀ víprāya ǀ rátnam ǀ icchati ǀ
yádi ǀ marmṛjyáte ǀ dhíyaḥ ǁsvayam ǀ kaviḥ ǀ vi-dhartari ǀ viprāya ǀ ratnam ǀ icchati ǀ
yadi ǀ marmṛjyate ǀ dhiyaḥ ǁ9.47.4 Aṣṭaka 7.1.4.4Anuvāka 9.2.136
-
Ṛk 5
सि॒षा॒सतू॑ रयी॒णां वाजे॒ष्वर्व॑तामिव ।
भरे॑षु जि॒ग्युषा॑मसि ॥सिषासतू रयीणां वाजेष्व् अर्वताम् इव |
भरेषु जिग्युषाम् असि ||siṣāsátū rayīṇā́m vā́jeṣvárvatāmiva ǀ
bháreṣu jigyúṣāmasi ǁsiṣāsatū rayīṇāṃ vājeṣv arvatām iva |
bhareṣu jigyuṣām asi ||सि॒सा॒सतुः॑ । र॒यी॒णाम् । वाजे॑षु । अर्व॑ताम्ऽइव ।
भरे॑षु । जि॒ग्युषा॑म् । अ॒सि॒ ॥सिसासतुः । रयीणाम् । वाजेषु । अर्वताम्ऽइव ।
भरेषु । जिग्युषाम् । असि ॥sisāsátuḥ ǀ rayīṇā́m ǀ vā́jeṣu ǀ árvatām-iva ǀ
bháreṣu ǀ jigyúṣām ǀ asi ǁsisāsatuḥ ǀ rayīṇām ǀ vājeṣu ǀ arvatām-iva ǀ
bhareṣu ǀ jigyuṣām ǀ asi ǁ9.47.5 Aṣṭaka 7.1.4.5Anuvāka 9.2.137
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.